Page loading... Please wait.
1|4|22 - द्व्येकयोर्द्विवचनैकवचने
॥ तस्मै पाणिनये नम: ॥
1|4|22
SK 186
द्व्येकयोर्द्विवचनैकवचने  
सूत्रच्छेद:
द्वि-एकयो: - सप्तमीद्विवचनम् , द्विवचन-एकवचने - प्रथमाद्विवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
द्वि-एकयो: द्विवचन-एकवचने
सूत्रार्थ:
द्वित्वे विवक्षिते द्विवचनस्य तथा एकत्वे विवक्षिते एकवचनस्य प्रयोगः भवति ।
अनेन सूत्रेण द्विवचन-संज्ञक-प्रत्ययस्य एकवचन-संज्ञकस्य प्रत्ययस्य कुत्र प्रयोगः भवति तत् स्पष्टीक्रियते । यत्र द्वयोः विवक्षा अस्ति, तत्र द्विवचनसंज्ञकः प्रत्ययः, यत्र एकवचनसस्य विवक्षा अस्ति, तत्र एकवचनसंज्ञकस्य प्रयोगः भवति ।

यथा -
1) बालः गच्छति - अस्मिन् वाक्ये एकस्य बालकस्य विषये एव प्रोच्यते, अतः अत्र एकवचनस्य प्रयोगः कृतः अस्ति ।
2) बालौ गच्छतः - अस्मिन् वाक्ये द्वयोः बालकयोः विषये उच्यते, अतः अत्र द्विवचनस्य प्रयोगः क्रियते ।

ज्ञातव्यम् -
1) एकवचनम् तथा द्विवचनम् एते संज्ञे तान्येकवचनद्विवचनबहुवचनान्येकशः 1|4|102 अनेन सूत्रेण दीयेते । सुप्-प्रत्ययानाम् तथा तिङ्-प्रत्ययानाम् इमे संज्ञे भवतः ।
2) एकवचनस्य प्रयोगः सामान्येन तदा अपि भवति यदा विशिष्टा सङ्ख्या विवक्षिता नास्ति ।

भाषाविशेषः - सामान्यरूपेण अद्यतनकाले संस्कृतसम्भाषणे एकवचनस्य विवक्षायाम् अपि आदरं प्रकटितुम् बहुवचनस्य प्रयोगः कृतः दृश्यते । यथा - एकम् मनुष्यम् उद्दिश्य अपि "भवन्तः कथम् सन्ति" इतिप्रकारेण प्रश्नः पृछ्यते । अयं प्रयोगः व्याकरणसम्मतः नास्ति । मूलतः एकवचनस्य प्रयोगेन अनादरः भवति, बहुवचनस्य प्रयोगेन च आदरः दर्श्यते, एतादृशम् चिन्तनम् अयोग्यम् एव । वचनानां प्रयोगः केवलं सङ्ख्यायाः विवक्षायाम् भवति, आदरस्य / अनादरस्य विवक्षायाम् न, एतत् स्मर्तव्यम् ।
One-line meaning in English
For referring to two, the द्विवचन forms are used, where as for referring to one, the एकवचन forms are used.
काशिकावृत्तिः
द्वित्वएकयोरर्थयोः द्विवचनएकवचने भवतः। एतदपि सामान्यविहितयोर् द्विवचनएकवचनयोरर्थाभिधानम्। द्वित्वे द्विवच्नं भवति। एकत्वे एकवचनं भवति। ब्राह्मणौ पठतः। ब्राह्मणः पठति।
`द्व्येकयोः` इति। अयमपि भावप्रधानो निर्देशः; अन्यथा हि बहुत्वाद्बहुवचनं स्यात्। भावप्रधाने तु निर्देशे,द्वित्वमेकत्वञ्च द्वावेतावर्थाविति युक्तं द्विवचम्। `एतदपि` इत्यादिनाऽस्यापि योगस्य विध्यर्थतां दर्शयति। `अर्थाभिधानम्` इति। अर्थो वाच्योऽभिधीयते येन तदर्थाभिधानम्॥
द्विशब्देन साहचर्यादेकशब्दः संख्यावाची। अयमपि भावप्रधानो निर्देशः, अत एवठ्द्व्येकयोःऽ इति द्विवचनम्, तदाह-द्वित्वैकत्वयोरिति। एतदपीत्यादि। अनेनास्यापि विध्यर्थत्वं दर्शयति। कथं तर्हि सामान्यविहितयोरिति, यावता नियमार्थत्वे एतद् घटते? उच्यते; साधारणपर्यायः सामान्यशब्दः ससंख्यनिःसंख्यसाधारण्येन विहितयोरित्यर्थः। अर्थाभिधानमिति। अर्थःउवाच्योऽभिधीयतेउकथ्यते येन तदर्थाभिधानम्। द्व्येकयोरितयत्र ठ्संख्याया अल्पीयस्यःऽ इत्येकशब्दस्य पूर्वनिपातोऽस्मादेव निपातनान्न भवति। संख्येयवचनष्वेवार्थद्वारकमल्पीयस्त्वमित्यन्ये॥
सिद्धान्तकौमुदी
द्वित्वैकत्वयोरेते स्तः ॥
द्व्येकयोर्द्विवचनैकवचने - द्वयेकयोः ।द्वयेकयो॑रिति भावप्रधानो निर्देशः, अन्यथाद्वयके॑ष्विति स्यादित्यभिप्रेत्य व्याचष्टे — द्वित्वैकत्वयोरिति ।
द्व्येकयोर्द्विवचनैकवचने - द्वयेकयोः । इहद्वयेक॑शब्दौ सङ्ख्यापरावित्यभिप्रेत्याह — द्वित्वैकत्वयोरिति । सङ्ख्येयपरत्वे तु बहुवचनं स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
द्वित्वैकत्वयोरेते स्तः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!