॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|31
SK 594
1|4|31
भुवः प्रभवः
SK 594
सूत्रच्छेद:
भुवः - षष्ठ्येकवचनम् , प्रभवः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्तुः इति वर्तते। भवनं भूः। प्रभवत्यस्मातिति प्रभाः। भूकर्तुः प्रभवो यः, तत् कारकम् अपादानसंज्ञम् भवति। हिमवतो गङ्गा प्रभवति। काश्मीरेभ्यो वितस्ता प्रभवति। प्रथमत उपलभ्यते इत्यर्थः।
`भवनं भूः`इति। सम्पदादित्वात् क्विप्। प्रभव्तयस्मीदित प्रभव इत्यपादाने `ऋदोरप्` 3|3|57 इत्यप्। ननु च `हिमवतो गङ्गा प्रभवति` इत्येतत् पूर्वेणैव सिद्धम्। तथा ह्रयमत्रार्थः-- हिमवतो गङ्गा जायत इति, तत्किमर्थमिदमारभ्यत इत्याह-- `प्रथमत उपलभ्यते` इति। एष चार्थोऽनेकार्थत्वाद्धातूनां वेदितव्यः। जन्यर्थस्त्वत्र न सम्भवत्येव, न हि हिमवान् गङ्गायाः कारणम्, सा ह्रन्येभ्य एव कारणेभ्य उत्पन्ना। हिमवति तु केवलं प्रथमत उपलभ्यत इति॥
भवनं भूः, सम्पदादित्वात्क्विप्। अत्रापि प्रशब्दो द्रष्टव्यः। न हि कोवलस्य भवत्यर्थस्य प्रभवनेन योगः किं तर्हि? सोपसर्गस्य भुवः। कर्तेति। भवत्यर्थस्य कर्तेत्यर्थः, भुवो वा धातोः। कथं पुनर्धातोर्नाम कर्ता स्याद्, धातुर्वै शब्दः, शब्देऽसम्भवेऽर्थे कार्थं विज्ञास्यते। ठ्तसु उपक्षयेऽ भावे क्तः, ठ्वि गतौऽ तस्ता, वितस्तेति, अशोष्येत्यर्थः। प्रथमत उपलभ्यते इति। उपलभतेः कर्मव्यापारे प्रभवतिः, प्रवर्तत इत्यर्थः। प्रकाशत इति यावत्। एतेन जन्यर्थाभावात्पूर्वेणासिद्धं दर्शयति। अनेकार्थत्वाद्धातूनामस्मिन्नर्थे वृत्तिः। अयमपि प्रपञ्चः। कथम्? भवनपूर्वके निःसरणे प्रभवतिर्वर्तते॥
सिद्धान्तकौमुदी
भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः ॥ल्यब्लोपे कर्मण्यधिकरणे च (वार्तिकम्) ॥ प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः ॥गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम् (वार्तिकम्) ॥ कस्मात्त्वं नद्याः ॥यतश्चाध्वकालनिर्माणं तत्र पञ्चमी (वार्तिकम्) ॥ ।तद्युक्तादध्वनः प्रथमासप्तम्यौ (वार्तिकम्) ॥ ।कालात्सप्तमी च वक्तव्या (वार्तिकम्) ॥ वनाद् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ॥
भुवः प्रभवः। पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेकदेशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते। तदाह--भूकर्तुरिति। भवनं भूः। संपदादित्वात्क्विप्। भुवः कर्ता भूकर्ता, तस्येत्यर्थः। प्रभव इति। प्रभवति=प्रथमं प्रकाशतेऽस्मिन्निति प्रभवः। प्रथमप्रकाशस्थानमित्यर्थः। `प्रभवती`त्यस्य उत्पद्यते इत्यर्थे तु असङ्गतिः, गङ्गायस्तत्रानुत्पत्तेः। तदाह--प्रकाशते इत्यर्थ इति। प्रथमं प्रकाशते इति यावत्। अत एव `हिमवपि प्रकाशते` इत्यत्र न भवति। एतेन `जनिकर्तु`रित्यनेन `ध्रुवमपाये` इत्यनेन च गतार्थत्वं निरस्तम्। भाष्ये तु अपक्रामतीत्यर्थमाश्रित्य `ध्रुवमपाये` इत्यनेनैव सिद्धमिति स्थितम्।
भुवः। भुवनं भूरिति। संपदादित्वाद्भावे क्विप्। पूर्वसूत्रे समासनिर्द्दिष्टमपि कर्तृग्रहणमनुवर्तते, स्वरितत्वादित्याह---भूकर्तुरिति। प्रभवत्यस्मादिति प्रभवः, `अकर्तारि च कारके` इत्यधिकारादपादानार्थे `ॠदोरप्`। जनिकर्तुरित्येव सिद्धे निरर्थकमिदमित्याशङ्कां परिहरन्नाह--तत्र प्रकाशत इति। प्रथमं दृश्यत इत्यर्थः। एष चाऽर्थो धातूनामनेकार्थत्वाल्लभ्यते। तथा चाऽभूतप्रादुर्भावो जनिः। अन्यतः सिद्धस्य प्रथममुपलम्भः प्रभव इत्यर्थभेदोऽस्तीति भावः। `भीत्रार्थानाम्---` इत्यारभ्येयं सप्तसूत्री भाष्ये प्रत्याख्याता। तत्रेत्थमुपपत्तिसंभवः---चौरेभ्यो बिभेति, भयान्निवर्तत इत्यर्थः। त्रायते=रक्षणेन चौरेभ्यो निवत्र्तयतीत्यर्थः। पराजयते=ग्लान्या निवर्तत इत्यर्थः। वारयति। प्रवृतिं?त प्रतिबन्धन्निवर्तयतीत्यर्थः। निलीयते=निलयनेन निवर्तत इत्यर्थः। अधीते=उपध्यायान्निः सरन्तं शब्दं गृङ्णातीत्यर्थः। ब्राहृणः प्रपञ्चो जायत इत्यत्रापि ततोऽपकामति। निर्गच्छतीत्यर्थः। प्रभवतीत्यत्रापि भवनपूर्वकं निःसरणमर्थः। तथा च `ध्रुवमपाये---` इत्येनेनैवेष्टेरूपसिद्धिरिति। वस्तुतस्तु निवृत्तिनिस्सरणादिधात्वन्तरार्थविशिष्टे स्व#आर्थे वृत्तिमाश्रित्य यथाकथंचुदिक्तप्रयागाणां समर्थनेऽपि मुख्यार्थपुरस्कारेण षष्ठीप्रयोगो दुर्वारः,--नटस्य श्रृणोतीतिवत्। न ह्युपध्यायनटयोः क्रियानुकूलव्यापाराशे विशेषो वक्तुं शक्यः। अनभिधानब्राहृआस्त्रमाश्रित्य प्रत्याख्यानं तु नाऽतीव मनोरमम्। एवं `जुगुप्साविरामे`त्यादिवार्तिकमप्यारम्भणीयम्। तथा च सूत्रवार्त्तिकमतमेवेह प्रबलम्। तथा `ध्रुवं` `भयहेतुः` `असोढः` इत्यादिसंज्ञिनिर्देशोऽपि सार्थकः। परत्वात्तत्तत्संज्ञाप्राप्तावपि शेषत्वविवक्षायां `न भाषाणामश्रीयात्` इत्यादाविव षष्ठ�आ इष्टतया तत्रापादानसंज्ञाया वारणीयत्वात्। एतच्च शब्दकौस्तुभे स्पष्टम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
भुवः प्रभवः (271) अयमपि योगः शक्योऽवक्तुम् । कथं हिमवतो गङ्गा प्रभवतीति ? अपक्रामन्ति तास्तस्मादापः । यद्यपक्रामन्ति, किं नाऽन्त्यन्तायापक्रामन्ति ? सन्ततत्वात् ।। अथवान्याश्चान्याश्च प्रादुर्भवन्ति ।। 31 ।।