॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|65
SK 744
2|1|65
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः   🔊
SK 744
सूत्रच्छेद:
पोटा-युवति-स्तोक-कतिपय-गृष्टिधेनु-वशा-वेहत्-बष्कयणी-प्रवक्तॄ-श्रोत्रिय-अध्यापक-धूर्तैः - तृतीयाबहुवचनम् , जातिः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
उभयव्यञ्जना पोटा इत्यभिधीयते। गृष्टिरेकवारप्रसूता। धेनुः प्रत्यग्रप्रसूता। वशा वन्ध्या। देहद् गर्भपातिनी। बष्कयणी तरुणवत्सा। पोटादिभिः सह जातिवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति। इभपोटा। इभयुवतिः। अग्निस्तोकः। उदश्वित्कतिपयम्। गोगृष्टिः। गोधेनुः। गोवशा। गोवेहत्। गोबष्कयणी। कठप्रवक्ता। कठश्रोत्रियः। कठाध्यापकः। कठधूर्तः। जातिः इति किम्? देवदत्त्तः प्रवक्ता। धूर्तग्रहणम् अकुत्सार्थम्।
विशेषणमित्यादिना समासे प्राप्ते वचनमिदं परनिपातार्थम्। गुणशब्दा ह्रेते। तत्र यदि तेन समासः स्यात तदैषां पूर्वनिपातः प्रसज्येत। अथ धूत्र्तग्रहणं किमर्थम्, यावता कुत्सनशब्दोऽयम्, `कुत्सितानि कुत्सनैः` 2|1|53 इत्येवं समासः सिद्ध? इत्याह-- `धूत्र्तग्रहणमकुत्सार्थम्` इति। शब्दप्रवृत्तिनिमित्तकुत्सायां समासो विज्ञायते, न कुत्सायाम्॥
उभयव्यञ्जनेति। व्यज्यतेऽनेन स्त्रीत्वादिकमिति व्यञ्जनम् उ स्तनादि, उभयोः स्त्रीपुंसयोर्व्यञ्जनं यस्याः सा तथोक्ता, नपुंसके पोटेत्यर्थः। पोटाशब्दस्तु तत्रपि स्त्रीत्वयुक्तः प्रवर्तते। शब्दानां चित्रशक्तित्वात् षण्डशब्दो यथा पुमान्॥ धूर्तग्रहणमकुत्सार्थमिति। कुत्मायां तु ठ्कुत्सितानि कुत्सनैःऽ इति सिध्दमिति भावः। तत्र कठधूर्त इति। यः कठः स धूर्त इत्यर्थः, न तु कठत्वं कुत्स्यते॥
सिद्धान्तकौमुदी
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः - पोटायुवति । पोटादिभिः समानाधिकरणैर्जातिवाचकं समस्यते स तत्पुरुष इत्यर्थः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!