`प्रकृत्य` इति। गतिसंज्ञायां सत्यां `कुगतिप्रादयः`
2|2|18 इति समासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप्`
7|1|37 इति ल्यप्। `प्रकृतम्` इति। `क्ते च`
6|2|45 इत्यनुवर्तमाने `गतिरनन्तरः`
6|2|49 इति प्रकृतिस्वरेणाद्यदात्तः प्रशब्दः। `यत्प्रकरोति` इति। प्रशब्दादनन्तरस्य `तिङङतिङः`
8|1|28 इति निघाते प्राप्ते `निपातैर्यद्यदि`
8|1|30 इत्यादिना प्रतिषेधे तिपः पित्त्वादनुवदात्तत्वम्। `सतिशिष्टस्वरस्य बलीयस्त्वमन्यत्र विकरणस्वरेभ्यः` (वा; 9;6.1.164) इति विकरणस्वरस्य प्रत्ययाद्युदात्तत्वं न भवति। करोतेरेव तु भवति-- `धातोः`
6|1|156 इति। शेषमनुदात्तं भवति। प्रशब्दस्य `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्याद्युदात्तत्वे प्राप्ते `गतिर्गतौ`
8|1|70 इति निघातेऽनुवर्तमाने `तिङि चोदात्तवति`
8|1|71 इति करोतिशब्दे तिङन्त उदात्तवति परतोऽनुदात्तत्वं भवति। तत्र हि `पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः`
8|1|67 इत्यतोऽनुदात्तमिति वर्तते। एतच्च प्रयोजनत्रयमुत्तरत्र गतिसंज्ञाया वेदितव्यम्।अथ किमर्थो योगविभागः, न गतिग्रहणं पूर्वयोगग एव क्रियते? इत्यत आह- `योगविभाग उत्तरार्थः` इति। `उत्तरत्र ` इत्यादिना योगविभागस्योत्तरार्थतां दर्शयति। यद्युत्तरत्राप्युपसर्गसंज्ञा स्यात्, तदा किं स्यादित्यत आह-- `ऊरीस्यादित्यत्र ` इत्यादि।`चकारः संज्ञासमावेशार्थः` इति। असति चकार एकसंज्ञाधिकारादेकत्र संज्ञाद्वयस्य विधानात् पर्यायः स्यात्, न समावेशः। `प्रणीतम्` इत्यादिना संज्ञासमावेशस्य फलं दर्शयति। `गतिरनन्तर इति स्वरः` इति। उदाहरणद्वयेऽपि `उपसर्गादिति णत्वषत्वे भवतः` इति। `प्रणीतम्` इति। `उपसर्गादसमासेऽपि णोपदेशस्य`
8|4|43 इति णत्वम्। `अभिषिक्तम्` इति। `उपसर्गात्सुनोति`
8|3|65 इत्यादिना षत्वम्।`कारिका` इत्यादि। धात्वर्थनिर्देश एतदुपसंख्यानं कत्र्तव्यम्। योऽन्यः कत्र्तरि कारिकाशब्दो ण्वुलन्तः, तस्य कारिकां कृत्वेत्येवं भवति। `उपाख्यान` शब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकार्सयानुक्तसमुच्चयार्थत्वात् कारिकाशब्दस्य गतिसंज्ञा भवतीति।`पुनश्चनसौ` इत्यादि। पुनश्चनः शब्दौ छन्दसि विषये गतिसंज्ञकौ च भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तूत्तरसूत्रे चकारस्यानुक्तसमुच्चयार्थतामाश्रित्य कत्र्तव्यम्। `पुनरुस्त्यूतम्` इति। `षिवु तन्तुसन्ताने` (धातुपाठः-1108), निष्ठा, उदित्वात् `इदितो वा`
7|2|56 इति विभाषेट्त्वात् `यस्य विभाषा`
7|2|15 इतीट्प्रतिषेधः; `च्छवोः शूडनुनासिके च`
6|4|19 इति वकारस्योठ्, यणादेशः। `चनोहितम्` इति। `दधातेर्हिः`
7|4|42 इति नहिरादेशः, `गतिरनन्तरः`
6|2|49 इति प्रकृतिस्वरे णाद्युदात्तत्वम्। चनः शब्दो हि `निपाता आद्युदात्ता भवन्ति` (फि।सू।4।80) इत्याद्युदात्तः॥