Page loading... Please wait.
2|1|25 - स्वयं क्तेन
॥ तस्मै पाणिनये नमः ॥
2|1|25
SK 687
स्वयं क्तेन   🔊
सूत्रच्छेदः
स्वयम् (अव्ययम्) , क्तेन (तृतीयैकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्वयम् एतदव्ययम् आत्मना इत्यस्यार्थे वर्तते, तस्य द्वितीयया सम्बन्धो ऽनुपपन्नः इति द्वितीयाग्रहणम् उत्तरार्थम् अनुवर्तते। स्वयम् इत्येतत् सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भाति। स्वयंधौतौ पादौ। स्वयंविलीनम् आज्यम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति।
`तस्य द्वितीयया सह सम्बन्धो नोपपद्यते` इति। द्वितीयार्थासम्भवात्। इतिशब्दो हेतौ। यतस्तस्य द्वितीयया सह सम्बन्धोऽनुपपन्नस्तस्माद्द्वितीयाग्रहणमुत्तरार्थमनुवत्र्तते, न त्वेतदर्थम्। `स्वयंधौतौ पादौ` इति। `धावु गतिशुद्धयोः` (धातुपाठः-601), अस्योदित्त्वाद्विभाषितेट्। `यस्य विभाषा` 7|2|15 इतीट्प्रतिषेधः। `च्छवोः शूडनुनासिके चट 6|4|19 इत्यूठ्। `एत्येधत्यूठसु` 6|1|86 इति वृद्धिः। `स्वयंविलीनमाख्यम्` इति। `लीङ श्लेषणे` (धातुपाठः-1139), `स्वादय ओदितः` (का।8.2.45) इत्योदित्त्वात् `ओदितश्च` 8|2|45 इति नत्वम्। `कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्` (व्या।प।126) इति गतिपूर्वस्यापि समासो भवति। कः पुनरत्र समासे सति विशेषः यावता विनापि तेनैतद्रूपं सिध्यतीत्याह-- `ऐकपद्यम्` इत्यादि॥
ठ्धावु गतिशुध्द्योःऽ, ठुदितो वाऽ इति क्त्वायां विकल्पितेट्त्वात् ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः, ठ्च्छवोः शूडनुनासिके चऽ इत्यूठ, ठेत्येदत्यूठसुऽ इति वृध्दिः। स्वयंविलीनमिति। ठ्लीङ् श्लेषणेऽ, ठ्स्वादयओदितःऽ, ठोदितश्चऽ इति निष्ठानत्वम्, कृद«अहणे गतिकारकपूर्वस्यापि ग्रहणाद्विलीनशब्दः क्तान्तः। ऐकपद्यमैकस्वर्ये समासत्वादिति। समसनं समासः, संज्ञा वा, ततो हेतोरित्यर्थः ॥
सिद्धान्तकौमुदी
द्वितीया - (कौमुदी-686) इति न संबद्ध्यते अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
स्वयं क्तेन - स्वायंकृतिरिति । असति समासे कार्तिरिति स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
एभ्यो णिच् स्यात्। चूर्णान्तेभ्यःऽप्रातिपदिकाद्धात्वर्थे’ इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम्। चुरादिभ्यस्तु स्वार्थे। पुगन्तेति गुणः। सनाद्यन्ता इति धातुत्वम्। तिप्शबादि। गुणायादेशौ। चोरयति॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.