॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|7
SK 243
1|4|7
शेषो घ्यसखि
SK 243
सूत्रच्छेद:
शेषः - प्रथमैकवचनम् , घि - प्रथमैकवचनम् , असखि - प्रथमैकवचनम्
अनुवृत्ति:
ह्रस्व:  [1|4|6] - प्रथमैकवचनम् , यू  [1|4|3] (लुप्तप्रथमान्तनिर्देश:) - प्रथमैकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
शेष: ह्रस्व: यू घि अ-सखि
सूत्रार्थ:
सखि-शब्दं वर्जयित्वा अन्ये ह्रस्व-इकारान्त-उकारान्ताः नदी-संज्ञावर्जिताः शब्दाः घि-संज्ञकाः भवन्ति ।
अस्मिन् सूत्रे "शेष" इत्यनेन शब्देन तेषाम् ह्रस्व-इकारान्त-उकारान्त-शब्दानाम् ग्रहणं भवति ये नदीसंज्ञकाः न सन्ति । तेषां सर्वेषाम् अनेन सूत्रेण घि-संज्ञा भवति । अतः, विस्तारेण वदामश्चेत् -

1. ह्रस्व-इकारान्त-उकारान्ताः पुँल्लिङ्गाः नपुँसकलिङ्गाः शब्दाः घिसंज्ञकाः भवन्ति । यथा - मुनि, साधु, वारि, मधु ।
2. ह्रस्व-इकारान्त-उकारान्ताः स्त्रीलिङ्गाः शब्दाः अङित्-प्रत्यये परे नित्यं घिसंज्ञकाः भवन्ति । यथा - "मति + औ" इत्यत्र मति-शब्दस्य घिसंज्ञा भवति ।
3. ह्रस्व-इकारान्त-उकारान्ताः स्त्रीलिङ्गाः शब्दाः ङित्-प्रत्यये परे तदा एव घिसंज्ञकाः भवन्ति यदा तेषां नदीसंज्ञा न भवति । यथा - "मति + ङे" ङिति ह्रस्वश्च 1|4|6 इत्यनेन विकल्पेन नदीसंज्ञायां प्राप्तायाम् नदीसंज्ञा यदा न क्रियते तदा एव घि-संज्ञा क्रियते ।

अस्मिन् सूत्रे एकः अपवादः अपि उक्तः अस्ति - "सखि" शब्दः, यद्यपि इकारान्त-पुँल्लिङ्गः अस्ति, तथापि तस्य घि-संज्ञा न भवति । अस्मात् कारणात् सखि-शब्दस्य कानिचन रूपाणि मुनि-शब्दात् भिद्यन्ते । यथा "सखि + ङे" इत्यत्र घि-संज्ञायाः अभावात् घेर्ङिति 7|3|111 इत्यनेन अङ्गस्य गुणः न भवति, अतः इको यणचि 6|1|77 इति यणादेशं कृत्वा "सख्ये" इति रूपं सिद्ध्यति ।

घिसंज्ञायाः प्रयोगः एतेषु सूत्रेषु दृश्यते - घेर्ङिति 7|3|111, द्वन्द्वे घि 2|2|32 आदयः ।

ज्ञातव्यम् -
1. नदी-संज्ञा तथा घि-संज्ञा एकसंज्ञाधिकारे पाठिताः सन्ति । अतः एकस्यैव शब्दस्य समानस्थले द्वेऽपि संज्ञे न भवतः । अतएव अस्मिन् सूत्रे "शेष" ग्रहणम् वस्तुतः न आवश्यकम् । यत्र नदीसंज्ञा भवति, तत्र घिसंज्ञा न भवति इति एकसंज्ञाधिकारात् एव स्पष्टम् अस्ति ।
2. दीर्घ-ईकारान्त/ऊकारान्त-शब्दानाम् घि-संज्ञा कदापि न भवति ।
3. ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति अनया परिभाषया अत्र तदन्तविधिः नास्ति, अतः अनेन सूत्रेण केवल-सखि-शब्दस्यैव घिसंज्ञा निषिध्यते । सुसखि, राजसखि, प्रियसखि - एतेषाम् शब्दानाम् घिसंज्ञा भवत्येव ।
One-line meaning in English
Except for the word सखि, all ह्रस्व-इकारान्त and ह्रस्व-उकारान्त words get the term घि whenever they do not get the term नदी.
काशिकावृत्तिः
ह्रस्वः इति वर्तते। शेषो ऽत्र घिसंज्ञो भवति, सखिशब्दम् वर्जयित्वा। कश्च शेषः? ह्रस्वम् इवर्णौवर्णान्तं यन् न स्त्र्याख्यम्, स्त्र्याख्यं च यन् न नदीसंज्ञकं, स शेषः। अग्नये। वायवे। कृतये। धेनवे। असखि इति किम्? सख्या। सख्ये। सख्युः। सख्यौ। घिप्रदेशाः द्वन्द्वे घि 2|2|32 इत्येवम् आदयः।
`सख्या` इति। घिसंज्ञाया `आङो नास्त्रियाम्` 7|3|119 इति नाभावो न भवति। `सख्ये, सख्युः` इत्यत्रापि `घेर्ङिति` 7|3|111 न गुणः। `सख्यौ` इत्यत्र `अच्च घेः` 7|3|118 इत्यत्त्वं न भवति। `इदुद्भ्याम्` 7|3|117 `औत्` 7|3|118 इत्यौत्त्वं भवति। सख्युरित्यत्रापि `ख्यत्यात् परस्य` 6|1|108 इत्युक्तम्। इह शोभनः सखाऽस्येति सुसखिरिति; सुसखेरागच्छतीत्यत्र तदन्तविधिना प्रतिषेधः प्राप्नोति, स च `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति` (व्या।प।89) इति प्रतिषेधान्न भवति। इह द्विविधा घिसंज्ञा-- अवयवाश्रया, समुदायाश्रया च। तत्र याऽवयवाश्रया सा प्रतिषिध्यते, या पुनः समुदायाश्रया सा च भवत्येव; तस्या अप्रतिषेधात्॥
ठा धृषाद्वाऽ इत्यस्मिन्नधिकारे ठ्शिष असर्वोपयोगे, विपूर्वोऽतिशयेऽ इति पठ।ल्ते, तत्र णिच्पक्षे कर्मणि ठेरच्ऽ, अन्यथा घञ्। ह्रस्व इति वर्तत इति। अन्यथा ग्रामण्यादेरपि स्याद् अस्त्र्याख्यत्वेन शेषत्वाद्, यस्य नदीसंज्ञा न विहिता तस्य शेषत्वे मात्रे इत्यत्रापि स्यादिति मत्वा पृच्छति--कश्चेति। इतरस्तु ह्रस्वविशेषणार्थं ठ्यूऽ इत्यस्याननुवृत्तिमाश्रित्याह--ह्रस्वमिति। ह्रस्वान्तमित्यर्थः। यदाह--इवर्णोवर्णान्तादिति। क्वचितु ह्रस्वेर्णोवर्णान्तमिति पाठः, ह्रस्वात्मको य इवर्ण उवर्णश्च तदन्तमित्यर्थः। ह्रस्वेन शेषस्य विशेषणत्वात् तदन्तविधिः। एवं च ठसखिऽ इति सखिशब्दस्य प्रतिषेधो न तत्सम्बन्धिन इकारस्य, किं सद्धं भवति? इह शोभनस्सखा अस्य सुसखिः, सुसखेरागच्छतीति घिसंज्ञा सिद्धा भवति। न ह्ययं समुदायः सखिशब्दः, तदन्तविधिश्च ग्रहणवता प्रातिषेधादिहापि न स्यात्। यदि तदन्ते निषेधो न भवति ठ्यस्येति चऽ इत्यत्र इवर्णस्य ई इति यदुदाहरणं सखिशब्दात् ठ्सख्यशिश्रीति भाषायाम्ऽ इति ङीषि सखि ई इति स्थिते इकारस्य लोपः। असति तु लोपे सवर्णदीर्धस्य पूर्व प्रत्यन्तवद्भावात् सखीमतिक्रान्तोऽतिसखिः, अतिसखेरागच्छतीत्यत्रासखीति धिसंज्ञाप्रतिषेधः स्यादिति तन्नेपपद्यते। सत्यप्यन्तवद्भावेन सखिग्रहणेन ग्रहणे समुदायस्य सखिशब्दादन्यत्वात्। यदा खलु पुंल्लिङ्गेप्यतिसखिरिति भवति, तदा कः प्रसङ्गो यदन्तवद्भावेन स्यात्? यतु तत्रोदाहरिष्यते सोऽनास्थावादो द्रष्ट्व्यः। शेषग्रहणं चिन्त्यप्रयोजनम्। एकसंज्ञाधिकारादेव हि स्त्र्याख्यस्य ङिति नदीसंज्ञापक्षे घिसंज्ञा न भवष्यति॥
सिद्धान्तकौमुदी
अनदीसंज्ञौ ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञं स्यात् । शेषः किम् । मत्यै । एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थमिति तत्वम् । ह्रस्वौ किम् । वातप्रम्ये । इदुतौ किम् । मात्रे ॥
तृतीयैकवचने हरि आ इति स्थिते घिकार्यं वक्ष्यन्घिसंज्ञामाह--शेषो। `यू स्त्र्याख्यौ` इत्यतो `यू` इत्यनुवर्तते। इश्च उश्च यू=इवर्णश्च उवर्णश्च। `ङिति ह्रस्वश्चे`त्यतो `ह्रस्व` इत्यनुवर्तते। तच्च यूभ्यां प्रत्येकमन्वेति। उक्तान्नदीसंज्ञकादन्यः शेषः। स च यूभ्यां प्रत्येकमन्वेति। `शब्दस्वरूप`मित्यध्याहार्यं यूभ्यां विशेष्यते। तदन्तविधिः। तदाह--अनदीसंज्ञावित्यादिना। शेषः किमिति। अनदीसंज्ञकत्वविशेषणं किमर्थमिति प्रश्नः।
सूत्रे शेषपदस्य प्रयोजनमाह--अनदी--संज्ञाविति। `यूस्त्र्याख्यौ` इत्यतः `यू` इति, `ङिति ह्रस्वश्चे`त्यतो `ह्रस्व` इति चानुवर्तते, तदाह-ह्रस्वौ यावित्यादि। मत्यै इति। नदीसंज्ञापक्षेऽपि घिसंज्ञायां सत्याम् `आण्नद्या` इत्याडागमे `घेर्ङिती`ति गुणे कृतेऽयादेशे च `मतयै` इति स्यादिति भावः।
लघुसिद्धान्तकौमुदी
शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!