॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|96
SK 557
1|4|96
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु   🔊
SK 557
सूत्रच्छेद:
अपिः - प्रथमैकवचनम् , पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु - सप्तमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पदार्थे, सम्भावने, अन्ववसर्गे, गर्हायाम्, समुच्चये च वर्तमानः अपिः कर्मप्रवचनीयसंज्ञो भवति। पदान्तरस्य अप्रयुज्यमानस्य अर्थः पदार्थः सर्पिषो ऽपि स्यात्। मधुनो ऽपि स्यात्। मात्रा, बिन्दुः, स्तोकम् इत्यस्य अर्थे ऽपि शब्दो वर्तते। सम्भावनम् अधिकार्थवचनेन शक्तेरप्रतिघाताविष्करनम् अपि सिञ्चेन् मूलकसहस्रम्। अपि स्तुयाद् राजानम्। अन्ववसर्गः कामचाराभ्यनुज्ञानम् अपि सिञ्च। अपि स्तुहि। गर्हा निन्दा धिग् जाल्मं देवदत्तम्, अपि सिञ्चेत् पलाण्डुम्। अपि स्तुयाद् वृषलम्। समुच्चये अपि सिञ्च। अपि स्तुहि। सिञ्च च स्तुहि च। उपसर्गसंज्ञाबाधनात् षत्वम् न भवति।
`पदार्थे` इति। अन्यस्य पदस्यार्थो लक्ष्यते। न स्वार्थः, नापि स्वसम्बन्धिनः; पदस्यार्थः पदार्थः। स्वपदार्थग्रहणं, स्वसम्बन्धिपदार्थग्रहणं वा पदार्थग्रहणमनर्थकं स्यात्। अपिशब्दस्य हि योऽर्थः यश्चापिशब्दसम्बन्धिनः स्यादित्यादेः पदस्य , स पदार्थ एवेति किं पदार्थग्रहणेन? तस्मात् पदार्थग्रहणसामथ्र्याद्विशिष्टपदस्यार्थो विज्ञायत इत्याह-- `पदान्तरस्य` इत्यादि। `सर्पिषोऽपि स्यात्` इति। कर्मप्रवचनीयसंज्ञयोपसर्गसंज्ञाया निवर्तितत्वात् `उपसर्गप्रादुभ्र्यामस्तिर्यच्परः` (8।3।क87) इति षत्वं न भवति। अथ सर्पिःशब्दाद्द्वितीया कथं न भवति? अपिशब्देन तस्य योगासम्भवात्। सर्पिषो हि या मात्रा साऽपिशब्देन युक्ता, न सर्पिः। मात्राशब्दात् तर्हि कस्मान्न भवति? तस्य प्रयोगाभावात्। यदा तु प्रयुज्यते, तदा कर्मप्रवचनीयसंज्ञैव नास्ति; अप्रयुज्यमानस्य पदान्तरस्यार्थे तद्विधानात्। `अधिकार्थवचनेन` इति। अधिकर्थो मूलकसहरुआसेकादिः, तस्य वचनेन सेकादावर्थे क्रियायां यच्छक्तेरप्रतिघातस्याविष्करणम् = प्रकाशनं तत्सम्भावनम्। `अपि सिञ्चेन्मूलकसहरुआम्। अपि स्तुयाद्राजानम्` इति। तस्य सेके स्तुतौ च सामथ्र्यं न विहन्यत इत्यर्थः। `सम्भावनेऽलमिति चेत् सिद्धाप्योगे` 3|3|154 इति लिङ। `कामचाराभ्यनुज्ञानम्` इति। कमचारः = इच्छया प्रवृत्तिः, तस्याभायनुज्ञानं कामचाराभ्यनुज्ञानम्। `अपि सिञ्च, अपि स्तुहि` इति। सिञ्च वा स्तुहि वा यथेष्टमभ्यनुज्ञातोऽसीत्यर्थः। `धिग्जाल्मं देवदत्तम्` इति।उभयसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते॥(वा।118) इत्युपसंख्यानाद्द्वितीया। `अपि सिञ्चेत्पलाण्डुम्` इति। `अर्हे कृत्यतृचश्च` 3|3|69 इति लिङ। पलाण्डुमिति कर्मणि द्वितीया 2|3|2 । `अपि सिञ्च, अपि स्तुहि ` इति। एकस्मिन् कत्र्तरि स्तुतिसेकक्रिययोश्चनीयमानता। अत्र समुच्चयः। सिञ्च च स्तुहि चेति प्रसिद्धसमुच्चयार्थस्य चशब्दस्य प्रयोगेण तमेव समुच्चयमुदाहरणे व्यक्तीकरोति॥
पदान्तरस्येत्यादि। स्वार्थस्तावदव्यभिचारान्न गृह्यते इति पदान्तरस्यार्थः पदार्थः। तत्रापि पदान्तरप्रयोगे सत्यपिः प्रयुज्यमानस्तदर्थे कञ्चिद्विशेषमाधते। यथा--नीलशब्द उत्पले, न तु तस्मिन्नेवान्यूनानतिरिक्ते वर्तते; तथा सति पर्यायत्वप्रसङ्गेनाप्रयोगार्हत्वात्। अतः पदान्तरस्याप्रयोग एव तदर्थे प्रवृतो भवतीति भावः। सर्पिषोऽपि स्यादिति। प्रार्थनायां लिङ्, तस्या एव दुर्लभविषयतामपिशब्दो द्योतयन् स्यादित्यनेन सम्बध्यते इति षत्वप्रसङ्गः, दुर्लभत्वं च विषयस्यैव भवति, यदि तस्या बिन्दुमात्रमपि न लभ्यत इत्यत्रापिशब्दसामर्थ्याद्विन्दुरिति गम्यते, तदाह--मात्राबिन्दुस्तोकमित्यस्थार्थेऽपिशब्दो वर्तत इति। तदुपजनिते च व्यतिरेके सर्पिष इति षष्ठी। द्वितीया तु न भवति, अपिना योगाभावात्। स हि स्यादित्यनेन सम्बध्यत इत्युक्तम्। अधिकार्थवचनेनेति तत्सम्भावनमित्यर्थः। अपि सिञ्चेदिति। सम्भावने लिङ तस्यैव दुष्करविषयतामपिराह। कामचार इच्छाप्रवृत्तिः। अपि सिञ्चेदेति । सिञ्च वा मा वा, स्तुहि वा मा वा, यथेष्ट्ंअ कुर्वित्यर्थः। जाल्मोऽपशब्दः। अपि सिञ्चेदिति। गर्हार्थे लिङ्। उपसर्गसंज्ञाबाधनादिति। स्यादित्यत्र ठुपसर्गप्रादुर्भ्याम्ऽ इति सिचः ठुपसर्गात्सुनोतिऽ इति षत्वप्रसङ्गः॥
सिद्धान्तकौमुदी
एषु द्योत्येष्वपिरुक्तसञ्ज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । संभावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यते । सर्पिष इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । अपि स्तुहि । अन्ववसर्गः कामचारानुज्ञा । धिद्गेवदत्तम् अपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च अपि स्तुहि । समुच्चये ॥
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु - अपिः पदार्थ । पदार्थश्च संभावनञ्च अन्ववसर्गश्च गर्हा च समुच्चयश्चेति द्वन्द्वः । एषु द्योतकत्रया विद्यमानोऽपिः क्रमप्रवचनीय इत्यर्थः । तदाह — एष्विति । अप्रयुज्यमानस्य पदान्तरस्यार्थः-पदार्थः । तद्द्योतकमपिमुदाहरति — सर्पिषोऽपि स्यादिति । यत्रातिदौर्लभ्यादत्यल्पमाज्यं भुञ्जनेभ्यो दीयते तदुपहासार्थमिदं वाक्यम् । अत्रापेः कर्मप्रवचनीयत्वे प्रयोजनमाह — अनुपसर्गत्वान्न ष इति ।#उपसर्गाप्रादुभ्र्यामित्यनेने॑ति शेषः । अपिद्योत्यं पदार्थं विशदयितुमाह — संभावनायां लिङिति ।उपसंवादाशङ्कयोश्चे॑ति सूत्रेउपसंवादाशङ्कयोर्लि॑ङिति पठितवचनेने॑ति शेषः । तत्र आशङ्का=उत्कटान्यतरकोटिका शङ्का संभावनैवेति भावः । सा च प्रकृत्यर्थगता भवति, प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः । अस्धातोश्च भवनमर्थः,अस भुवी॑त्युक्तेः । भवनं च सत्ता,भू सत्ताया॑मित्युक्तेः । ततश्च संभावनाविषयीभूतभवनार्थकाऽस्धातोः कर्तरि लिङि श्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च संभावनाविषयीभूतभवनार्थकाऽस्धातोः कर्तरि लिङि श्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च संभावनाविषयभवनाश्रयः कर्ता अवगतः । सच कर्ता क इत्याकाङ्क्षायां प्रकरणादौचित्यात्सर्पिष इत्यवयवषष्ठीबलाच्च बिन्दुरिति गम्यते, तमेवाऽपिशब्दो द्योतयति । सच विन्दुरपिशब्दद्योत्यः कर्ता प्रकृत्यर्थे संभावनाविषये भवने स्वस्य विन्दोर्दौर्लभ्यात्तदेव दौर्लभ्यं पुरस्कृत्यान्वेति, संभावनाविषयत्वबोधे दौर्लभ्यस्यापि संभावनाविषयतया अनुभवसिद्धत्वात् । तदिदं दौर्लभ्यमपि अपिशब्दो द्योतयति । एवं च बिन्धोः कर्तृविशेषरूपेण द्योत्योक्तदौर्लभ्यसंबन्धेन च स्यादित्यत्रान्वयः । तदाह — तस्या एवेति । संभावनाया एवेत्यर्थः । कर्तुर्बिन्दोर्दौर्लभ्याद्भवन क्रियायां यद्यौर्लभ्यं तद्द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यत इत्यर्थः । ननु सर्पिरेव कर्तृत्वेनान्वेति इत्यत आह — सर्पिष इति । "संबन्ध" इत्यनन्तरं "वर्तते" इति शेषः । एवंच सर्पिरवयवबिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती बुन्दु कर्तृका संभावनाविषयीभूता सत्तेति बोधः । इयमेवेति । बिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । ननु कर्मप्रवचनीयेनाऽपिना अन्वयसत्त्वात् सर्पिषो द्वितीया स्यादित्यत आह — द्वितीया तु नेति । कुत इत्यत आह — सर्पिष इति । सर्पिषो बिन्दुनैव योगो न त्वपिनेत्येवं सर्पिष इति षष्ठी त्वित्यादिसंदर्भेण उक्तत्वादित्यर्थः । कर्मप्रवचनीयद्योत्यसंबन्धप्रतियोगित्वमेव कर्मप्रवचनीययुक्तत्वम्, प्रकृते च अपिद्योत्यस्य उक्तसंबन्धस्य विन्दुरेव प्रतियोगी नतु सर्पिरिति भावः । तदेवं पदार्थद्योतकमपिमुदाह्मत्य संभावनद्योतकमपिमुदाहरति — अपि स्तुयादिति ।संभावनेऽलमिति चेत् सिद्धाऽप्रयोगे॑ इति लिङ् । संभावनपदं व्याचष्टे — संभावनमित्यादिना । अवाङ्भनसगोचरं विष्णुमपि स्तुयात् । स्तोतु शक्त इत्यर्थः । अत्युक्तिरियम्, अवाङ्मनसगोचरस्य विष्णोः केनापि स्तोतुमशक्यत्वात् । तत्र कर्मप्रवचनीयत्वे उपसर्गत्वबाधात्उपसर्गात्सुनोती॑ति षत्वं न । अन्ववसर्गद्योतममपिमुदाहरति — अपिस्तुहीति । स्तुहि वा, न वा, यथेष्टं कुर्वित्यर्थः । अन्ववसर्गपदं व्याचष्टे — कामचारानुज्ञेति ।प्रैषातिसर्गे॑ति लोट् । गर्हाद्योतकमपिमुदाहरति — पि स्तुयाद्वृषलमिति ।गर्हायां लडपिजात्वोः॑ इति लटं बाधित्वा परत्वादन्तरङ्गत्वाच्च संभावनायां लिङ् । अत्र वृषलस्य निन्द्यत्वात् तत्स्तुतेर्निन्द्यत्वं गम्यमानमपिशब्दो द्योतयति । धिग्देवदत्तमिति तदनुवादः । समुच्चयद्योतकमपिमुदाहरति — अपि सिञ्च अपि स्तुहीति । अपिद्वयेन मिलितेन समुच्चयद्योतनात् प्रत्येकं कर्मप्रवचनीयत्वादुभयत्रापि षत्वाऽभावः । सिञ्च, स्तुहि चेत्यर्थः ।
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु - अपिः पदार्थ । सर्पिषोऽपि स्यादिति । सर्पिर्बिन्दुः स्यादित्यर्थः । अपेः कर्मप्रवचनीयत्वे फलमाह — अनुपसर्गत्वान्न ष इति । उपसर्गसंज्ञाऽभावात्उपसर्गप्रदुभ्र्यामस्ति॑रितीह न प्रवर्तत इति भावः । संभावनायामिति । संभावनाया एवेत्यर्थः । कर्तृदौर्लभ्येत्यादि । कर्तृदौर्लभ्याद्भवनक्रियाया दौर्लभ्यं द्योतयन्नपिशब्दो भवनक्रियावाचिनास्या॑दित्यनेन सम्बध्यत इत्यर्थः । अवयवावयविभावेति । सर्पिरवयवी । बिन्दुरवयवः । इयमेवेति । बिन्दुदौभ्र्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । द्वितीयेति ।कर्मप्रवचनीययुक्ते — -॑इत्यनेन विहिता । नत्वपिनेति । न च बिन्दुना योगे तद्दयोतकाऽपिशब्देनाऽपि योगो जात एव, अर्थद्वारा शब्दानां योगस्याब्युपगमादिति शङ्क्यम् । अपिशब्दस्य बिन्दुद्योतकत्वाऽभावात् । कथं तर्हि बिन्दुप्रतीतिरिति चेत् । श्रृणु — -अपिना द्योत्यं भवनदौर्लभ्यमेव कर्तृदौर्लभ्यमाक्षिपति । कर्ता त्विह विन्दुरेवेति स प्रतीयते । अत एवअपिशब्दबलेन गम्यमानस्ये॑त्यक्तुं, न त्वपिना गम्यमानस्येति । उक्तत्वादिति । उक्तप्रयात्वादित्यर्थः ।अपिशब्दः स्यादित्यनेन संबध्यत॑इत्युक्तेस्यादित्यस्याऽपिना योगो न तु सर्पिषा इत्यर्थपर्यवसानात् । अप#इ स्तुयादिति । अवाङ्भनसगोचरं विष्णुमपि स्तुयादित्यधिकोक्तिः । एतादृशस्याऽन्यदीयस्तवने सामथ्र्यमस्तीत्यत्र किं वक्तव्यमिति भावः । इह संभावनाद्योतकोऽपिशब्दः, पूर्वत्र तु संभावनाविषयेदौर्लभ्यद्योतक इति महान्भेदः ।उपसर्गात्सुमनोति॑ इत्यादिना षत्वं न भवति, कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् । एवमुत्तरत्रापि बोध्यम् । अपि सिञ्च । अपि स्तुहीति । सिञ्च च स्तुहि चेत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अधिरीश्वरे अधिरीश्वरवचने उक्तम् ।। 1 ।। किमुक्तम् ? यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदवचनात्सिद्धम् । प्रथमानुपपत्तिस्तु । स्ववचनात्सिद्धमिति। । अधिः स्वं प्रति कर्मप्रवचनीयसंज्ञो भवतीति वक्तव्यम् ।। 96 ।।