Page loading... Please wait.
2|1|12 - अपपरिबहिरञ्चवः पञ्चम्या
॥ तस्मै पाणिनये नमः ॥
2|1|12
SK 666
अपपरिबहिरञ्चवः पञ्चम्या   🔊
सूत्रच्छेदः
अप-परि-बहिः-अञ्चवः (प्रथमाबहुवचनम्) , पञ्चम्या (तृतीयैकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 अव्ययीभावः  2|1|5
सम्पूर्णसूत्रम्
अप-परि-बहिः-अञ्चवः पञ्चम्या सुपा सह विभाषा अव्ययीभावसमासः
सूत्रार्थः
"अप", "परि", "बहि", एते शब्दाः, तथा च "अञ्च्" धातुनिर्मिता" शब्दाः (यथा - प्राच्, प्रत्यच्, उदच् आदयः) पञ्चम्यन्तेन समर्थेन सह विकल्पेन समस्यन्ते । अस्य समासस्य "अव्ययीभावः" इति संज्ञा भवति ।
Additional description will be added soon.
One-line meaning in English
The words "अप", "परि", "बहि" and the words generated from the verb "अञ्च्" (E.g. प्राच्, प्रत्यच्, उदच् etc) optionally undergo a समास with related पञ्चम्यन्त word; and the समास is called अव्ययीभावसमास.
काशिकावृत्तिः
अपत्रिगर्तं वृष्तो देवः, अप त्रिगर्तेभ्यः। अपपरिबहिरञ्चवः पञ्चम्या 2|1|12। अप परि बहिसञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। परित्रिगर्तम्, परि त्रिगर्तेभ्यः। बहिर्ग्रामम्, वहिर्ग्रामात्। प्राग्ग्रामम्, प्राग् ग्रामात्। बहिः शब्दयोगे पञ्चमीभावस्य एतदेव ज्ञापकम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अपविष्णु संसारः अप विष्णोः । परिविष्णु परि विष्णोः । बहिर्वनम् बहिर्वनात् । प्राग्वनम् प्राग्वनात् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
अपपरिबहिः। अपपरियोगे `पञ्चम्यपाङ्परिभि`रिति पञ्चमीविहिता, अञ्चूत्तरपदयोगेऽपि `अन्यारा` दित्यादिना विहितैव। तेनाऽत्र `पञ्चम्या`इति ग्रहणं `बहिर्योगे पञ्चमी भवति` इति ज्ञापनार्थम्। `ज्ञापकसिद्धं न सर्वत्रे`ति `करस्य करभो बहि`रित्यपि सिद्धम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अपपरिबहिरञ्चवः पञ्चम्या (360) (230 अव्ययीभावसंज्ञासूत्रम् ।। 2.1.2 आ.9 सू.) (योगविभागाधिकरणम्) (1239 वार्तिकम् ।। 1 ।।) (।। विभाषेति योगविभागः ।। ) (भाष्यम्) (विभाषेति) योगविभागः कर्तव्यः। विभाषा इत्ययमधिकारः। ततः ‐ अपपरिपबहिरञ्चवः पञ्चम्या इति।। (पञ्चमीग्रहणप्रयोजनाधिकरणम्) (प्रत्याख्यानभाष्यम्) अपपरिबहिरञ्चवः पञ्चम्या।। पञ्चमीग्रहणं शक्यमकर्तुम्।। कथम्?। सुबन्ते नेति वर्तते। एतैश्च कर्मप्रवचनीयैर्योगे पञ्चमी विधीयते। तत्रान्तरेणापि पञ्चमीग्रहणं पञ्चम्यन्तेन समासो भविष्यति।। (प्रत्याख्यानबाधकभाष्यम्) इदं तर्हि प्रयोजनम्। बहिःशब्देन योगे पञ्चमी न विधीयते तत्रापि यथा स्यात् ‐ बहिर्ग्रामं बहिर्ग्रामात्।। (आक्षेपभाष्यम्) अथ क्रियमाणे पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथमिवैतत्सिद्ध्यति।। (समाधानभाष्यम्) पञ्चमीग्रहमसार्मथ्यात्।। विभाषापपरि ।। 12 ।। (231 अव्ययीभावसंज्ञासूत्रम् ।। 2.1.2 आ.10 सू)