Page loading... Please wait.
1|4|40 - प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता
॥ तस्मै पाणिनये नमः ॥
1|4|40
SK 578
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता   🔊
सूत्रच्छेदः
प्रत्याङ्भ्याम् (पञ्चमीद्विवचनम्) , श्रुवः (षष्ठ्येकवचनम्) , पूर्वस्य (षष्ठ्येकवचनम्) , कर्ता (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 कारके  1|4|23
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रति आङित्येवं पूर्वस्य शृणोतेः कारकम् सम्प्रदानसंज्ञं भवति। कीदृशम्? पूर्वस्य कर्ता। प्रतिपूर्व आङ्पूर्वश्च शृणोति रभ्युपगमे प्रतिज्ञाने वर्तते। स च अभ्युपगमः परेन प्रयुक्तस्य सतो भवति। तत्र प्रयोक्ता पूर्वस्याः क्रियाया कर्ता सम्प्रदानसंज्ञो भवति। देवचत्ताय गाम् प्रतिशृणोति। देवदत्ताय गामाशृणोति। प्रतिजानीते इत्यर्थः।
`परेण` इत्यादि। अन्येन केनचिदिदं मे क्रियतामिति प्रयुक्तो व्यापारितः सन् प्रतिजानीते। अतः प्रतिज्ञातुरन्येन प्रयुक्त्सयाभ्युपगमो भवति। प्रयोक्तेति व्यापारयिता। सूत्रे पूर्वस्येत्यर्थापेक्षया पुंल्लिङ्गेन निर्देशः।स त्वर्थो विचार्यमाणः क्रियैव भवति। यस्मात् कत्र्तेति क्रियाया एव भवति नान्यस्यार्थस्येत्याह-- `पूर्वस्याः क्रियायाः` इति। यश्चासौ पूर्वस्याः क्रियायाः कत्र्ता भवति, स प्रतिज्ञातुः प्रयोजको भवतीति हेतुसंज्ञायां प्राप्तायामिदं वनचम्। `देवदत्ताय गां प्रतिशृणोति` इति। अत्र पूर्वस्या यानचक्रियाया देवदत्तः कत्र्ता। देवदत्तेन हि मह्रं गां देहीति याचित स यदा ददामीति प्रतिजानीते, तदैवं प्रयुज्यते-- देवदत्ताय गां प्रतिशृणोतीति। पूर्वस्य कत्र्तेति किम्? विना तेन गवादेरभ्युपयेमानस्य कर्मण एव स्यात्। ननु च परत्वात् कर्मसंज्ञा तस्य बाधिका भविष्यति, नैतदस्ति; नाप्राप्ते हि संज्ञान्तर इदमारभ्यत इति। इहापि च देवदत्ताय गामाशृणोतीति देवदत्तस्य हेतुसंज्ञा प्राप्नोति। तत्र पूर्वस्य कत्र्तेत्यस्मिन्नसति यथा देवदत्तस्य हेतुसंज्ञां बाधते, तदा कर्मसंज्ञामपि बाधेत। अथ वा-- `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्` (व्या।प।9) इति कर्मसंज्ञामेव बाधेत। पूर्वस्य कत्र्तेत्यस्मस्तु सति हेतुसंज्ञामेव बाधते, न कर्मसंज्ञाम्॥
द्विवचननिर्देशात् प्रत्येकमुपसर्गसम्बन्ध इत्याह-- आङ्पूर्वस्य प्रतिपूर्वस्य चेति। कः पुनरत्र पूर्वो व्यापार इत्यत्राह--प्रत्याङ्पूर्वश्चेत्यादि परेण प्रयुक्तस्येति। इदं मे देहीत्येवं प्रार्थितस्येत्यर्थः। पूर्वस्याः क्रियाया इति। सूत्रे तु व्यापाररूपविवक्षया पूर्वस्येति निर्देशः, यत्र हेतुसञ्ज्ञायां प्राप्तायां देवदतेन प्रतिश्रावयतीति प्रयोगनिवृतये वचनमित्याहुः। विवक्षान्तरे च देवदतो गां प्रतिश्रावयतीति भवत्येव॥
सिद्धान्तकौमुदी
आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता - प्रत्याङ्भ्याम् । प्रत्याङ्भ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यं श्रुव इत्यस्य विशेषणम् ।श्रु श्रवणे॑ । इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते । पूर्वशब्दः प्रेरणात्मकव्यापारं परामृशति । तदाह — आभ्यामित्यादिना ।पूर्वस्ये॑त्यस्य व्याख्यानं-प्रवर्तनारूपस्येति । प्रेरणारूपस्येत्यर्थः ।प्रत्याङ्भ्या॑मित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः, किन्तु प्रत्येकमेव तयोर्निमित्तत्वम्, अन्यथाअभिनिविशश्चे॑तिवत् "प्रत्याङ् श्रुवः" इत्येव ब्राऊयादित्यभिप्रेत्योदाहरति — विप्राय गां प्रतिश्रणोति आश्रणोति वेति । अत्र प्रतिपूर्वक आङ्पूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्यपगमे वर्तते, ततश्च प्रवर्तितः प्रतिजानीते इति लभ्यते केन प्रवर्तित इत्याकाङ्क्षायां विप्रः कर्त्तृत्वेनान्वेति । तत्र विप्रस्य प्रेरणाकर्त्तृत्वात्संप्रदानत्वं कर्त्तृ तृतीयापवाद इत्यभिप्रेत्याह — विप्रेणेति । मग्यं गवादिद्रव्यं देहीति विप्रेण पृष्टः सन् देवदत्तस्तुभ्यं ददामीत्यभ्युपगच्छतीति योजना ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.