Page loading... Please wait.
1|4|8 - पतिः समास एव
॥ तस्मै पाणिनये नम: ॥
1|4|8
SK 257
पतिः समास एव  
सूत्रच्छेद:
पतिः - प्रथमैकवचनम् , समासे - सप्तम्येकवचनम् , एव - अव्ययम्
अनुवृत्ति:
घि  [1|4|7] - प्रथमैकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
पति: घि समासे एव
सूत्रार्थ:
पति-शब्दस्य समासे एव घि-संज्ञा भवति, नान्यथा ।
शेषो घ्यसखि 1|4|7 इत्यनेन पति-शब्दस्य घि-संज्ञायाम् प्राप्तायाम् वर्तमानसूत्रेण सा नियम्यते । पति-शब्दस्य समासे एव घि-संज्ञा भवति । केवल-पति-शब्दस्य न भवति इति अस्य सूत्रस्य अर्थः । अतः प्रजापति, भूपति, सेनापति एतेषां शब्दानाम् घि-संज्ञा भवति, परन्तु "पति" शब्दस्य घिसंज्ञा न भवति । अतः पति-शब्दस्य रूपाणि केषुचन स्थलेषु मुनि-शब्दात् भिद्यन्ते । यथा, "पति + ङे" इत्यत्र घि-संज्ञायाः अभावात् घेर्ङिति 7|3|111 इत्यनेन अङ्गस्य गुणः न भवति, अतः इको यणचि 6|1|77 इति यणादेशं कृत्वा "पत्ये" इति रूपं सिद्ध्यति । "प्रजापति" इत्यस्य तु घिसंज्ञायाम् सत्याम् मुनि-शब्दवत् एतादृशा प्रक्रिया जायते -

प्रजापति + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
→ प्रजापते + ए [घेर्ङिति 7|3|111 इति अङ्गस्य गुणः ]
→ प्रजापतये [एचोऽयवायावः 6|1|78 इति अयादेशः]
One-line meaning in English
The word पति gets the term घि only when used in a समास.
काशिकावृत्तिः
पतिशब्दस्य घिसंज्ञायां सिद्धायाम् अयं नियमः क्रियते, पतिशब्दः समासे एव घिसंज्ञओ भवति। प्रजापतिना। प्रजापतये। समासे इति किम्? पत्या। पत्ये। एवकार इश्टतो ऽवधारणार्थः। दृढमुष्टिना। दृढमुष्टये।
`पतिशब्दस्य सिद्धायां घिसंज्ञायाम्` इति। अनन्तरसूत्रेणैवेति शेषः। `प्रजापतिना` इति षष्ठीसमासः। यदि सिद्धायां घिसंज्ञायामिदमारभ्यते तदा `सिद्धे सत्यारम्भो नियमार्थः` (दु।सि।का।सू।वृ।59) इति विनाप्येवकारेण लभ्यत एव नियमः, तत् किमर्थमेवकारकरणमित्यत आह-- `एवकारकरणम्` इत्यादि। विना ह्रेवकारेण विपरीतमप्याशङ्क्येत-- पतिरेव समसा इति। ततश्च दृढमुष्टिनेत्यादौ न स्यात्, एवकारे तु सति भवतीति। तथा ह्रतर् समासशब्दादनन्तरं प्रयुज्यमानं यत एवकारकरणं ततोऽन्यत्रावधारणमिति पतिशब्द एव नियम्यते, न समासः॥
सिद्धायामिति। प्राप्तायामित्यर्थः, न पुनर्निष्पन्नायाम्, न हि निष्पन्नायां नियमेन निवृत्तिः शक्या वक्तुम्। पतिशब्दः समास एव घिसंज्ञो भवतीति। किं पुनरिदं समासावयवस्य पतिशब्दस्य संज्ञा विधीयते? आहोस्वितदन्तसमासस्य? यदि समासस्य ? पतिश्च गृहं च पतिगृहे-अत्र द्वन्द्वे घिः इति पूर्वनिपातो न प्राप्नोति; अथ पतिशब्दस्य? प्रजापतिनेत्यादिकस्य घिसंज्ञाकार्थ न प्राप्नोति। अथ वा ठ्पतिः समासएवऽ इति नियमेन किं व्यावर्त्यते? असमस्तः पतिशब्दः। पतिशब्दस्य व्यावर्त्यमाना केन तदन्तस्य व्यावर्त्यते? पतिशब्दसम्बन्धी य ईकारस्तदाश्रया सा घिसञ्ज्ञा भवति, यदि समास एवेत्यर्थो विवक्षितः। तेन समासे पतिशब्दस्यानन्त्यस्यापि भवति-पतिश्च गृहश्च पतिगृहे, ठ्द्वन्द्वे घिःऽ इति पूर्वनिपातः। पतिशब्दान्तस्य समासस्यापि भवति-प्रजापतिनेति, अत एव वृत्तिकृता पतिशब्दानुरूपसूत्रार्थो दर्शितः। उदाहरणन्तु तदन्तानुरूपं दर्शितम्। अथ कथम् नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते॥ इति? छन्दोवद्दषयः कुर्वन्ति। अथ पूर्वत्रैव ठसखिपतीऽ इति कस्मान्नोक्तम्? उतरत्र पत्युरेव विकल्पो यथा स्यात्। किञ्च ठसखिपतीऽ इत्युच्यमाने पतिशब्दस्य समासेऽपि न स्यात्--पतिगृहे इति। तथा च सखिशब्दस्य समासावयवस्यापि घिसञ्ज्ञाया अभावात्--सखिगृहे,गृहसखायाविति चानियमः पूर्वनिपातस्य॥
सिद्धान्तकौमुदी
पतिशब्दः समास एव घिसंज्ञः स्यात् । पत्या । पत्ये । पत्युः । पत्युः । पत्यौ । शेषं हरिवत् । समासे तु भूपतिना । भूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥
पतिः समास एव - अथ पतिशब्दे विशेषं दर्शयति — पतिः समास एव ।शेषो घ्यसखी॑त्यतोघी॑त्यनुवर्तते । तदाह पतिशब्द इति । पत्या । पत्ये इति । घित्वाऽभावान्नात्वगुणाऽभावे यणि रूपम् । पत्युरिति ।ख्यत्या॑दित्युत्त्वम् । पत्याविति । घित्वाऽभावात् "अच्च घेः" इत्यस्य प्रवृत्तेरभावे "औत्" इति ङेरौत्त्वे यणि रूपम् । आरम्भसामथ्र्यादेव नियमार्थत्वे सिद्धे एवकारस्तुपतिरेव समासे घि॑रिति विपरीतनियमव्यावृत्त्यर्थः । तेन सुहरिणेत्यादि सिध्यति । समासे तु भूपतये इति ।भूपतिने॑त्याद्युपलक्षणम् । "सीतायाः पतये नमः" इत्यादि त्वार्षम् । अथ कतिशब्दे विशेषं दर्शयति-कतिशब्दे नित्यं बहुवचनान्त इति ।किमः सङ्ख्यापरिमाणे॑ इत्यनेन किंशब्दाद्बहुत्वसङ्ख्यावच्छिन्नसङ्ख्येयविषयप्रश्न एव डतिरिति भाष्ये स्पष्टत्वादिति भावः ।
पतिः समास एव - पतिः समास एव । एवकार इष्टतोऽवधारणार्थः । अन्यथा हिसमासे पतिरेवे॑ति नियमः संभाव्येत्, ततश्चमहाकविने॑त्यादिप्रयोगो न सिध्यते ।अनल्विधौ॑,धात्वादे॑रित्यादिज्ञापकानुसरणे तु प्रतिपत्तिगौरवं स्यादिति भावः । पत्येत्यादि । नन्वेवंशेषो ध्यसखिपती॑इत्येवोच्यतां, किमनेनपतिः समास एवे॑ति सूत्रेणेति चेन्न; समुदायस्य पतिरूपत्वाऽभावने बहुच्पूर्वकपतिशब्दस्यापि घिसंज्ञा स्यात् । ततश्चसुसखिने॑त्यादिवद्बहुपतिनेत्यादिवब्दहुपतिनेत्यादि प्रसज्येत, इष्यते तुवहुपत्ये॑त्यादि । नापिसखिपती समास एवे॑ त्येवसूत्र्यतामिति शङ्क्यम्,बहुपत्ये॑त्यादिवद्बहुसख्येत्याद्यापत्तेः, इष्यते तुबहुसखिने॑त्यादि । अथ कथंसीतायाःपतये नमः॑इति,नष्टे मृते प्रव्रजिते क्लीबे इः॑ इत्यौणादिक इप्रत्ययेणेरनिटी॑ति णिलोपे च निष्पन्नोऽयं पतिशब्दःपतिः समास एव॑ इत्यत्र न गृह्रते, लाक्षणिकत्वादिति । एतेनकृष्णस्य सखिर्जुनः॑इति भारतम्,सखिना वानरेन्द्रेणे॑ति रामायणं च व्याख्यातम् । कति शब्द इति । का सङ्ख्या येषां ते कति ।किमः सङ्ख्यापरिमाणे डति च॑ इति डतौ डित्त्वाट्टिलोपः ।
लघुसिद्धान्तकौमुदी
घिसंज्ञः। पत्युः 2। पत्यौ। शेषं हरिवत्। समासे तु भूपतये। कतिशब्दो नित्यं बहुवचनान्तः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!