॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|98
SK 646
1|4|98
विभाषा कृञि   🔊
SK 646
सूत्रच्छेद:
विभाषा - प्रथमैकवचनम् , कृञि - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अधिः करोतौ विभाषा कर्मप्रवचनीयसंज्ञो भवति। यदत्र मामधि करिष्यति। कर्मप्रवचनीयसंज्ञापक्षे गतिसंज्ञाबाधनात् तिङि च उदात्तवति 8|1|71 इति निघातो न भवति।
अधिरीआर इति वत्र्तते। तेन प्राप्ते विभाषेयम्। अधिपूर्वः करोतिर्विनियोगे वर्तते। विनियुक्तस्यैवआर्यं सम्पद्यते। `यदत्र मामधिकरिष्यति` इति। मामिति कर्मणि द्वितीया। अधिकरिष्यतीति; अत्र `निपातैर्यद्यदि` 8|1|30 इत्यादिना निघाते प्रतिषिद्धेऽस्य प्रकृतिस्वरेणाद्युदात्तत्वं भवति॥
ठधिरीश्वरेऽ इत्यनुवृतेः प्राप्ते विभाषेयम्। यदत्र मामधिकरिष्यतीति। अधिपूर्वः करोतिर्विनियोगे वर्तते, यथा--अधिकृतोऽयमिह ग्रामे। ठ्स्वरितेनाधिकारःऽ इति च, ईश्वरो भवत्येवमत्र मां विनियोक्ष्यत इत्यर्थः। कर्मणि द्वितीयैषा। यद्येवम्, संज्ञाविधानस्य किं प्रयोजनं तत्राह--कर्मप्रवचनीयसंज्ञापक्ष इति। ठ्निपातैर्यद्यदिऽ इति निधातप्रतिषेधात् स्यप्रत्ययस्वरेण तिङ्न्तमुदातवत्॥
सिद्धान्तकौमुदी
अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् तिङि चोदात्तवति (कौमुदी-3978) इति निघातो न ॥ इति सप्तमी ॥। इति कारकप्रकरणम्‌ ।
विभाषा कृञि - विभाषा कृञि । "अधिरीआरे" इत्यनुवर्तते । "कर्मप्रवचनीया" इत्यधिकृतम् । तदाह — अधिः करोताविति । कृञ्धातौ परे अधिः कर्मप्रवचनीयो वा स्यादीआरत्वे इति यावत् । यदत्रमामधिकरिष्यतीति । अत्र=अस्मिन्विषये मामधिकरिव्यतीति यत्नयुक्तमित्यर्थः । अत्र कर्मप्रवचनीययोगे मामिति द्वितीया । अधिकरिष्यतीत्येतद्व्याचष्टे — विनियोक्ष्यत इत्यर्थ इति । तर्हि कर्मत्वादेव द्वितीयासिद्धेः किं कर्मप्रवचनीयत्वेनेत्यत आह — अगतित्वादिति । तिङि चेति । उदात्तवति तिङि परे गतिर्निहन्यत इति तदर्थः । अत्र करिप्यतीति तिङन्तमुदात्तवत्, तिङ्ङतिङः॑ इति निघातस्य "निपोत्तैर्यत्" इत्यादिना निषेधात् । ततश्च अधेरत्र गतित्वान्निघात इह प्राप्तः । कर्मप्रवचनीयत्वे तु स न भवति, तेन गतित्वस्य बाधात् । अतोऽधेर्निघाताऽभावार्थमिदं सूत्रमिति सिद्धम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां विभक्त्यर्थनिरूपणम् । ************************अथ तिङन्ते कर्तृकर्मप्रक्रिया ।अथ कर्मकर्तृप्रक्रियां निरूपयिष्यन्कर्मणः कर्तृत्वं साधयितुमाह — यदेति ।फलव्यापारयोर्धातु॑रिति सिद्धान्तः । पचिर्हि विक्लित्यनुकूलव्यापारे वर्तते । तत्र विक्लित्तिः फलम् । तदाश्रय ओदनं कर्म.तदनुकूलो व्यापारः — अधिश्रयणादिः पुरुषप्रयत्नरूपो व्यापारः । तत्राधिश्रयणं चुल्ल्या उपरि तण्डुलयुक्तस्थाल्याः स्थापनम् । स्थापनं स्थित्यनुकूलव्यापारः । तत्र स्थितिः स्थालीतण्डुलनिष्ठा । तदनुकूलः पुरुषचेष्टाविशेषः । धातु#ऊपात्तव्यापाराश्रयः पुरुषः कर्ता, स्वतन्त्रत्वात् । स्वातन्त्र्यं प्रधान्यमिति भाष्यम् । कर्मकरणादिकं तु पुरुषप्रयत्नपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः । तत्र यदा सौकर्यतिशयविवक्षया कर्त्तुः पुरुषस्य व्यापारः प्रयत्नो न विवक्ष्यते, किंतु कर्मादिगत एव व्यापारो विक्लित्यादिफलानुकूलत्वेन विवक्ष्यते तदा कर्मादिकारकाण्यपि कर्तृसंज्ञा लभन्ते इत्यर्थः । ननु कर्मादिगतव्यापारस्य पुरुषप्रयत्नाधीनत्वादस्वतन्त्रत्वात्कथं कर्मणः कर्तृत्वमित्यत आह — स्वव्यापारे स्वतन्त्रत्वादिति । स्वातन्त्र्येण विवक्षितत्वादित्यर्थः । तदुक्तंकर्मवत्कर्मणे॑त्यत्र भाष्ये — कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्ष#इत्तवात् इति । अत्र कर्मग्रहणं करणादिकारकस्याप्युपलक्षणम् । तेनेति । असिना छिनत्तीत्यादिप्रयोगदशायामसिकुठारादीनां करणत्वादिसत्त्वेऽपि, "असिश्छिनत्ती" इत्यादिप्रयोगदशायां कर्तृत्वेन विवक्षितत्वात्कर्तरि लकार इत्यर्थः । साध्वसिश्छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा । "साधु" इति क्रियाविशेषं सौकर्यातिशयद्योतनाय । अतितैक्ष्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव असिश्छिनत्तीत्यर्थः । काष्ठानि पचन्तीति । अत्रापि करणानां कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राऽधिकरणस्य कर्तृत्वविवक्षा । काष्ठानामतिशुष्कत्वाद्धमनफूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्ब्यश्रपणतया सौकर्यं बोध्यम् । कर्मणस्त्विति । ये छिदिभिदिप्रभृतय एककर्मकास्तत्र कर्मणः कर्तृत्वविवक्षायां वृक्षश्छिनत्ती॑त्यादौ प्राक् सकर्मकत्वेऽपि संप्रति सर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः । ये तु द्विकर्मकास्तत्र एकस्य कर्मणः कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मकत्वसत्त्वात्प्रायेणेत्युक्तिः । ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा — सुधां क्षीरसागरो मथ्यते॑ । कर्तरि यथथा — सुधां क्षीरसागरो मथ्न#आति॑ । अथ यदुक्तम् — एककर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति, तस्य प्रयोजनाह — तेभ्यो भावे कर्तरि च लकारा इति । नतु कर्मणि, असंभवात् । अत एवअकर्मकेभ्यो भावे कर्तरि ल॑ इत्युक्तमिति भावः । तत्र एककर्मकेभ्यः कर्मणः कर्तत्वविवक्षायां भावे लकारमुदाहरति — पच्यते ओदनेनेति । ओदनकर्तृकः पाक इत्यर्थः । एवं भिद्यते काष्ठेनेत्यपि । यद्यपि पचेर्द्विकर्मकत्वं तथापि तण्डुलानामविवक्षायामेककर्मकत्वं पचेराश्रितम् । कर्तरि त्विति । एककर्मकेषु कर्मणः कर्तृत्वविवक्षायां कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः ।
विभाषा कृञि - यदत्रेति । यो मामधि करिष्यति=विनियोक्ष्यते तस्य मद्विनियोक्तुरीश्ररत्वं गम्यते इथ्यर्थः । तिङि चोदात्तेति । उदात्तविति तिङि परे गतिर्मिहन्यत इति सूत्रार्थः । अत्र करिष्यतीति तिङन्त उदात्तवान्,तिङ्ङतिङः॑ इथि निघातस्यनिपातैर्यद्यदि॑ इत्यादिना निषेधात् । निघातो नेति । मामिति द्वितीया तुकर्मणि द्वितीया॑ इत्यनेनैव सिध्यतीति भावः । इति सप्तमी । इति विभक्त्यर्थाः ।* इति ज्ञानेन्द्र भिक्षुविरचितायां तत्त्वबोधिन्यां कारकप्रकरणम् *अथ तिङन्ते कर्मकर्तृप्रक्रिया ।कर्मणस्त्विति । सौकर्यातिशयं द्योतयितुमित्यनुषह्गः । प्रायेणेति । ये भिदिच्छिदिप्रभृतय एककर्मकान्ते अकर्मका ये तु द्विकर्मकास्ते सकर्मका इति भावः । अकर्मकत्वस्य फलमाह — भावे कर्तरि चेति ।भावे चाऽकर्मकेभ्य॑ इत्युक्तत्वादिति भावः । द्विकर्मकेषु कर्मणः कर्तृत्वविवक्षायामुदाहरणम् — मथ्नाति सागरोऽमृतं॑स्वयं प्रदुग्धेऽस्य गुणैरुपरुआउता वसूपमानस्य वसूनि मेदिनी॑ति ।प्रदुग्धे॑ इत्यत्रकर्मवत्कर्मणे॑ ति प्राप्तस्यसकर्मकाणा॑मिति निषेधे दुहिपच्योरिति प्रतिप्रसूतस्य यकोन दुहस्नुनमा॑मिति निषेधः । उक्तप्रयोगानुरोधाद्द्वकर्मकेषु गौणस्यैव कर्मणः कर्तृत्वविवक्षा न मुख्यस्येत्याहुः । तच्चिन्त्यम् ।अजां ग्रामं नयती॑त्यत्र मुख्यकर्म णः कर्तृत्वविवक्षादर्शनात् । अत्रेदमवध्यम् — अदिकरणत्वाऽविवक्षायां व्रजो गौणकर्मेतिरुणिद्धि व्रजो गां स्वयमेवे॑ति भवति । यदा तु व्रजस्य न कर्मत्वं तदा मुख्यकर्मणोऽपि कर्तृत्वविवक्षा भवति । रुध्यते व्रजे गौः स्वयमेवेति । तथा गोरपादानत्वविवक्षायां गौर्दुह्रते पयः स्वयमेवेत्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!