॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|26
SK 589
1|4|26
पराजेरसोढः
SK 589
सूत्रच्छेद:
पराजेः - षष्ठ्येकवचनम् , असोढः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
परापूर्वस्य जयतेः प्रयोगे ऽसोढो, यो ऽर्थः सोढुं न शक्यते, तत् कारकम् अपादानसंज्ञं भवति। अध्ययनात् पराजयते। असोढः इति किम्? शत्रून् पराजयते।
`सोढुं न शक्यते` इति। अनुभवितुं न शक्यत इत्यर्थः। `अध्ययनात् पराजयते` इत्यध्ययनमभिभवितुं न शक्नोति, न पारयतीत्यर्थः। `विपराभ्यां जेः` 1|3|19 इत्यात्मनेपदम्। `शत्रून् पराजयते` इति। अभिभवतीत्यर्थः। ननु च परत्वात् कर्मसंज्ञयैवात्र बाधितत्वादपादानसंज्ञा न भविष्यति, तत् किमेतन्निवृत्त्यर्थेनासोढग्रहणेन? सत्यमेतत्; प्रपञ्चे गुरुलाघवं न हि चिन्त्यते, प्रपञ्चश्चायम्। अस्ति ह्रत्राध्ययनाद् बुद्धिसंसर्ग पूर्वकोऽपायः। तथा हि-- यएव पुरुषोऽलसो भवति, स एवं मन्यते-- दुःखायैवैतदध्ययनमिति, पश्यन् बुद्ध्या तत्प्राप्नोति, प्राप्य च ततो निवर्तते; तस्मात् पूर्वेणैव सिद्धम्॥
अत्र धातुपाठगतस्य जीत्येतावन्मात्रस्यानुकरणम्। ततः परापूर्वो जिः पराजिरित्युतरपदलोपी समासो द्रष्टव्यः। ननु ठ्प्रकृतिवदनुकरणं भवतिऽ इत्यधातुरिति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधादसुबन्तत्वात्समासो न प्राप्नोति, न; अप्रतिषेधात्, नायं प्रसज्यप्रतिषेधः-धातोर्नेति, किं तर्हि? पर्युदासोऽयम्--यदन्यद् धातोरिति, धातोर्न विधिर्न प्रतिषेधः। एवमपीयङदेशः प्राप्रोति, परत्वाद् घेर्ङ्तीइति गुणो भविष्यतीति, समुदायस्य वा, समुदायोऽनुकरणम्, क्वस्थस्यसमुदायस्य? प्रयोगस्य। यद्येवम्, अध्ययनात्पराजयते-अत्र प्राप्नोति, न ह्यत्र पराजीति रूपमस्ति, क्व तर्हि स्याद्? यत्र पराजीति रूपमस्ति-अध्ययनात्पराजित इति। उदाहरणे पराजिर्न्युनीभावे वर्तते-अध्येतुं ह्रसति ग्लायतीत्यर्थः। अकर्मकश्चायमत्रार्थे, तत्र षष्ठ।लं प्राप्तायां वचनम्, प्रत्युदाहरणे त्वभिभवे वर्तते। ठ्विपराभ्यांजेःऽ इत्यत्रार्थद्वयेऽपि वर्तमानस्य ग्रहणम्। अयमपि प्रपञ्चो न्यूनीभावपूर्विकायां निवृतौ वृतेः सिद्धम्। अध्ययनात्पराजयते-कोऽर्थः? न्यूनीभावेन ग्लान्या ततो निवर्तते इत्यर्थः। तेन प्रत्युदाहरणे परत्वात्कर्मसञ्ज्ञा भविष्यतीति न चोदनीयम्॥
सिद्धान्तकौमुदी
पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । सोढः किम् ? शत्रून्पराजयते । अभिभवतीत्यर्थः ॥
पराजेरसोढः। सहधातोः क्तप्रत्यये धत्वढत्वष्टुत्वढलोपेषु कृतेषु `सहिवहोरोदवर्णस्ये`त्योत्त्वे सोढ इति रूपम्। तत्र क्तार्थो भूतकालो न विवक्षितः। तदाह--असह्योऽर्थ इति। सोढुमशक्य इत्यर्थः। हेतुतृतीयाऽपवादोऽयम्। ग्लायतीत्यर्थ इति। `असहना`दिति शेषः। यदा तु असहनान्निवर्तत इत्यर्थः आश्रीयते, तदा ध्रुवमित्यपादानत्वादेव सिद्धमिति भाष्यम्। अभिभवतीति। तिरस्करोतीत्यर्थः। अत्र शत्रूणामभिभवनीयतया ?सह्यत्वाऽभावान्नापादानता।
पराजेः। अध्ययनादिति। अध्ययनसंबन्धिनी ग्लानिरित्यर्थः। कारकशेषत्वेन षष्ठ�आं प्राप्तायामि दम्। पराजयत इति। `विपराभ्यां जेः` इति तङ्। `असोढ`इति क्तार्थो भूतकालो न विवक्षितः। तेनाऽध्ययनात् पराजेष्यत इत्यादि सिद्धम्। नन्वसोढग्रहणं व्यर्थं, शत्रून् पराजयत इत्यत्र परत्वात् कर्मसंज्ञासिद्धेः। अत्रापि वदन्ति---कर्मत्वाऽविवक्षायां शेषषष्ठीं बाधित्वा पञ्चमी स्यात्, सा मा भूदिति कर्तव्यमेवाऽसोढग्रहणमिति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पराजेरसोढः (266) अयमपि योगः शक्योऽवक्तुम् । कथम्-अध्ययनात्पराजयते इति ? य एष मनुष्यः प्रेक्षापूर्वकारी भवति ,स पश्यति ‐ दुःखमध्ययनं दुर्धरं च, गुरवश्च दुरुपचारा इति,स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानम् 1|4|24 इत्येव सिद्धम् ।। 26 ।।