॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|37
SK 699
2|1|37
पञ्चमी भयेन   🔊
SK 699
सूत्रच्छेद:
पञ्चमी - प्रथमैकवचनम् , भयेन - तृतीयैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सुप् सुपा इति वर्तते। तस्य विशेषणम् एतत्। पञ्चम्यन्तं सुबनतं भयशब्देन। सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति। वृकेब्यो भयं वृकभयम्। चौरभयम्। दस्युभयम्। भयभीतभीतिभीभिरिति वक्तव्यम्। वृकेभ्यो भीतः वृकभीतः। वृकभीतिः। वृकभीः। पूर्वस्य एव अयं बहुलग्रहणस्य प्रप्ञ्चः। तथा च ग्रामनिर्गतः, अधर्मजुगुप्सुः इत्येवम् आदि सिद्धं भवति।
`भयभीतभीतिभीभिरिति वक्तव्यम्` इति। एवं हि त्रिभिरपि भीतादिभिः समासो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। स्वयमेव व्याख्यातुमाह-- `पूर्वस्य` इत्यादि। यथैव हि `कर्त्तृकरणे कृता बहुलम्` 2|1|31 इति तृतीयान्तस्य समासो विधीयमानो बहुलग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वादन्यविभक्त्यन्तस्यापि समासो भवति-- पादहारकः, गलेचोपक इति, तथा वृकभीत इत्यादावपि समासो भविष्यति। तस्मात् पूर्वकस्य बहुलग्रहणस्सयैवोदाहरणप्रदर्शनार्थोऽयं योगः प्रपञ्चार्थो वेदितव्यः। `तथा च` इत्यादि। यस्मात् पूर्वकेणैव बहुलग्रहणेन सिद्धं तस्यैवायम्प्रपञ्चः; तस्मात्तत एव बहुलग्रहणात् `ग्रामनिर्गतः` इत्याद्यपि सिद्धं भवति। आदिशब्देन वृकभीतादेग्र्रहणम्॥
भेयेनेति स्वरूपग्रहणादव्याप्तिरिति मत्वाऽऽह -- भयभीभीतिभीभिरिति वक्तव्यमिति। एवं सूत्रन्यासः कर्तव्य इत्यर्थः। व्याख्यानात्वर्थग्रणे ठ्वृकेभ्यस्त्रासःऽ इत्यादावपि प्रसङ्गः इति भावः। स तर्हि तथा न्यासः कर्तव्य? नेत्याह - पूर्वस्यैव बहुलग्रहणस्येति। यथा हि ठ्पादहारकःऽ इत्यादै बहुलग्रहणात्सर्वेपाधिव्यभिचारार्थाद्भवति, एवमत्रापि भविष्यतीत्यर्थः। अधमजुगुप्सुरिति ठ्जुगुप्साविरामऽ इत्यधर्मस्यापादानसंज्ञा॥
सिद्धान्तकौमुदी
चोराद्भयं चोरभयम् ॥ ।भयभीतभीतिभीभिरिति वाच्यम् (वार्तिकम्) ॥ वृकभीतः । वृकभीतिः । वृकभीः ॥
पञ्चमी भयेन - पञ्चमी भयेन । पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चोरभयमिति ।भीत्रार्थानां भयहेतुः॑ इत्यपादानत्वात्पञ्चमी । भयभीतभिति । सूत्रे भयशब्दस्यैव ग्रहणाद्भूतादेरप्राप्ते समासे वचनम् । वृकभीत इति । वृकभीतिः वृकभीरित्यप्युदाहार्यम् । अत्र भाष्येअपर आहे॑त्युक्त्वा भयनिर्गतजुगुप्सुभिरिति वक्तव्यमित्युक्त्वा वृकभयं ग्रामनिर्गतः, अधर्मजुगुप्सु॑रित्युदाह्मतम् । चोरत्रस्तः, भोगोपरत इत्यादौसुप्सुपे॑ति वा, मयूरव्यंसकादित्वाद्वा समासः ।
पञ्चमी भयेन - पञ्चमी भयेन । भयेनेति स्वरूपग्रहणं, नार्थस्य, प्रमाणाऽभावात्,भयभीते॑ति वार्तिकारम्भच्च । तेनवृकात्त्रास॑इत्यादौ समासो न । कथं तर्हिभोगोपरतो॑ग्रामनिर्गतः॑, इत्यादिप्रयोगः । अत्राहुः — बहुलग्रहणात्क्वचिद्विभक्त्यन्तरमपि कृता समस्यतैति प्रागेवोक्तत्वात्,सुप्सुपे॑त्यनेन वा तदुपपत्तिरिति ।
लघुसिद्धान्तकौमुदी
चोराद्भयं चोरभयम्॥
महाभाष्यम्
पञ्चमी भयेन (385) (247 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2। आ.26) (न्यूनतापरिहाराधिकरणम्) (वार्तिकावतरणभाष्यम्) अत्यल्पमिदमुच्यते ‐ भयेन इति।। (1271 वार्तिकम् ।। 1 ।।) (।। भयभीतभीतिभीभिः ।।) (भाष्यम्) भयभीतभीतिभीभिरिति वक्तव्यम्।। वृकाद्भयं वृकभयम्।। वृकाद्भीतः वृकभीतः। वृकाद्भीतिः वृकभीतिः। वृकाद्भीः वृकभीरिति।। (भाष्यम्) अपर आह ‐ (1272 वार्तिकन्यासान्तरम् ।। 2 ।।) (।। भयनिर्गतजुगुप्सुभिः ।।) (भाष्यम्) भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्। वृकभयं ग्रामनिर्गतः अधर्मजुगुप्सुः।। पञ्चमी भयेन ।। 36 ।।