॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|28
SK 690
2|1|28
कालाः   🔊
SK 690
सूत्रच्छेद:
कालाः - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
द्वितीया क्तेन इति वर्तते। कालवाचिनः शब्दाः द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाष, तत्पुरुषश्च समासो भवति। अन्त्यन्तसम्योगार्थं वचनम्। कालाः इति न स्वरूपविधिः। षण्मुहूर्ताश्चराचराः, ते कदाचितहर्गच्छन्ति कदाचित् रात्रिम्। अहरतिसृता मुहूर्ताः अहःसङ्क्रान्ताः। रात्र्यतिसृता मुहूर्ताः रात्रिसङ्क्रान्ताः। मासप्रमितश्चन्द्रमाः। मासं प्रमातुमारब्धः प्रतिपच्चन्द्रमाः इत्यर्थः।
`चराचराः` इति। अनत्यन्तसंयोगप्रतिपादनार्थम्। चरन्ति भ्रमन्तीति चराचराः, अनवस्थिता इत्यर्थः। `चरिचलिपतिवदीनमच्याक्चाभ्यासस्य` (वा।658) इति चरेः पचाद्यचि द्विर्वचनमभ्यासस्याक्चागमश्च। `कदाचिदहर्गच्छन्ति` इत्युत्तरायणे। `कदाचिद्रात्रिम्` इति दक्षिणायने। एतेन तदेवानवस्थितत्वं व्यक्तीकुर्वन्नह्नो रात्रेश्च तैर्मुहूर्तैरनत्यन्तसंयोगमाचष्टे। `अहरतिसृताः` इति। `रोऽसुपि` 8|2|69 इत्यह्नो नकारस्य रेफः। `अहः संक्रान्ताः` इति। `क्रमु पादविक्षेपे` (धातुपाठः-473),पूर्वपदिट्प्रतिषेधः। `अनुनासिकस्य क्विझलोः` 6|4|15 इति दीर्घः। `मासप्रमितः` इति। `माङ माने` (धा।1088), `आदिकर्मणि कत्र्तरि च` 3|4|71 इति कत्र्तरि निष्ठा। `द्यतिस्यति` 7|4|40 इत्यादिनेत्त्वम्। `मासं प्रमातुमारब्धः` इति। मासस्यैकदेशस्य प्रतिपदश्चन्द्रमसा योगं दर्शयन् मासस्य तेनात्यन्तसंयोगमाचष्टे। कालस्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः = अत्यन्तसंयोगः। न च प्रतिपच्चन्द्रमा मासस्येह व्याप्तिः = संयोगोऽस्तीति नेहात्यन्तसंयोगः।
इह ठ्काला अत्यन्तसंयोगेऽ इत्येको योगः कर्तव्यः, तत्र ठ्क्तेनऽ इत्यस्य निवृतत्वात्सर्वत्र समासः सिध्द्यति, किमर्थं योगविभागे क्तान्तेन समासो विधीयत इत्यत आह - अनत्यन्तसंयोगार्थ वचनमिति। अनत्यन्तसंयोगमेव दर्शयति - षण्मुहूर्ता इति। चराचरा इति। चरेः पचाद्यचि ठ्चरिचलिपतिवदीनामुपसंख्यानमाक् चाभायासस्यऽ इति द्विर्वचनमागागमश्चाभ्यासस्येति। चरन्तोऽनवस्थिता इत्यर्थः। कदाचिदहरिति। उतरायणे। कदाचिद्रात्रिमिति। दक्षिणायने। ततस्तैश्च षड्भिर्मुहूर्तैरह्नो रात्रेश्च नास्त्यत्यन्तसंयोगः। मासप्रमित इति। माङ् आदिकर्मणि कर्तरि क्तः, मासं परिच्छेतुमारब्धवानित्यर्थः। प्रतिपच्चन्द्रमा इति। न च तेन मासस्यात्यन्तसंयोग इति भावः॥
सिद्धान्तकौमुदी
क्तेनेत्येव । अनत्यन्तसंयोगार्थं वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥
कालाः - कालाः । क्तेनेत्येवेति । क्तेनेत्यनुवर्तत एवेत्यर्थः । कालवाचिप्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः । ननुअत्यन्तसंयोगे चे॑त्युत्तरसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — अनत्यन्तेति । मासप्रमिति इति । मासं प्रमित इति विग्रहः । प्रपूर्वकान्माधातोरादिकर्मणि क्तः कर्तरि चेति कर्तरि क्तः । तदाह — मासं परिच्छेत्तुमिति । इह प्रतिपच्चन्द्रेण मासस्य नात्यन्तसंयोग इति भावः ।
कालाः - कालाः । बहुवचननिर्देशः स्वरूपनिरासार्थः ।कालवाचिनो द्वितीयान्ताः क्तान्तेन सह वा समस्यन्त॑ इति सूत्रार्थः । ननुकाला अत्यन्तसंयोगे॑इत्येवास्तु क्तेनेति निवृत्तम्, नार्थो योगविभागेनेत्यत आह — अनत्यन्तेति । मासप्रमति इति ।माङ्माने॑ । आदिकर्मणि क्तः कर्तरि । इह प्रतिपञ्चन्द्रेण नास्त्यत्यन्तसंयोगः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!