॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|55
SK 2575
1|4|55
तत्प्रयोजको हेतुश्च
SK 2575
सूत्रच्छेद:
तत्प्रयोजकः - प्रथमैकवचनम् , हेतुः - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ततिति अनन्तरः कर्ता परामृश्यते। तस्य प्रयोजकस् तत्प्रयोजकः। निपातनात् समासः। स्वतन्त्रस्य प्रयोजको यो ऽर्थः, तत्कारकं हेतुसंज्ञं भवति। चकारात् कर्तृसंज्ञं च। संज्ञासमावेशार्थश्चकारः। कुर्वाणं प्रयुङ्क्ते, कारयति। हारयति। हेतुत्वद् णिचो निमित्तं कर्तृत्वाच् च कर्तृप्रत्ययेन उच्यते। हेतुप्रदेशाः हेतुमति च 3|1|26 इत्येवम् अदयः।
`तस्य प्रयोजकस्तत्प्रयोजकः` इति। ननु च `कत्र्तरि च` 2|2|16 इत्यनेन षष्ठीसमासप्रतिषेधे नात्र भवितव्यमित्याह-- `निपातनात्समासः` इति। `प्रयोजकः` इति प्रेरकः = उपदेशकः, व्यापारक इत्यर्थः। न चान्येन प्रयुज्यमानस्य स्वव्यापारे स्वातन्त्रयं हीयते; अन्यथा ह्रकुर्वत्यपि कारयीति स्यात्। प्रयोजकत्वं द्विविधम्-- मुख्यम्, इतरच्व। देवदत्तः कटं कारयीत्यत्र देवदत्तस्य मुख्यम्। भिक्षा वासयतीत्यत्र भिक्षाणां वासहेतुत्वात् प्रयोजनत्वमुपचरितम्, न मुख्यम्। न हि भिक्षा यूयं वसथेत्येवं प्रयुञ्जते। इह च कारकाधिकारे तमब्ग्रहणव्यतिरेकेणातिशयो न विवक्षित इति `साधकतमं करण म्` 1|4|42 इत्यत्र तमब्ग्रहणेन ज्ञापितमेतत्। तेन यस्यापि प्रयोजगत्वमुपचरितम्, न मुख्यम्, तस्यापि हेतुसंज्ञा भवत्येव।`संज्ञासमावेशार्थश्चकारः` इति। असति तस्मिन्नेकसंज्ञाधिकारादत्र कर्तृसंज्ञा न स्यात्। अतः संज्ञासमावेशार्थश्चकारः क्रियते। `हेतुत्वात्` इत्यादिना संज्ञाद्वयस्य प्रयोजनं दर्शयति। प्रयोजकव्यापारे हि `हेतुमति च` 3|1|26 इति णिच् विधीयते। तस्य हेतुत्वं प्रयोजकस्य हेतुत्वे सत्युपपद्यते। हेतुत्वात्प्रयोजको णिचो निमित्तं भवति। कर्तृप्रत्येन न लकारेणाभिधानं कर्त्तृसंज्ञायां सत्यां भवतीति कर्त्तृत्वत् कर्त्तृप्रत्ययेन लकारेणोच्यत इति॥
तदित्यनेनन कर्ता सम्बद्ध्यते इति। कर्तृ संज्ञाविशिष्टः स्वतन्त्र इत्यर्थः। ननु च प्रयोजकसन्निधौ प्रयोज्यस्य पारतन्त्र्यं कर्तृ सन्नि धाविव करणादीनाम्, तत्कथं स्वतन्त्रः परामृश्यते? कथन्तरां च कर्तृ संज्ञाविशिष्टः? कथन्तमां च पाचयत्योदनं देवदतो यज्ञदतेनेति? प्रयोज्ये तृतीया भवति, पूर्वमेव च स्वतन्त्रस्य कर्तृः सतः प्रयुक्तिरपि किमर्था? मायं विरंसीदिति प्रयुङ्क्ते इति चेद्, भवत्वेवं प्रवृतप्रवर्तने, यत्र तु बलात्कारेण प्रवर्त्यते तत्र कथम्? उच्यते; अप्रवृतप्रवर्तनेऽपि यावत्स्वार्थादर्शनात् प्रयोज्ये न प्रवर्तते तावत्प्रयोजकः पाचयतीति न व्यपदिश्यते, तदानीमपि च स्मृत्यारूढा प्रयुक्तिर्विद्यत इति अनुवर्तमाना हि प्रसक्तिः प्रयोज्यस्याफलनिष्पतेः प्रवृतौ हेतुर्न मध्ये विच्छिन्ना। लोडादिवाच्यस्तु प्रैषः प्रयोज्यस्या प्रवृतावपि भवति। उक्तं च-- द्रव्यमात्रस्य तु प्रैषे पृच्छादेर्लोड् विधीयते। प्रवृतस्य यदा प्रैषस्तदा स विषयो णिचः॥ इति। तदेवं णिज्वाच्या प्रयुक्तिः प्रवृतप्रवर्तनारूपेण प्रतीयत इति प्रकृत्यर्थे कर्तृः सतः प्रयोजक इत्यविरुद्धम्। इममेव चार्थ दर्शयितुं तच्छब्दोपादानम्; अन्यथा कस्य प्रयोजक इत्यपेक्षायाम्, प्रकृतत्वादेव स्वतन्त्रस्य प्रयोजक इति लाभादनर्थकं तत् स्यात्। तस्य प्रयोजकस्तत्प्रयोजक इति। ननु ठ्तृजकाभ्यां कर्तरिऽठ्कर्तरि चऽ न्न्न्न्न्तिषेधात् कथमत्र समास इत्यत आह-निपातनात्समाप्त इति। अत्र विचन्न्न्न्न्न्पासप्रकरण एव विचारयिष्यामः। संज्ञासमावेशार्थश्चकार इति। असति हि तस्मिन् एकसंज्ञाधिकारात् कर्तृ संज्ञा न स्यात्। कुर्वाणं प्रयुङ्क्ते इति। कुर्वाणदशायां या प्रयुक्तिः स्मृत्यारूढा, सैव णिज्वाच्येत्येवं विग्रहः। हेतुत्वादित्यादिना समावेशस्य प्रयोजनं दर्शयति॥
सिद्धान्तकौमुदी
॥ अथ तिङन्तणिच्प्रकरणम्‌ ॥

कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥
अथ `हेतुमति चे`ति णिज्विधिं वक्ष्यन् हेतुसंज्ञामाह -- तत्प्रयोजको हेतुश्च। `स्वतन्त्रः कर्ते`ति पूर्वसूत्रोपात्तः कर्ता तच्छब्देन परामृश्यते। तस्य कर्तुः प्रयोजकः प्रवर्तयिता - तत्प्रयोजकः। तदाह -- कर्तुः प्रयोजको हेतुसंज्ञ इति। चकारः पूर्वसूत्रोपात्तां कर्तृसंज्ञां समुच्चिनोति। तदाह -- कर्तृसंज्ञश्चेति.देवदत्तः पचति, तं प्रेरयति यज्ञदत्त इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपक्रतृत्वसत्त्वात्प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधिः। प्रयोजकस्य प्रयोज्यकर्त्रा अन्यथासिद्धत्वाद्धेतुत्वाऽप्राप्तौ हेतुसंज्ञाविधिः।
तत्प्रयोजको हेतुश्च। तच्छब्देन `स्वतन्त्रः कर्ते`ति पूर्वसूत्रोपात्तः कर्ता कपरामृश्यते।तस्य = कर्तुः प्रयोजकः = प्रेरकः, तद्व्यापारानुकूलव्यापारवानित्यर्थः। चकार एकसंज्ञाधिकारबाधनार्थस्तदाह-- हेतुसंज्ञः कर्तृसंज्ञश्चेति। हेतुसंज्ञायाः प्रयोजनं `भीस्म्योर्हेतुभये`, `भियो हेतुभये षु` गित्यादौ प्रयोजकस्य हेतुत्वेन व्यवहारः। कर्तृसंज्ञायास्तु `लः कर्मणि च भावे चे`ति सूत्रेण प्रयोजके वाच्ये लकारादयः।
लघुसिद्धान्तकौमुदी
कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात्॥
महाभाष्यम्
तत्प्रयोजको हेतुश्च प्रैषेऽस्वतन्त्रप्रयोजकत्वाद्धेतुसंज्ञाऽप्रसिद्धिः ।। 1 ।। प्रैषेऽस्वतन्त्रप्रयोजकत्वाद्धेतुसंज्ञाया अप्रसिद्धिः प्राप्नोति । स्वतन्त्रप्रयोजको हेतुसंज्ञो भवतीत्युच्यते, न चासौ स्वतन्त्रं प्रयोजयति ।। स्वतन्त्रत्वात्सिद्धम् ।। स्वतन्त्रत्वासिद्धमेतत् । स्वतन्त्रमसौ प्रयोजयति । स्वतन्त्रत्वात्सिद्धमिति चेत्स्वतन्त्रपरतन्त्रत्वं विप्रतिषिद्धम् ।। 2 ।। यदि च स्वतन्त्रो न प्रयोज्यः अथ प्रयोज्यो न स्वतन्त्रः, प्रयोज्यः स्वतन्त्रश्चेति विप्रतिषिद्धम् । उक्तं वा ।। 3 ।। किमुक्तम् ? एकं तावदुक्तम् - न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि कारयतीत्येतत्स्यात् इति । अपरमुक्तम् ‐ न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्। स्वतन्त्रप्रयोजकत्वादप्रयोजक इति चेन्मुक्तसंशयेन तुल्यम् इति ।। 55 ।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थे पादे तृतीयमाह्निकम् । । । ।