॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|25
SK 588
1|4|25
भीत्रार्थानां भयहेतुः
SK 588
सूत्रच्छेद:
भीत्रार्थानाम् - षष्ठीबहुवचनम् , भयहेतुः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर् यः स्तत् कारकम् अपादानसंज्ञं भवति। चौरेभ्यो बिभेति। चौरेभ्य उद्विजते। त्रायत्यर्थानाम् चौरेभ्यस् त्रायते। चौरेभ्यो रक्षति। भयहेतुः इति किम्? अरण्ये बिभेति। अरण्ये त्रायते।
भीतिर्भीः; त्राणं त्राः; सम्पदादित्वात्? क्विप्। भीश्च त्राश्च भीत्रौ। भीत्रादर्थौ येषां ते भीत्रार्थाः। `बिभेत्यर्थानाम्` इत्यादि। बिभेतित्रायतिशब्दाविह साहचर्याद्बिभेतित्रायत्यर्थयोर्वर्तेते। बिभेतिरर्थो येषां ते बिभेत्यर्थाः। त्रायतिरर्थो येषां ते त्रायत्यर्थाः। `बिभेति` इति। `ञिभी भये` (धातुपाठः-1084), जौहोत्यादिकः। `उद्विजते` इति। `ओविजी भयचलनयोः` (धातुपाठः-1460) तौदादिकोऽनुदात्तेत्। `त्रायते` #इति। `त्रैङ पालने` (धातुपाठः-965) भौवादिकः।`अरण्ये बिभेति` इति। नात्रारण्याद्भयम्, किं तर्हि? तत्रस्थेभ्यश्चौरादिभ्यः। ननु चात्राधिकरणसंज्ञा परत्वात् बाधिका भविष्यति।अपि च-- ध्रुवमित्यनुवत्र्तते, `ध्रुवञ्चावधिभूतम्` इत्युक्तम्। न चारण्यमवधिबावेन विवक्षितम्, तत्किमेतन्निवृत्त्यर्थेन भयहेतुग्रहणेन? एवं तर्हि पूर्वस्यायं प्रपञ्चः। न हि कायसम्प्राप्तिपूर्वक एवापायो भवति, किं तर्हि? बुद्धिसम्प्राप्तिपूर्वकोऽपि। अस्ति चेह बुद्धिकसंप्राप्तिपूर्वकोऽप्ययायः, तथा हि -- चौरेभ्यो बिभेतीत्यत्र यस्तावत् पुरुषः प्रेक्षावान् भवति स एवं पश्यति-- `यदि मां चौराः पश्येयुध्र्रुवं मे मृत्युः` इति विचारयंस्तान् बुद्ध्या प्राप्नोति, प्राप्य चततो निवर्तते। तत्र ध्रुवमित्यादिनैव सिद्धम्। तस्मात् पूर्वस्यायं प्रपञ्चः। न च प्रपञ्चे गुरुलाघवं चिन्त्यते। एवमुत्तरेऽपि योगाः पूर्वस्यैव प्रपञ्चा वेदितव्याः; तदुदाहरणानां `अध्ययनात् पराजयते` इत्येवमादीनां पूर्वेणैव सिद्धत्वात्। यथा च तेषां सिद्धत्वं तथा भाष्ये एव प्रतिपादितम्। तस्मात् तत्रापि गुरुलाघवं न चिन्तनीयम्॥
भयं भीः, त्राणं त्राः, सम्पदादित्वाद्भावे क्विप्। भीत्रौ अर्थौ येषां ते भीत्रार्थाः, षष्ठीप्रयोगापेक्षया कारकापेक्षया चेत्याह--बिभेत्यर्थानामित्यादि। अत्र बिभेतित्रायतिशब्दौ तदर्थयोर्वर्तेते, तदर्थोऽर्थो येषामित्यर्थः। त्राणं बाधकेभ्यो रक्षणम्, बाधकाश्च भयहेतव इति त्रार्थानामपि भयहेतुः कारकं भवत्येव। चोरेभ्य इति । चोरयतेः पचाद्यचि चोरः। क्वचित् चौरेभ्य इति पाठः। तत्र स्वार्थिकः प्रज्ञाद्यण्। च्छत्रादिषु वा चुराशब्दः पठ।ल्ते, स चाऽप्रत्ययादित्यस्य ठ्ण्यासश्रन्थो युच्ऽ इति युचि बाधके प्राप्ते तस्मादेव निपातनादकारप्रत्यये णिलुकि च व्युत्पाद्यते, ततश्चुरा स्तेयं शीलमस्येति णे कृते स एवार्थो भवति। बिभेतीति। ठ्ञिभी भयेऽ जुहोत्यादिः। उद्विजते इति। ठोविजीभयचलनयोःऽ तौदादिकोऽनुदातेत्। अरण्ये इति। अत्र तत्स्थेभ्यो वृक्षादिभ्यो भयम्, नारण्यात्। ननु च ध्रुवमित्यनुवर्तिष्यते, न चारण्यमविधित्वेन विवक्षितम्, परत्वाच्चाधिकरणसञ्ज्ञैव भविष्यति, सत्यम्; पूर्वस्यैवायं प्रपञ्चः, कथम्? भयादिपूर्विकायां निवृतौ भ्यादयो वर्तन्ते-बिभेतीति कोर्थः? भीत्या निवर्तत इत्यर्थः, त्रायत इति कोऽर्थः? चोरकृताद्वधादेस्त्राणेन निवर्तयतीत्यर्थः। कथं तर्हि चोरमध्यवर्तिनि चोरेभ्यो बिभेतीति प्रयोगः, न ह्यत्र निवृत्तिरस्ति? अत्रापि भीत्या निवर्तितुमिच्छतीत्यर्थो द्रष्टव्यः। तदेवं बुद्धिपरिकल्पितोऽपायोस्तीत्युपातविषयमिदमपादानमिति। कृतस्न एव प्रयोगप्रपञ्चे किमवयवपर्यनुयोगेन! ॥
सिद्धान्तकौमुदी
भयार्थानां त्राणार्थानां च प्रयोगे हेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्त्रायते । भयहेतुः किम् ? अरण्ये बिभेति त्रायते वा ॥
भीत्रा। चोराद्विभेतीति। चोरेण हेतुनेत्यर्थः। हेतुतृतीया प्राप्ता। चोरात्रायत इति। चोरेण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः। यदा तु चोराद्विभेति=भीत्या निवर्तते, चोरात्रायते=आत्मानं त्रातु निवर्तयतीत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम्।
भीत्रा। `कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे` इति रामायणे तु `कस्ये` त्यस्य संयुगेनान्वयान्नास्ति भयहेतुत्वमिति षष्ठीप्रयोगः सङ्गच्छत एव। न चैवं संयुगस्याऽपादानत्वापत्तिरिति वाच्यम्। परया अधिकरणसंज्ञया अपादानसंज्ञा[या]बाधात्। अधिकरणत्वाऽविवक्षायां तु इष्टापत्तेः। भीत्रार्थेति किम्?। व्याघ्रं पश्यति। न च कर्मत्वेन बाधः शङ्क्यः, कर्मत्वाऽविवक्षायां शेषषष्ठीं बाधित्वा पञ्चमी प्रसङ्गादित्याहुः। भयतहेतुग्रहणं चिन्त्यप्रयोजनम्, अरण्ये बिभेतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेरिति चेत्, अत्र वदन्ति--भयहेतुग्रहणाऽभावे कारकशेषत्वविवक्षायामतिप्रसङ्गः स्यात्। तथा च `अरण्यस्य चोराद्बिभेती`ति प्रयोगो न स्यादिति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
भीत्रार्थानां भयहेतुः (265) अयं योगः शक्योऽवक्तुम् । कथं वृकेभ्यो बिभेति दस्युभ्यो बिभेति, चोरेभ्यस्त्राते दस्युभ्यस्त्रायत इति ? इह तावद् ‐ वृकेभ्यो बिभेति दस्युभ्यो बिभेतीति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति ‐ यदि मां वृकाः पश्यन्ति ध्रुवो मे मृत्युरिति । स बुद्ध्या संप्राप्य निवर्तते , तत्र ध्रुवमपायेऽपादानम् 1|4|24 इत्येव सिद्धम् । इह चौरेभ्यस्त्रायते दस्युभ्यस्त्रायत इति, य एष मनुष्यः प्रेक्षापूर्वकारी सुहृद्भवति स पश्यति ‐ यदीमं चौराः पश्यन्ति ध्रुवमस्य वधबन्धनादिपरिक्लेशा इति । स बुद्ध्या संप्राप्य निवर्तयति । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् ।। 25 ।।