Page loading... Please wait.
2|1|42 - ध्वाङ्क्षेण क्षेपे
॥ तस्मै पाणिनये नमः ॥
2|1|42
SK 719
ध्वाङ्क्षेण क्षेपे   🔊
सूत्रच्छेदः
ध्वाङ्क्षेण (तृतीयैकवचनम्) , क्षेपे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ध्वाङ्क्षेण इत्यर्थग्रहनम्. धवाङ्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने. तीर्थे ध्वाङ्क्ष इव तीर्थध्वाड्क्षः. अनवस्थितः इत्यर्थः. तीर्थकाकः. तीर्थवायसः. क्षेपे इति किम्? तीर्थे ध्वाङ्क्षस्तिष्थति.
`ध्वाङक्षेणेत्यर्थग्रहणम्` इति। अर्थप्रधानत्वान्निर्देशस्य। यत्र हि शब्दप्रधानो निर्देशस्तत्र स्वरूपग्रहणं भवति, अन्यत्र त्वर्थग्रहणमेवेति प्रतिपादितमेतत् प्राक्। अर्थप्रधानत्वन्तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। बहुलग्रहणानुवृत्तेरर्थस्येदं ग्रहणं वा। अपि च `क्षेपे` इत्युच्यते, क्षेपश्चार्थकारित एवेत्यर्थग्रहणमेव युक्तम्। अर्थग्रहणे च सति ध्वाङक्षपर्यायैरपि समासो भवति, अत आह-- `ध्वाङक्षवाचिना` इत्यादि। `तीर्थे ध्वाङक्ष इव` इति। उपमानभावे सति ध्वाङक्षस्य क्षेपो गम्यते,नान्यथेति दर्शयितुमिवशब्दः प्रयुक्तः। समासे तु समास एवोपमानार्थस्यान्तर्भूतत्वादिवशब्दो गतार्थो न प्रयुज्यते। यथैव हि तीर्थ ध्वाङक्षश्चिरं स्थातारो न भवन्ति, तद्वदन्योऽपि यः कार्यं प्रत्यनवस्थितः स `तीर्थध्वाङक्षः` इत्युच्यते, यदाह-- `अनवस्थित इत्यर्थः` इति। कार्यं प्रत्यनवस्थितत्वमेव क्षेपः॥
ठ्स्वं पूपं शब्दस्यऽ इति वचनात्पर्यायाणां न प्राप्नेतीत्य आह - ध्वाङ्क्षेणेत्यर्थग्रहणमिति। व्याख्यानाच्चैतदवसीयते। तीर्थे ध्वाङ्क्ष इवेति। उपमानोपमोयभावे सति क्षेपो गम्यते, नान्यथेतीवशब्दः प्रयुक्तः। यथा तीर्थे ध्वाङ्क्षा न चिरं स्थातारो भवन्ति, एवं कार्येष्वनवस्थितस्तीर्थध्वाङ्क्ष इर्तर्थः, तदाह - अनवस्थित इत्यर्थ इति। वृतौ त्विवार्थस्यान्तर्भावादिवशब्द्सयाप्रयोगः॥
सिद्धान्तकौमुदी
ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाकः ॥
ध्वाङ्क्षेण क्षेपे - ध्वाङ्क्षेण क्षेपे ।ध्वांक्षे॑त्यर्थग्रहणम्, व्याख्यानात् । तदाह — ध्वाङ्क्षवाचिनेति ।क्षेप॑पदं व्याचष्टे — निन्दायामिति । तीक्र्षध्वाङ्क्ष इति । ध्वाङ्क्षः=काकः, स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति । अर्थग्रहणस्य प्रयोजनमाह — तीर्थकाक इति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ध्वाङ्क्षेण क्षेपे (390) (249 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.28 ।।) (इष्टानुपपत्तिपरिहाराधिकरणम्) (1276 वार्तिकम् ।। 1 ।।) ।। ध्वाङ्क्षेणेत्यर्थग्रहणम् ।। (व्याख्याभाष्यम्) ध्वाङ्क्षेण क्षेपेऽर्थग्रहणं कर्तव्यम्। इहापि यथा स्यात् ‐ तीर्थकाक इति।। (आक्षेपभाष्यम्) क्षेप इत्युच्यते। क इह क्षेपो नाम?।। (समाधानभाष्यम्) यथा तीर्थकाका न चिरं स्थातारो भवन्ति। एवं यो गुरुकुलानि गत्वा न चिरं तिष्ठति स उच्यते तीर्थकाक इति।। ध्वाङ्क्षेण ।। 41 ।।