॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|89
SK 597
1|4|89
आङ् मर्यादावचने   🔊
SK 597
सूत्रच्छेद:
आङ् - प्रथमैकवचनम् , मर्यादावचने - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आङित्येषा शब्दो मर्यादावचने कर्मप्रवचनीयसंज्ञो भवति। अवधिर्मर्यादा। वचनग्रहणादभिविधिरपि गृह्यते। आ पाटलिपुत्राद् वृष्टो देवः। आ कुमारं यशः पाणिनेः। आ सांकाश्यात्। आ मथुरायाः। मर्यादावचने इति किम्? ईषदर्थे क्रियायोगे च मा भूत्।
यत्राङो मर्यादायामभिविधौ च कार्यमिच्छति तत्रोभयोरपि ग्रहणं करोति, यथा-- `आङ मर्यादाभिविध्योः` 2|1|12 इत्यादि। इह तु मर्यादाग्रहमेव कृतम्, नाभिविधिग्रहणम्, अतोऽभिविधावनया संज्ञया न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह-- `वचनग्रहणात्` इत्यादि। वचनग्रहणे हि सति बहुव्रीहिर्लभ्यते। `मर्यादा` इत्येतद्वचनं यत्र सूत्रे तन्मर्यादावचनम्। तत्रायमर्थो भवति-- यत्र मर्यादाग्रहणमस्त सूत्रे, तत्र य आङ स कर्मप्रवचनीयसंज्ञो भवति। तत्पुनः सूत्रम्-- `आह मर्यादाभिविध्योः` 2|1|12 इत्येतत्-- तत्र चाङ मर्यादाभिविध्योर्वत्र्तमान उपात्त इत्युभयत्रापि भवति।कः पुनर्वर्जनस्य मर्यादाश्च विशेषः, येन पूर्वसूत्रे वर्जनमभिधायेह मर्यादाग्रहणं करोति? अयमस्ति विशेषः-- वर्जने हि तत्परित्यागेनान्यत्र सामान्येन वर्षणादिना सम्बन्धो गम्यते, यथा-- आ त्रिगत्र्तेभ्यो वृष्टो देव इति, अत्र हि यस्यां दिशि व्यवस्थितो वक्तेदं वाक्यं प्रयुङ्क्ते तस्यां दिशि यो देशो यस्तथान्यासु दिक्षु तत्र सर्वत्रैव त्रिगर्तान्? वर्जयित्वा वृष्ट इति गम्यते। मर्यादायां त्विदं वाक्यं प्रयुङक्ते-- आ पाटलिपुत्राद्वृष्टो देव इति, तत्सम्बन्धिन्यामेव दिशि यो व्यवस्थितो देशस्तस्य देशस्य वर्षणेन सम्बन्धरः प्रतीयत इत्येष विशेषः।`ईषदर्थे क्रियायोगे मा भूत्` इति। ईषदर्थ आकडार इति। क्रियायोगे समाहरतीति। पूर्वत्र संज्ञाया अभावात्पञ्चमी न भवति। इतरत्र `गतिर्गतौ` 8|1|70 इति निघातो भवति। यस्तु वाक्यस्मरणयोराकारो वत्र्तते, तस्याङित्त्वादिह ङकारोच्चारणादेव संज्ञाया अप्रसक्तिः॥
मर्या मरणधर्माणो मनुष्याः, औणदिको यप्रत्ययः, तैरादीयते मर्यादा, ठातश्चोपसर्गेऽ इत्यङ्प्रत्ययः। अवधिर्मर्यादेति। ननु यत्रावधिः कार्येण युज्यते सोऽभिविधिः, यत्र न सा मर्यादा; अवधिस्तु साधारणं तत्काथमवधिर्मर्यादा? नायमत्रार्थो योऽवधिः सा सर्यादेति, किं तर्हि? या मर्यादा सोऽवधिरित्यर्थः। वचनग्राणदिति। इह मर्यादायामिति वाच्ये वचनग्रहणं क्रियते, तस्यैतत्प्रयोजनमेवं यथा विज्ञायेत--उच्यतेऽस्मिन्निति वचनम्, मर्यादाया वचनमिति कर्मणि षष्ठयाः समासः। मर्यादाशब्दो यत्रोच्यते ठाङ्मर्यादाभिविध्योःऽ इति तस्याङे ग्रहणम्, स चाभिविधिवृत्तिरपीत्यत्राप्यभिविधेर्ग्रंहणं भवति। यद्वा--वचनग्रहणसामर्थ्यादवान्तरभेदो न विवक्ष्यते, अवधिमात्रं गृह्यते। आ मथुराया इति। वृष्टो देव इत्यपेक्ष्यते, ठ्मन्थ विलोडनेऽ औणादिकः कुरच् प्रत्ययः। ईषदर्थे क्रियायोगे च मा भूदिति। वाक्यस्मरणयोस्त्वङित्वादेवाप्रिसङ्गः, तत्रेषदर्थे आ कडारः पञ्चमी न भवति, क्रियायोगे समाहार इति ठ्गतिर्गतौऽ इति निघातो भवति॥
सिद्धान्तकौमुदी
आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥
आङ् मर्यादावचने - आङ्मर्यादावचने । उक्तसंज्ञ इति । कर्मप्रवचनीयसंज्ञक इत्यर्थः । ननुआङ्मर्यादायामि॑त्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह — वचनग्रहणादिति । तेन विनेति मर्यादा । तेन सहेत्यभिविधिः । मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम्=आङ्मर्यादाभिविध्योः॑ इति सूत्रम् । तत्र य आङ् दृष्टः स कर्मप्रवचनीयसंज्ञकः स्यादित्यर्थः । तथाच मर्यादिभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आङ् मर्यादावचने आङ्मर्यादाऽभिव्रिध्योः।। 1 ।। आङ्मर्यादाऽभिविध्योरिति वक्तव्यम् । इहापि यथा स्यात् ‐ आकुमारं यशः पाणिनेरिति ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । मर्यादावचने इत्येव सिद्धम् । एषाऽस्य यशसो मर्यादा ।। 89 ।।