Page loading... Please wait.
1|4|58 - प्रादयः
॥ तस्मै पाणिनये नमः ॥
1|4|58
SK 21
प्रादयः   🔊
सूत्रच्छेदः
प्रादयः (प्रथमाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राग्रीश्वरान्निपाताः  1|4|56
सम्पूर्णसूत्रम्
प्रादयः असत्वे निपाताः
सूत्रार्थः
प्रादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिने अर्थे निपातसंज्ञकाः भवन्ति ।
किम् नाम प्रादिगणः? - प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप - एते द्वाविंशतिः शब्दाः प्रादिगणे समाविष्टाः सन्ति । एतेषाम् "अद्रव्यवाचिषु" अर्थेषु निपातसंज्ञा भवति ।

किम् नाम "अद्रव्यवाची"? यदि कश्चन शब्दः कस्यचन "पदार्थस्य" निर्देशं करोति, तर्हि सः "द्रव्यवाची" अस्ति इत्युच्यते । "द्रव्य" इत्युक्ते "भौतिकजगतः पदार्थः" । "लिङ्गसङ्ख्यान्वितम् द्रव्यम्" इत्युच्यते । इत्युक्ते, यस्य शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, सः शब्दः "द्रव्यवाची" अस्ति इति उच्यते । यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची अस्ति इति उच्यते ।

यथा, "परा" अस्य शब्दस्य "अन्या / द्वितीया" इति अर्थं स्वीकुर्मः चेत् एषः सङ्ख्यानिर्देशं करोति, अतः अस्मिन् अर्थे अस्य निपातसंज्ञा न भवितुम् अर्हति । परन्तु "पराजयते" इत्यत्र उपसर्गरूपेण प्रोक्तः लिङ्गम् सङ्ख्याम् वा न दर्शयति, अतः एतादृशः "परा" शब्दः निपातसंज्ञकः अस्ति ।

ज्ञातव्यम् - प्रादिगणस्य सदस्याः "उपसर्गाः" सन्ति इति सामान्यरूपेण ज्ञायते । परन्तु एतत् ज्ञातव्यम् यत् एतेषाम् शब्दानाम् यदा धातुना सह प्रयोगः भवति, तदा एव एतेषाम् उपसर्गसंज्ञा भवति । अन्यत्र एतेषां उपसर्गसंज्ञा न भवति । यथा - "प्रनायकः देशः" इत्यत्र प्र-अयं प्रादिगणस्य शब्दः "नायक" अनेन प्रातिपदिकेन सह प्रयुक्तः अस्ति । "प्रगतः नायकः अस्मात् सः प्रनायकः देशः" इति अस्य शब्दस्य अर्थः । अतः अस्य उपसर्गसंज्ञा न भवति । तथैव, "विशेष" इत्यत्र "वि" इत्यस्य ; "सुसंस्कृतम्" इत्यत्र "सु" इत्यस्य ; "उपशिक्षकः" इत्यत्र "उप" इत्यस्य ; "प्रमुखः" इत्यत्र "प्र" इत्यस्य च अपि "उपसर्गसंज्ञा न भवति इति स्मर्तव्यम् । एतेषु सर्वेषु शब्देषु प्रादिगणस्य एते शब्दाः केवलं निपातसंज्ञकाः सन्ति, उपसर्गसंज्ञकाः न सन्ति ।
One-line meaning in English
The words included in the प्रादिगण are called निपात when used in a sense that does not denote an object.
काशिकावृत्तिः
प्राऽदयो ऽसत्त्वे निपतसंज्ञा भवन्ति। प्र। परा। अप। सम्। अनु। अव। निस्। निर्। रुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उतभि। प्रति। परि। उप्। पृतग्योगकरनम् उत्तरसंज्ञाविशेषणार्थम्। उपसर्गाः क्रियायोगे 1|4|59 इति चाऽदीनाम् उपसर्गसंज्ञा मा भूत्। असत्त्वे इत्येव, परा जयति सेना।
Text Unavailable. Please use feedback link below to provide the text if you have.
अयं योग उतरस्माद्विभज्यते, पूर्वस्माच्च; यदि पुनःठ्प्रादय उपसर्गाः क्रियायोगेऽ इत्युच्यते, नैवं शक्यमित्याह-पृथग्योगकरणमिति। उतरस्या उपसर्गसंज्ञाया एव ठ्क्रियायोगेऽ इति विशेषणं यथा स्यात्, निपातसंज्ञायां मा भूदित्येवमर्थमुतरस्माद् योगादस्य विभाग इत्यर्थः। अथ वा--चादिष्वेव प्रादीनपि पठित्वा पूर्वस्माद्योगात् किमर्थ विभज्यते, तत्राप्याह--उपसर्गाः क्रियायोग इति। वादीनामिति। चलोपोऽत्र द्रष्टव्य इति च--वदीनामिति। परा जयन्ति सेना इति। परा उत्कुष्टाः। परदेशस्थिता वा द्रव्यत्वातत्र वर्तमानस्य पराशब्दस्य न भवति, यत्र त्वेकवचनं पठ।ल्ते--परा जयति सेनेति, तत्र रूपोदाहरणं द्रष्टव्यम्; हल्ङ्याबिति सुलोपात्, पराशब्दस्याद्यौदातत्वाच्च॥
सिद्धान्तकौमुदी
अद्रव्यार्थाः प्रादयस्तथा ॥
प्रादय उपसर्गाः क्रियायोगे -
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
एतेऽपि तथा॥
महाभाष्यम्
प्रादयः प्रादय इति योगविभागः निपातसंज्ञार्थः, एकयोगे हि निपातसंज्ञाभावः।। 1 ।। प्रादय इति योगविभागः कर्तव्यः । प्रादयोऽसत्त्ववचना निपातसंज्ञा भवन्ति । तत उपसर्गाः क्रियायोगे इति ।। किमर्थो योगविभागः ? निपातसंज्ञाऽर्थः ।। 2 ।। निपातसंज्ञा यथा स्यात् । एकयोगे हि निपातसंज्ञाऽभावः ।। 3 ।। एकयोगे हि सति निपातसंज्ञाया अभावः स्यात् । यस्मिन्नेव विशेषे, गत्युपसर्गकर्मप्रवचनीयसंज्ञास्तस्मिन्नेव विशेषे निपातसंज्ञा स्यात् । मरुच्छब्दस्योपसंख्यानम् ।। 4 ।। मरुच्छशब्दस्योपसंख्यानं कर्तव्यम् । मरुद्दत्तो मरुतः । अच उपसर्गाद् 7|4|47 इति तत्वं यथा स्यात् । श्रच्छब्दस्योपसंख्यानम् ।। 5 ।। श्रच्छब्दस्योपसंख्यानं कर्तव्यम् । श्रद्धा । ।। 58।।