॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|11
SK 665
2|1|11
विभाषा   🔊
SK 665
सूत्रच्छेद:
विभाषा - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , अव्ययीभाव:  [2|1|5]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
विभाषा इत्ययम् अधिकारो वेदितव्यः। यदित ऊर्ध्वम् अनुक्रमिष्यामः, तद् विभाषा भवति। वक्ष्यति
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । सुप्सुपेति तु न नित्यसमासः । अव्ययमित्यादिसमासविधानज्ञापकात् ॥
विभाषाऽपपरिबहिरञ्चवः पञ्चम्या - अपरिबहिः ।समस्यन्ते सोऽव्ययीभाव॑ इति शेषः । अपविष्ण्विति । अत्र "अप" इत्यव्ययं वर्जने । विष्णुं वर्जयित्वा संसरणमित्यर्थः । अप विष्णोरिति-लौकिकविग्रहवाक्यम्, समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाऽभावात् । "अपपरी वर्जने" इति अपेत्यव्ययस्य कर्मप्रवचनीयत्वात्तद्योगेपञ्चम्यपाङ्परिभि॑रिति पञ्चमी । तदन्तेनअपे॑त्यस्याव्ययीभावसमासः । सुब्लुक् । अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । समासात्सुबुत्पत्तिः । "अव्ययादाप्सुपः" इति लुक् । एवं यथायथमग्रेऽपि ज्ञेयम् । परिविष्ण्विति । अत्रापि परिर्वर्जने । पञ्चम्यादि पूर्ववत् । बहिर्वनं बहिर्वनादिति । अस्मादेव ज्ञापकाद्बहिर्योगे पञ्चमी । इतरत् पूर्ववत् । दन्तत्वादम्भावः । प्राग्वनं प्राग्वनादिति । अञ्चूत्तरपदयोगे पञ्चमी ।
विभाषाऽपपरिबहिरञ्चवः पञ्चम्या - अपपरिबहिः । अपपरियोगेपञ्चम्यपाङ्परिभि॑रिति पञ्चमीविहिता, अञ्चूत्तरपदयोगेऽपिअन्यारा॑ दित्यादिना विहितैव । तेनाऽत्रपञ्चम्या॑इति ग्रहणंबहिर्योगे पञ्चमी भवति॑ इति ज्ञापनार्थम् ।ज्ञापकसिद्धं न सर्वत्रे॑तिकरस्य करभो बहि॑रित्यपि सिद्धम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
विभाषा (230 अव्ययीभावसंज्ञासूत्रम् ।। 2.1.2 आ.9 सू.) (योगविभागाधिकरणम्) (1239 वार्तिकम् ।। 1 ।।) (।। विभाषेति योगविभागः ।। ) (भाष्यम्) (विभाषेति) योगविभागः कर्तव्यः। विभाषा इत्ययमधिकारः। ततः ‐ अपपरिपबहिरञ्चवः पञ्चम्या इति।। (पञ्चमीग्रहणप्रयोजनाधिकरणम्) (प्रत्याख्यानभाष्यम्) अपपरिबहिरञ्चवः पञ्चम्या।। पञ्चमीग्रहणं शक्यमकर्तुम्।। कथम्?। सुबन्ते नेति वर्तते। एतैश्च कर्मप्रवचनीयैर्योगे पञ्चमी विधीयते। तत्रान्तरेणापि पञ्चमीग्रहणं पञ्चम्यन्तेन समासो भविष्यति।। (प्रत्याख्यानबाधकभाष्यम्) इदं तर्हि प्रयोजनम्। बहिःशब्देन योगे पञ्चमी न विधीयते तत्रापि यथा स्यात् ‐ बहिर्ग्रामं बहिर्ग्रामात्।। (आक्षेपभाष्यम्) अथ क्रियमाणे पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथमिवैतत्सिद्ध्यति।। (समाधानभाष्यम्) पञ्चमीग्रहमसार्मथ्यात्।। विभाषापपरि ।। 11 ।।