Page loading... Please wait.
1|4|44 - परिक्रयणे सम्प्रदानमन्यतरस्याम्
॥ तस्मै पाणिनये नम: ॥
1|4|44
SK 580
परिक्रयणे सम्प्रदानमन्यतरस्याम्  
सूत्रच्छेद:
परिक्रयणे - सप्तम्येकवचनम् , सम्प्रदानम् - सप्तम्येकवचनम् , अन्यतरस्याम् - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
साधकतमम् इति वर्तते। पूर्वेन करणसंज्ञायां प्राप्ताया सम्प्रदानसज्ञा पक्षे विधीयते। परिक्रयणे साधकतमं कारकम् अन्यतरस्यां सम्प्रदानसंज्ञं भवति। परिक्रयणम् नियतकालं वेतनादिना स्वीकरणम्, नत्यन्तिकः क्रय एव। शतेन परिक्रीतो ऽनुब्रूहि, शताय परिक्रीतो ऽनुब्रूहि। सहस्रेण परिक्रीतो ऽनुब्रूहि, सहस्राय परिक्रीतो ऽनुब्रूहि।
परिक्रीतिः = परिक्रयणम्। `नियतकालम्` इति। नात्यन्तिकम्। `वेतनादिना` इति। आदिशब्देन बन्धकादीनां ग्रहणम्। `नात्यन्तिकः क्रय एव` इति नियतकालत्वं स्पष्टीकरोति। परिशब्दोऽत्र प्रत्यासतिं द्योतयति। क्रयो हि नामात्यन्तिकः। वेतनादिना केवलं यत्तु नियतकालं तदात्यन्तिकस्य क्रयस्य समीपमिति परिशब्देनाख्यायते॥
परिक्रयणशब्दे धातुगतमेव रेफमाश्रित्य ठ्रषाभ्याम्ऽ इत्येव णत्वम्, प्रथमोपनिपतितत्वाद्, यथोपसर्गाभावे क्रयणमिति; न तूपसर्गस्थमाश्रित्य ठ्कृत्यचःऽ इत्यनेन तस्य पश्चादुपनिपतितत्वेन बहिरङ्गत्वात्। वेतनादिनेति। वेतनं भृतिः, नियतकालत्वमेव स्पष्टयति। नात्यन्तिकः क्रय एवेति। परिशब्दः सामीप्यं द्योतयति। क्रयो नामात्यन्तिकं स्वीकरणम्, नियतकालं तु तस्य समीपमेवेति परिशब्दस्यार्थः॥
सिद्धान्तकौमुदी
नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः ॥तादर्थ्ये चतुर्थी वाच्या (वार्तिकम्) ॥ मुक्तये हरिं भजति ॥क्लृपि सम्पद्यमाने च (वार्तिकम्) ॥ भक्तिर्ज्ञानाय कल्पते सम्पद्यते जायत इत्यादि ॥उत्पातेन ज्ञापिते च (वार्तिकम्) ॥ वाताय कपिला विद्युत् ॥ ।हितयोगे च (वार्तिकम्) ॥ ब्राह्मणाय हितम् ॥
परिक्रयणे सम्प्रदानमन्यतरस्याम् - परिक्रयणे । नियतकालमिति ।तुभ्यमेतावद्वेतनं दीयते, तद्गृह्णन्नेतावन्तं कालं त्वं मम कर्मकरो भवे॑त्येवं परिमितकालं भृत्या स्वीकरणं परिक्रयणमित्यर्थः । साधकतममित्यनुवर्तते । तदाह — तस्मिन्साधकतममिति । संप्रदानत्वाऽभावे करणसंज्ञा । शतेनेति । सुवर्णादियत्किञ्चिद्द्रव्यशतेनेत्यर्थः । तादर्थ्ये चतुर्थीति । "चतुर्थी संप्रदाने" इति सूत्रभाष्ये पठितमेतत् । तस्मै इदं तदर्थम् । अर्थेन नित्यसमासः । तदर्थस्य भावस्तादथ्र्यम् । ब्राआहृणादित्वात् ष्यञ् । तेन च उपकार्योपकारकभावसंबन्धो विवक्षितः । तत्र उपकार्यादेव चतुर्थी, भाष्ये यूपाय दारु, कुण्डलाय हिरण्यमित्युदाह्मतत्वादित्यभिप्रेत्योदाहरति-मुक्तये इति । मुक्त्यर्थमित्यर्थः । उपकार्यत्वं च बहुविधं जन्यत्वादि । यथा मुक्तये हरिं भजतीति । मुक्तिर्जन्येति गम्यते । प्राप्यत्वं वा, ब्राआहृणाय दधीति । ब्राआहृणस्योपकार्यत्वं गम्यते इत्यादि । नचैवमपि अनेनैव सिद्धेचतुर्थी सम्प्रदाने॑ इति सूत्रं संप्रदानसंज्ञाविधानं च व्यर्थमिति वाच्यं, "हरये रोचते भक्तिः" इत्यादौरुच्यर्थानां प्रीयमाणः॑ इत्याद्यर्थ तदावश्यकत्वादिति भाष्ये स्पष्टम् । क्लृपि संपद्यमाने चेति । क्लृपीति सप्तमी । सम्पत्तिः=विकारात्मना उत्पत्तिः । परिणाम इति यावत् । क्लृपिधातौ प्रयुज्यमाने सति संपद्यमानेऽर्थे वर्तमानाच्चतुर्थी वाच्येत्यर्थः । भक्तिरिति । ज्ञानात्मना परिणमते इत्यर्थः ।क्लृपीत्यर्थग्रहण॑मित्यभिप्रेत्यादाहरति — संपद्यते जायते इत्यादीति । आदिना "परिणमते" इत्यादिसङ्ग्रहः । परिणामत्वप्रकारकबोधार्थमिदं वचनम् । अन्यथा तादथ्र्यचतुर्थ्यैव सिद्धमित्याहुः ।उत्पातेन ज्ञापिते चेति । अशुभसूचक आकस्मिको भूतविकार उत्पातः, तेन सूचितेऽर्थे विद्यमानाच्चतुर्थी वाच्येत्यर्थः । वातायेति । महाबातस्य सूचिकेत्यर्थः ।हितयोगे चेति ।चतुर्थी वाच्ये॑ति शेषः । ब्राआहृणाय हितमिति । ब्राआहृणस्य सुखकृदित्यर्थः ।याजनादी॑ति शेषः ।
परिक्रयणे सम्प्रदानमन्यतरस्याम् - तादर्थ्ये चतुर्थी वाच्या॥ तादथ्र्य इथि तस्मै कार्यायेदं तदर्थं=कारणं, तस्य भावस्तादथ्र्यम् । ब्राआहृणादित्वात्ष्यञ् ।कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेन॑ इति सिद्धान्तात्ष्यञा संबन्धोऽभिधीयते । स च संबन्धोऽनेकविधो, न तु कार्यकारणभाव एव; तेनब्राआहृणाय दधी॑ त्याद्यपि सिद्धम् । ब्राआहृणस्य दध्यजन्यत्वेऽपि तत्संस्कार्यत्वात् । न चैवं दधिशब्दादपि चतुर्थी स्यादिति शङ्क्यं, संबन्धस्य द्विष्ठेत्वेऽपि षष्ठीवद्विसेषणादेव भवतीत्याकरे ऽभ्युपगमात् । एवंयूपाय दारु॑ इत्यत्र दारुशब्दादपि न भवति ।हेतौ॑ इति तृतीयापि षष्ठीविषय एव भवतीति सापीह न भवति, किंतु प्रातिपदिकार्थे प्रथमैव । न चैवद्वार्तिकस्यावश्यकत्वेचतुर्थी संप्रदाने॑ इति सूत्रे व्यर्थमिति भ्रमितव्यम्,हरये रोचते॑ इत्याद्यर्थ तस्याप्यावश्यकत्वात् ।विप्राय गा॑ मित्यत्रापि तादथ्र्य चतुर्थ्याः प्राप्तिर्नास्तीति प्रागेवोक्तत्वाच्चेति दिक् ।क्लृपि संपद्यमाने च॥ क्लृपीति । संपदादित्वाद्भावे क्विपि तदन्तात्सप्तमी । संपत्तिरिहाऽभूतप्रादुर्भावः, क्लृप्कत्यर्थकधातुप्रयोगे यः संपद्यते तत्र चतुर्थी, विकारवाचकाच्चतुर्थीत्यर्थः । स हि संपद्यते=प्रादुर्भवति । तदुदाहरति — -भक्तिज्र्ञानायेति । ज्ञानात्मना परिणमत इत्यर्थः । प्रकृतिविकृत्योर्भेदबिवक्षायां विकृतिवाचकाच्चतुर्थी । अभेदविवक्षायां तु परत्वात्प्रथमैव,भक्तिज्र्ञानं कल्पते॑ । यदा तुजनिकर्तुः — -॑ इति भक्तेरपादनत्वं विवक्ष्यते, तदापि ज्ञानस्याभिहितकर्तृक्वनात्प्रथमैव,भक्तज्र्ञानं कल्पते॑ । क्लृपीत्यर्थग्रहणमित्याशयेनाह — -संपद्यते इत्यादि । यद्यपि तादर्थ्ये चतुर्थ्यैव भक्तिज्र्ञानायेत्यादिप्रयोगाः सिध्यन्ति, तथापि परिणमात्वप्रकारकबोधार्थमिदं वचनमित्याहुः ।उत्पातेन ज्ञापिते च । उत्पातेनेति । प्राणिनां शुभाऽशुभसूचको भूतविकार उत्पातः, तेन ज्ञापितेऽथे वर्तमानच्चतुर्थी वाच्येत्यर्थः । वातायेति । वातस्य ज्ञापिकेत्यर्थः ।हितेयोगे च । हितेति । चतुर्थीसमासविधानाज्ज्ञापकादेतल्लब्धमिति भावः । एवं सुखयोगेऽपिल चतुर्थी बोध्या । क्रियार्थोपपद । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, सा क्रियार्था क्रिया उपपदं यस्य । यद्यपि क्रियाया उपपदत्वं न संभवति, तथापीह स्ववाचकशब्दद्वारा तद्बोध्यम् । क्रियाफलकक्रियावाचकमित्यर्थः । क्रियावाचकस्यापि धातोरुपोच्चारितपदरूपोपपदत्वं यद्यपि न संभवति, सुप्तिङन्तस्यैव पदत्वात्, तथापीह क्रियावाचकप्रकृतिकमित्यर्थो विवक्षितः, तादृशमुपपदं यस्य तुमुन्नन्तस्य तस्य कर्मणि चतुर्थी भवतीति निष्कृष्टोऽर्थः ।तुमुन्ण्वुलौ क्रियायाम् — -॑ इति सूत्रमहिन्मा क्रियार्थकमुपपदं क्रियावाच्येव फलतीत्याशयेनाह — ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!