॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|79
SK 780
1|4|79
जीविकोपनिषदावौपम्ये   🔊
SK 780
सूत्रच्छेद:
जीविकोपनिषदौ - प्रथमाद्विवचनम् , औपम्ये - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कृञि इति वर्तते। जीविका उपनिषदित्येतौ शब्दौ औपम्ये विषहे कृञि गतिसंज्ञौ भवतः। जीविकाकृत्य। उपनिषत्कृत्य। औपम्ये इति किम्? जीविकाम् कृत्वा गतः।
`{औपम्ये विषये`-- काशिका।} औपम्यविषये` इति। उपमीयतेऽनयेत्युपमा। `आतश्चोपसर्गे` 3|3|106 इत्यङ। तस्या भाव औपम्यम्; ध्यञ्। तत्पुनः क्रियाकारकसम्बन्धः। `समासकृत्तद्धितेषु सम्बन्धाभिधानमन्यत्र रूढभिन्नरूपाव्यभिचरितसम्बन्धेभ्यः`इति वचनात्। विषयग्रहणेनौपम्ये इति सप्तम्या विषयसप्तमीत्वं दर्शयति। सम्भवति च जीविकोपनिषदावुपमाभूते प्रत्यौपम्यविषयभावः, तेन विनोपमाया अभावात्। `जीविकाकृत्य` इत्यादि।जीविकामिव कृत्वा। उपनिषदमिव कृत्वेत्यर्थः। जीविका = जीवनोपायः। उपनिषत् = रहस्यं हेतुश्च। यत्तत्सदृशं तज्जीविकेन जीविका। उपनिषधिवोपनिषदिति जीविकोपनिषद्भ्यामुपमीयते॥
जीविकाउजीवनोपायः, ठ्संज्ञायाम्ऽ इति करणे ण्वुल्। ण्यन्ताद्वा कर्तरि उपिनिपूर्वात्सदेः ठ्सत्सूद्विषऽ इति क्विप्, ठ्सदिरप्रतेःऽ इति षत्वम्, उपनिषदुरहस्यं वेदान्तजन्यं ज्ञानम्, वेदान्तभागो वा। आपम्य इति। उपमीयतेऽनयेत्युपमा ठातश्चोपसर्गेऽ इत्यङ्, तस्या भाव औपम्यम्। विषयसप्तमी चैषा, उपमानोपमेयसम्बन्धनिमितादभेदोपचाराद्यावुपमेयनिष्ठौ भवतः, तावौपम्यविषयौ। जीविकाकृत्य, उपनिषत्कृत्येति। जीविकामिव कृत्वा, उपनिषदमिव कृत्वेत्यर्थः। यद्यपि गतिसमासो नित्यः, तथापीवशब्दप्रयोगे स्वार्थनिष्ठत्वादीद्दशवाक्यं भवत्येव॥
सिद्धान्तकौमुदी
जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि ॥ ।प्रादयो गताद्यर्थे प्रथमया (वार्तिकम्) ॥ प्रगत आचार्यः प्राचार्यः ॥ ।अत्यादयः क्रन्ताद्यर्थे द्वितीयया (वार्तिकम्) ॥ अतिक्रान्तो मालामतिमालः ॥ ।अवादयः क्रुष्टाद्यर्थे तृतीयया (वार्तिकम्) ॥ अवक्रुष्टः कोकिलया अवकोकिलः ॥ ।पर्यादयो ग्लानाद्यर्थे चतुर्थ्या (वार्तिकम्) ॥ परिग्लानोऽध्ययनाय पर्यध्ययनः ॥ ।निरादयः क्रान्ताद्यर्थे पञ्चम्या (वार्तिकम्) ॥ निष्क्रान्तः कौशाम्ब्या निष्कशाम्बिः ॥ ।कर्मप्रवचनीयानां प्रतिषेधः (वार्तिकम्) ॥ वृक्षं प्रति ॥
जीविकोपनिषदावौपम्ये - जीविकोपनि । उपमैव ओपम्यं, तस्मिन्विषये जीविकाशब्द उपनिषच्छब्दश्च कृञा योगे गतिसंज्ञौ स्तः । जीविकामिवेति । अशनपानादिजीवनोपायो जीविका । तामिव अवश्यं कृत्वेत्यर्थः । जीविकाकृत्येति । गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषद्वेदान्तभागः, तामिव अवश्यं कृत्वेत्यर्थः । जीविका कृत्येति । गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषद्वेदान्तभागः, तामिव रहसि ग्राह्रत्वेन कृत्वेत्यर्थः । उपनिषत्कृत्येति । गतिसमासे क्त्वो ल्यप् । उभयत्रापि सुब्लुक् । तदेवं "कुगतिप्रादयः" इत्यत्रत्यगतिसमासाः प्रपञ्चिताः । ननु गतिग्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह — प्रादिग्रहणमगत्यर्थमिति । सुपुरुष इति । अत्र क्रियायोगाऽभावादगतित्वेऽपि समासः । सोः पूजार्थकत्वेऽपि धातुवाच्यक्रियायोगाऽभावान्न गतित्वम् । भाष्ये तु "कुगतिप्रादयः" इति सूत्रमपनीय तत्स्थानेक्वाङ्स्वतिदुर्गतयः समस्यन्त इति वक्तव्य॑मित्युक्त्वा॒कुब्राआहृणः॑आकडारः॑,सुब्राआहृणः॑,॒अतिब्राआहृणः,दुब्र्राआहृणः॑,ऊरीकृत्ये॑त्युदाह्मतम् ।स्वती पूजायां॑,दुर्निन्दायाम्,आङीषदर्थे॑, "कुः पापार्थे" इति सौनागव्याकरणवचनमित#इ भाष्ये स्पष्टम् । अत्र वार्तिकानीति ।प्रादयो गताद्यर्थे समस्यन्ते इति वक्तव्य॑मिति वार्तिकं पठित्वा तत्र व्यवस्तापकानि पञ्च वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदश्र्यन्त इत्यर्थः । प्रादय इति । गताद्यर्थे विद्यमानाः प्रादयः समस्यन्त इत्यर्थः । प्रगत आचार्य इति । प्रेत्यस्य विवरणं गत इति, "गत आचार्य" इत्येव अस्वपदविग्रहः, नित्यसमासत्वात् । अभिगतो मुखम् अभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि । अत्यादय इति । क्रान्ताद्यर्थे अत्यादयः समस्यन्त इत्यर्थः । अति क्रान्तो मालामिति । अतिशब्दः क्रान्ते वत्र्तते । क्रान्तो मालामित्यस्वपदविग्रहः । तत्र क्रमुधातोरतिक्रमणमर्थ । अतिमाल इति ।एकविभक्ति चे॑ति मालाशब्दस्य उपसर्जनत्वात् "गोस्त्रि योः" इति ह्यस्वः ।अवादय इति । क्रुष्टाद्यर्थे अवादयः समस्यन्त इत्यर्थः । अवकोकिल इति । कोकिलया आहूत इत्यर्थः । पर्यादय इति । ग्लानाद्यर्थे पर्यादयः समस्यन्त इत्यर्थः । अध्ययनाय=अध्ययनार्थम् । तेन श्रान्त इत्यर्थः । परिरत्र ग्लाने वर्तते । निरादय इति । क्रान्ताद्यर्थे निरादयः समस्यन्त इत्यर्थः । निष्कोषाम्बिरिति । अतिमालवद्ध्रस्वः । निरित्यव्ययं निर्गमने वर्तते । कर्मप्रवचनीयानां प्रतिषेध इति । वार्तिकमेतत् । वृक्षं प्रतीति ।लक्षणेत्थ॑मिति कर्मप्रवचनीयत्वान्न प्रादिसमासः । इदं वार्तिकं भाष्ये प्रत्याख्यातम् ।
जीविकोपनिषदावौपम्ये - सुपुरुष इति । क्रियायोगाऽभावाद्गतित्वाऽभावः । अव्यवस्थया समासप्रसक्तौ व्यवस्थार्थं वचनानि पठन्ते — प्रादय इति । आदिशब्द उभयत्र प्रकारे । तेन दुराचारः पुरुषो दुष्पुरुष इत्यादि सिद्धम् । प्रगत आचार्य इति । अनेन गतार्थे वृत्तिमस्वपदविग्रहेण नित्यसमासतां च दर्शयति । एवं प्रगतः पितामहः प्रपितामहः । प्रमातामह इत्यादि । अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अत्यादय इति । आदिपदादभिगता मुखमभिमुखः । उद्गतो वेलामुद्वेलः । प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि सिद्धम् । अतिमाल इति ।गोस्त्रियो॑रिति ह्यस्वः ।अवादयः क्रुष्टाद्यर्थे तृतीयया । अवादय इति । आदिपदात्परिणद्धो वीरुधा परि वीरुत् । संनद्धो वर्मणा संवर्मेति । पर्यादयो ग्लानाद्यर्थे चतुथ्र्या । पर्यादय इति । आदिपदादुद्युक्तः सङ्ग्रामाय — उत्सङ्ग्रामः । अध्ययनायेति । तादर्थ्ये चतुर्थी । गुरुकुलवासादिना परिग्लानोऽध्ययनार्थमित्यर्थः ।निरादयः क्रान्तद्यर्थे पञ्चम्या । निरादय इति । आदिपदादुत्क्रान्तः कुलादुत्कुलः । निर्गतमङ्गुलिभ्यो निरङ्गुलम् । प्रतिषेध इति ।कुगतिप्रादयः॑इति प्रसक्तसमासस्य वक्तव्यः प्रतिषेधः, स चसुराजा, अतिसखे॑ति भाष्यादिप्रयागात्स्वतिभिन्ननामेव कर्मप्रवचनीयानामित्यर्थः ।कर्मुप्रवचनीयानां प्रतिषेधः । वृक्षं प्रितीति ।लक्षणेत्थ भूते॑ति कर्मप्रवचनीयत्वविधिसामथ्र्यादिह समासो नेति चेत्, तर्हि अपि स्तुततमित्युदाहार्यम् ।अपि स्तुयाद्विष्णु॑मित्यादौअपिः पदार्थसंभावने त्यस्य साबकाशत्वात्स्वरे विशेषसत्त्वाच्चत्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!