Page loading... Please wait.
1|4|62 - अनुकरणं चानितिपरम्
॥ तस्मै पाणिनये नम: ॥
1|4|62
SK 763
अनुकरणं चानितिपरम्  
सूत्रच्छेद:
अनुकरणम् - प्रथमैकवचनम् , च - अव्ययम् , अनितिपरम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
इतिः परे यस्मातिति बहुव्रीहिः। अनुकरनम् अनितिपरं क्रियायोगे गतिसंज्ञम् भवति। खाट्कृत्य। खाट्कृतम्। यत्खाट्करोति। अनितिपरम् इति किम्? खाडिति कृत्वा निरष्ठीवत्।
`अनितिपरम्` इति। अत्रेतिपरशब्द इते पर इति पञ्चमीति योगविभागात् तत्पुरुषो वा स्यात्? इतिः परो यस्मादिति बहुव्रीहिर्वा? तत्र यद्याद्यः पक्ष आश्रीयेत, तदेतिखाट्कृत्येत्यत्र प्रतिषेधः स्यात्; इह तु न स्यात्-- खडिति कृत्वा आगत इत, अनिष्टञ्चैतत्; द्वितीये तु पक्ष एष दोषो न भवति, अतस्तमेवाश्रित्याह-- `इतिः परो यस्मात्` इति। `निरष्ठीवत्` इति। `ष्ठिवु निरसने` (धातुपाठः-560) `सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः` (वा।671) इति प्रतिषेधात् `धात्वादेः षः सः` 6|1|62 इति सत्वं न भवति। `ष्ठिवुक्लमुचमां शिति` 7|3|75 इति दीर्घत्वम्॥
इतिः परो यस्मादिति। पञ्चमीसमासस्तु लक्षणाभावान्नाश्रितः। तेनेति खाट्कृत्येत्यत्र इतेः परत्वेऽपि भवति। खाडिति कृत्वा निरष्ठीवदिति। अत्रासति प्रतिषेधे गतिसंज्ञायां समासः स्यात्, धातोश्चानन्तरः प्रयोग इति रूपमेवैतन्न सिध्येत्। ठ्ष्ठिवु निरसनेऽ, ठ्ष्ठिवुक्लमुचमां शितिऽ इति दीर्घः। भूतकालोपन्यासः किमर्थः? कस्यचित्कवेरयं प्रयोग उदाहृतः- ठ्चुम्बनसक्तः सोऽस्याः च्युतमूलं दशनमात्मनो वदने। जिह्वामूलस्पृष्ट्ंअ खाडिति कृत्वा निरष्ठीवत्॥
सिद्धान्तकौमुदी
खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥
अनुकरणं चानितिपरम् - अनुकरणं चा । अनुकरणं गतिसंज्ञं स्यादितिपरं वर्जयित्वेत्यर्थः । खाट्कृत्येति । खाडिति शब्दं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् । खाडिति कृत्वेति । न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाऽभावादेव गतिसंज्ञा न भविष्यति तत्किमनितिपरग्रहणेनेति वाच्यं, यथाकथंचित्क्रियायोगसत्त्वात् । "ते प्राग्धातोः" इति सूत्रं तुते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत॑ इति प्रयोगनियमपरमेवेति भावः ।
अनुकरणं चानितिपरम् - अनुकरणं चा ।ते प्राग्धातोः॑इत्यस्य संज्ञानियमपक्षेऽनितीति व्यर्थमिति मत्वा पृतच्छति अनितिपरं किमिति । इतरस्तु प्रयोगनियमपक्षे खाडित्यनुकरणस्येतिशब्दे परे गतिसंज्ञानिवारणायाऽनितिपरमित्यावश्यकमिति प्रत्युदाहरति खाडिति कृत्वेति । सत्यां संज्ञायामेष प्रयोगो नैव स्यात्कतुइति खाटकृत्ये॑त्येव स्यादिति भावः । न चइति खाटकृत्ये॑ति न भवति, इतेः परस्यानुकरणस्य गतिसंज्ञानिषेधादिति वाच्यम्,अनितिपर॑मित्यत्र इतिः परोयस्मात्तदितिपरं, न इतिपरमनितिपरमिति बहुव्रीहिघटितनञ्तत्परुषाश्रयणात् । स्यादेतत् — अनुकरणस्येतिशब्दपरत्वे क्रियायोगाऽभावाद्गतिसंज्ञा नास्तचीति खाडिति कृत्वेति रूपं निर्बाधं, किमनेनाऽनिकिपरग्रहणेनेति चेत्, अत्राहुः — इतिकृत्वेति समुपदाये एवंकृत्वेत्यर्थे वर्तते । तथा च इतिशब्दः क्रियाविशेषक इति तद्धटितसमुदायस्य क्रियावाच कत्वादस्त्येव क्रियायोग इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अनुकरणं चाऽनितिपरम् कथमिदं विज्ञायते ‐ इतेः परमितिपरं न इतिपरमनितिपरमिति, आहोस्विदितिः परो यस्मात्तदिदमितिपरं न इतिपरमनितिपरमिति ।। किं चातः ? यदि विज्ञायते ‐ इतेः परमितिपरं न इतिपरमनितिपरमिति, खाडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोति । अथ विज्ञायते ‐ इतिः परो यस्मात्तदितिपरं न इतिपरमनितिपरमिति, श्रौषड्वौषडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोति । अस्तु तावदितिः परो यस्मात्तदिदमितिपरम्, न इति परमनितिपरमिति । ननु चोक्तम् ‐ श्रौषड्वौषडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोतीति । नैष दोषः । इदं तावदयं प्रष्टव्यः ‐ अथेह ते प्राग्धातोः 1|4|80 इति कथं गतिमात्रस्य पूर्वप्रयोगो भवति ‐ उपोद्धरतीति ? गत्याकृतिः प्रतिनिर्दिश्यते । इहापि तर्ह्यनुकरणाऽऽकृतिः प्रतिनिर्दिश्यते । किमर्थमिदमुच्यते ? अनुकरणस्येतिकरणपरत्वप्रतिषेधोऽनिष्टशब्दनिवृत्त्यर्थः ।। 1 ।। अनुकरणस्येतिकरणपरत्वप्रतिषेध उच्यते । किं प्रयोजनम् ? अनिष्टशब्दनिवृत्त्यर्थः । अनिष्टशब्दता मा भूदिति । इदं विचारयिष्यते- प्राग्धातुवचनं प्रयोगनियमार्थं वा स्यात्संज्ञानियमार्थं वेति। । तद्यदा प्रयोगनियमार्थं तदाऽनिष्टशब्दनिवृत्त्यर्थमिदं वक्तव्यम् । यदा हि संज्ञानियमार्थं तदा न दोषो भवति ।। 61 ।।