Page loading... Please wait.
2|1|38 - अपेतापोढमुक्तपतितापत्रस्तैरल्पशः
॥ तस्मै पाणिनये नमः ॥
2|1|38
SK 700
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः   🔊
सूत्रच्छेदः
अपेत-अपोढ-मुक्त-पतित-अपत्रस्तैः (तृतीयाबहुवचनम्) , अल्पशः (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अपेत अपोढ मुक्त पतित अपत्रस्त इत्येतैः सह पज्चम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति. अपेत सुखापेतः. अपोढ कल्पनापोढः. मुक्त चक्रमुक्तः. पतित स्वर्गपतितः. अपत्रस्त तरङ्गापत्रस्तः. अल्पशः इति समासस्य अल्पविषयतामाचष्टे. अल्पा पञ्चमी संस्यते, न सर्वा. प्रासादात् पतितः, भोजनादपत्रस्तः इत्येवम् अदौ न भवति. कर्तृकरणे कृता बहुलम् 2|1|32 इत्यस्य एव अयम् प्रपञ्चः.
`अल्पशः` इति। `बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्` 5|4|42 इति शस्। `अल्पा पञ्चमी समस्यते` इति॥ अल्पेभ्यः प्रातिपदिकेभ्यः उत्पन्ना या पञ्चमी सा समस्यते, न तु सर्वेभ्यः प्रातिपदिकेभ्यः इत्यर्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रसादात्पतितः ॥
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः - अपेतापोढ । अल्पशः॑ इति स्वार्थे शस् अत एव निपातनात् । तदाह — अल्पं पञ्चम्यन्तमिति ।बह्वल्पार्था॑दिति शस्तु न भवति,बह्वल्पार्थान्मङ्गलवचन॑मिति वक्ष्यमाणत्वात् ।
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः - अपेतापोढ ।पञ्चमी॑ति वर्तते, प्रत्ययग्रहणात्तदन्तग्रहणम् ।अल्पश॑इत्यत्रबह्वल्पार्थाच्छस्कारका॑दिति शस् । यद्यपिबह्वल्पार्थन्मङ्गलाऽमङ्गलवचन॑मिति वक्ष्यति, तथाप्यत एव निपातनाच्छसिति बोध्यम् । कारकत्वं तु समसनक्रियां प्रतित पञ्चम्यन्तस्य कर्मत्वात्तदभिधायित्वाच्चाल्पशब्दस्य । तदेतदाह — अल्पं पञ्चम्यन्तमिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.