॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|50
SK 538
1|4|50
तथायुक्तं चानिप्सीतम्
SK 538
सूत्रच्छेद:
तथा - अव्ययम् , युक्तम् - प्रथमैकवचनम् , च - अव्ययम् , अनिप्सीतम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते, तेन एव चेत् प्रकारेन यदनीप्सितं युक्तं भवति, तस्य कर्मसंज्ञा विधीयते। ईप्सितादन्यत् सर्वम् अनीप्सितम्, द्वेष्यम, इतरच् च। विषं भक्षयति। चौरान् पश्यति। ग्रामं गच्छन् वृक्षमूलान्युपसर्पति।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
तथेति पृथक् पदम्, नोपसमस्तम्; लक्षणाभावात्। चकारोऽवधारणे, अनेकार्थत्वान्निपातानाम्, तथेत्यस्य चानन्तरे द्रष्टव्य इत्याह--तेनैवेति। ईप्सितादन्यत्सर्वमनीप्सितमिति। यथा अधर्मानृतादिभिरुतरपदार्थप्रतिपक्षभूतं यद्वस्तु तत्प्रतिषेधद्वारेणाभिधीयते, तथेहानीप्सितशब्देनेप्सितप्रतिपक्षभूतं न द्वेष्यमेवाभिधीयते, किं तर्हि? अश्व--लोष्ट--इत्यादिवदीप्सितव्यतिरिक्तं सर्वमिति सर्वशब्दस्यार्थः। विषं भक्षयतीति। न कस्यापि विषमीप्सिततममिति भावः। ननु य एव मनुष्यो व्याध्यादिना सर्वतः पीडितो मरणमेव ज्यायो मन्यते, तस्य विषमपीप्सिततममेव; यदिष्ट्ंअ गुडादिभ्रान्त्या विषे प्रवर्तते तस्यापि तदीप्सिततममेव, यदिष्ट्ंअ गुडादि, तद्बुद्धिरेव तत्र प्रवर्तते; अतोऽत्र पूर्वेणैव सिद्धमित्युदाहरणान्तरोपन्यासः। ग्रामं गच्छन्निति। नात्र वृक्षमूलानीप्सिततमानि पूर्वमनभिसंहितत्वान्नान्तरीयकं हि तदुपसर्पणम्। न चात्रापि यावद् ग्रामं गच्छन्निति न प्रयुज्यते तावन्नान्तरीयकता न प्रतीयत इति पूर्वेणैव सिद्धम्, यथा--नदी कूलं कषतीत्यत्राचेतनत्वादीप्साभावः, पदान्तरसम्बन्धात्प्रतीयमानो बहिरङ्गत्वात्कर्मसंज्ञां न प्रतिबध्नाति? भवत्वयं प्रतिपतारं प्रति उपपादनप्रकारः, यस्तु प्रयुङ्क्ते स पूर्वमेवेप्साप्रकर्षाभावं जानन् तत्कथं प्रयुक्तमिति पूर्वेणासिद्धिरेव। एवं च नदीकूलमित्यत्रापि अनेनैव कर्मसंज्ञा। तथा यत्र क्रियायामेव तात्पर्यं न फले, नान्तरीयका तु फलसिद्धिः, तत्राप्यनेनैव भवति। अथ क्रियाफलयोगि कर्मेति कस्माद् नोक्तम्? यदीप्सिततमं यद् द्वेष्यमितरच्च तत्र सर्वत्रानुगतमेतद्, यदुत क्रियाफलयोगित्वं कर्तुरपि तर्हि कर्मत्वं स्यात्, क्रियाफलस्य संयोगस्य तत्रापि भावात्। भावात्। अथ परसमवेतक्रियाफलयोगीति लक्षणम्? एवमप्यात्मा ज्ञातव्य इत्यत्र न स्यात् , संविदश्च स्वयं प्रकाशाभिमतायाः कर्मत्वं स्यात्। घटमहं जानामीत्यत्र हि त्रितयमेव भासते--घटः, ज्ञानम्, आत्मा चेति। तत्र ज्ञानं क्रिया, तत्फलं शब्दप्रयोगादिरूपो व्यवहारः, तेन युज्यमानस्य घटस्य यथा कर्मत्वं तथा ज्ञानस्यापि स्यात्। ज्ञानं हि क्रिया भवति व्यवहारूपस्य फलस्याश्रयभूतम्, तस्यैव ज्ञानस्य यत् स्वरूपं तदपेक्षया यः पर आत्मा तत्र च समवैतीत्यलमियता। चोरानित्यत्रापि मर्तृकामो वा मित्रादिरूपेण विपर्यस्यमानो वा चोरानुपसर्पतीति पूर्वेणैव सिद्धम्॥
सिद्धान्तकौमुदी
ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छन् तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ॥
तथाशब्दस्य सादृश्यवाचकस्य प्रतियोगिसापेक्षत्वादाह । ईप्सिततमवदिति । पुर्वसूत्रे सन्निहितत्वादीप्सिततमस्य भावः । क्रिययेति।। क्रियाजन्यफलयुक्तमित्यर्थ: । पुर्वसूत्रे ईप्सिततमस्य कर्मत्वमुक्तम् । द्वेष्योपेक्ष्यसङ्ग्रहार्थमिदं वचनम्। तत्र उपेक्ष्यमुदाहरति । ग्रामं गच्छंस्तृणं स्पृशतीति । संयोनुकूलव्यापारः स्पृशेरर्थः । अत्र स्पृशमानस्य तृणस्य ईप्सिततमत्वभावेपि गङ्गां स्पृशतीत्यादौ स्पृश्यमानस्येप्सिततमस्य गङ्गादेरिव क्रियाजन्यसंयोगात्मकफलाश्रयत्वात्कर्मत्वमिति भावः । द्वेष्यमुदाहरति। विषं भुङ्क्त इति । यदा कश्तिद्बलवता वैरिणा निगृह्यमाणो विषं भुङ्क्ते तदेदमुदाहरणम् । भुजेर्हि मुखे प्रक्षिप्तस्य गळविवरप्रविशानुकूलः हनुचलनादीव्यापारोऽर्थः । विषस्य द्वेष्यतया ईप्सिततमत्वाभावेऽपि ओदनं भुङ्क्ते इत्यादौ भुज्यमानस्य ईप्सिततमस्य ओदनादेरिव क्रियाजन्यगळविवरप्रवेशात्मकफलाश्रयात्वात् कर्मत्वमिति भावः । न च "धातूपस्थाप्यफलशालि कर्मे" इत्येवास्तु, किमीप्सितानीप्सितयोः पृथक् ग्रहणेनेति वाच्यम् । अग्नेर्माणवकं वारयतीत्यत्र हि "वारणार्थानामीप्सितः" इति माणवकस्यापादानत्वं प्राप्तं तन्निवृत्यर्थं "कर्तुरीप्सिततमम्" इति वक्तव्यमेव ।
एवञ्च द्वेष्योदासीनसङ्ग्रहार्थं "तथायुक्तञ्च" इति सूत्रमावश्यकमित्यास्तान्तावत् ।
ईप्सिततमवदिति। सूत्रे चशब्दोऽपिशब्दार्थे वर्तत इति ध्वनयन्नाह--अनीप्सितमपीति। ईप्सितादन्यदनीप्सितमिति पर्युदासोऽयं, तेन यदुपेक्ष्यं, यच्च द्वेष्यं, तद्द्वयमपीह गृह्रत इत्याशयेनाद्यमुदाहरति---ग्रामं गच्छन् तृणं स्पृशतीति। यथा स्पृश्यमानस्य ग्रामादेरीप्सितस्य क्रियायोगस्तज्जन्यसंयोगादिफलाधारत्वात्, तथैवानीप्सितस्य तृणादेरपीति भावः। इह हि ग्रामं गच्छतस्तृणस्पर्शनं नान्तरीयकं, तृणस्याऽनीप्सितत्वात्। यदा तु तृणमपीप्सिततमं भवति तदा पूर्वेणैव सिद्धम्। उपेक्ष्यं च--नोपेक्षाबुद्धिविषयः, नदी कूलं कषतीत्यचेतने तदसम्भवात्। किन्तु यत्रेप्साद्वेषयोरभावस्तदुपेक्ष्यमिति विवक्षितम्। विषमिति। अत्र विषं हेयमप्योदनवद्भुजिना सम्बन्धात्कर्म। ननु य एव पुरुषो व्याध्यादिना पीड()माने मरणमेव श्रेयो मन्यते तस्य विषमपूप्सितमे। योऽपि भ्रान्त्या भुङ्क्ते तस्यापि गुडादिवद्बुद्द्या व्यवसीयमानं विषमीप्सितमेव। कथमन्यथा प्रवर्तेत। तस्मादिदमुदाहरणमयुक्तमेवेति चेत्। अत्राहुः--यदा कश्चिन्मरणकातरोऽपि वैरिणा निगृह्रमाणो विषं भुङ्क्ते तदेदमुदाहरणमिति। अनीप्सितग्रहणं स्पष्टप्रतिपत्त्यर्थं, "तथा युक्तम्-----"सूत्रद्वयकथन#एनेति चेत्। अत्राहुः--"अग्रेर्माणवकं वारयती"त्यत्र "वारणार्थानामीप्सितः"इति सूत्रेण माणवकस्यापादानत्वं प्राप्तं तद्बाधनाय "कर्तुरूप्सिततम"मिति वक्तव्यमेव। एवञ्च द्वेष्योदासीनयोः सङ्ग्रहार्थं "तथा यूक्तम्----"इत्यपि आवश्यकमेवेति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तथा युक्तं चानीप्सितम् किमुदाहरणम् ? विषं भक्ष्यतीति । नैतदस्ति । पूर्वेणाप्येतत्सिध्यति । न सिध्यति । कर्तुरीप्सिततमं कर्म 1|4|49 इत्युच्यते, कस्य च नाम विषभक्षणमीप्सितं स्यात् । विषभक्षणमपि कस्यचिदीप्सितं भवति । कथम् ? इह य एष मनुष्यो दुःखार्तो भवति सोऽन्यानि दुःखान्यनुनिशम्य विषभक्षणमेव ज्यायो मन्यते । आतश्चेप्सितं यत्तद्भक्षयति ।। यत्तर्ह्यन्यत्करिष्यामीत्यन्यत्करोति तदुदाहरणम् । कि पुनस्तत् ? ग्रामान्तरमयं गच्छंश्चौरान् पश्यति, अहिं लङ्घयति, कण्टकान्मृदनातीति । इर्हेप्सितस्यापि कर्मसंज्ञाऽऽरभ्यतेऽनीप्सितस्यापि यदिदानीं नैवेप्सितं नाप्यनीप्सितं तत्र कथं भवितव्यम् ‐ ग्रामान्तरमयं गच्छन्वृक्षमूलान्युपसर्पति, कुड्यमूलान्युपसर्पतीति ? अत्रापि सिद्धम् । कथम् ? अनीप्सितमिति नाऽयं प्रसज्यप्रतिषेधः ‐ इर्प्सितं नेति । किं तर्हि पर्युदासोऽयं ‐ यदन्यदीप्सितात्तदनीप्सितमिति । अन्यच्चैवेदीप्सिताद्यन्नैवेप्सितं नाप्यनीप्सितमिति ।। 50 ।।