॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|15
SK 2659
1|4|15
नः क्ये  
SK 2659
सूत्रच्छेद:
नः - प्रथमैकवचनम् , क्ये - सप्तम्येकवचनम्
अनुवृत्ति:
पदम्  [1|4|14] - प्रथमैकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
न: क्ये पदम्
सूत्रार्थ:
नकारान्तशब्दस्य "क्य" शब्दे परे पदसंज्ञा भवति ।
नकारान्तशब्दाः (यथा राजन्, चर्मन् एतादृशाः) "क्य" इत्यनेन प्रारभ्यमाणे प्रत्यये परे पदसंज्ञकाः भवन्ति ।

यथा - "राजानम् आत्मानम् इच्छति" अस्मिन् अर्थे राजन्-शब्दस्य सुपः आत्मनः क्यच् 3|1|8 इत्यनेन क्यच्-प्रत्ययः भवति । अयम् क्यच्-प्रत्ययः "क्य" इत्यनेन आरभते, अतः अस्मिन् प्रत्यये परे राजन्-शब्दस्य पदसंज्ञा भवति । पदसंज्ञायां प्राप्तायाम् नः लोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन राजन्-इत्यस्य नकारस्य लोपः भवति । अग्रे "राज + क्यच्" इति स्थिते क्यचि च 7|4|33 इत्यनेन ईत्वे कृते "राजीय" इति धातुः सिद्ध्यति ।

ज्ञातव्यम् - क्यच्, क्यङ्, क्यष् एते त्रयः प्रत्ययाः क्य-इत्यनेन आरभन्ते । एते सर्वे प्रत्ययाः सुपः आत्मनः क्यच् 3|1|8, कर्तुः क्यङ् सलोपश्च 3|1|11 तथा लोहितादिडाज्भ्यः क्यष् 3|1|13 एतैः सूत्रैः सुबन्तेभ्यः एव प्रोक्ताः सन्ति । अतः एतेषु परेषु अङ्गस्य आदौ एव पदसंज्ञा भवति । एवमस्ति चेत् अनेन सूत्रेण तेषां पुनः या पदसंज्ञा उक्ता अस्ति, सा सिद्धे सति आरम्भः नियमार्थः अनया परिभाषया नियमार्थः अस्ति । इत्युक्ते, केवलम् नकारान्तशब्दानाम् एव क्य-परे पदसंज्ञा भवेत्, अन्येषाम् शब्दानाम् न भवेत् - इति अर्थः अत्र आपतति । यथा - "वाचम् आत्मानम् इच्छति" अस्मिन् अर्थे "वाच्" शब्दस्य क्यच्-प्रत्यये कृते अङ्गस्य पदसंज्ञा न करणीया । अतः "वाच् + क्यच्" इत्यत्र चोः कुः 8|2|31 इत्यनेन कुत्वं न विधीयते, अतः "वाच्य" एषः एव धातुः सिद्ध्यति ।
One-line meaning in English
A नकारान्त word gets the term "पद" when followed by a प्रत्यय that begins with क्य.
काशिकावृत्तिः
क्ये इति क्यच् क्यङ् क्यशां सामान्यग्रहनम्। नान्तं शब्दरूपं क्ये परतः पदसंज्ञं भवति। क्यच् राजीयति। क्यङ् राजायते। क्यश् चर्मायति, चर्मायते। सिद्धे सत्यारम्भो नियमार्थः। नान्तम् एव क्ये परतः पदसम्ंज्ञम् भवति, न अन्यत्। वाच्यति। स्रुच्यति।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
क्य इति क्यच्क्यष्क्यङमिति। ठ्संज्ञायां समजऽ इत्यस्य तु क्यपोग्रहणं न भवति; प्रयोजनभावात्। न तावन्मन्येत्यत्र नलोपः प्रयोजनम्, सत्यपि पदत्वेऽप्रातिपदिकत्वात्;सुबन्तमित्यनुवृतेर्वा क्यपि विध्यर्थमेतन्न भवति। ननु क्यजादयः सुबन्ताद्धिधीयन्त इति प्रत्ययलक्षणेन सिद्धं पदत्वम्, नार्थ एतेन तत्राह-सिद्धे सतीति। नान्तमेवेति। क्य एव नान्तमित्येवं तु विपरीतनियमो न भवति; ठ्न ङसिम्बुद्ध्योःऽ इति निषेधात्। वाच्यतीति। अत्र पदत्वाभावात्कुत्वजश्त्वे न भवतः ये तु गोसमानाक्षरनान्तादेव क्यज् भवति, नान्येभ्य इत्याहुः, तेषां क्यङ्क्यषोरेव नियमस्य व्यावर्त्यं प्रदर्शनीयम्-तपस्यतीत्यादौ॥
सिद्धान्तकौमुदी
क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता । नलोपः । राजीयति । प्रत्ययोत्तरपदयोश्च (कौमुदी-1373) । त्वद्यति । मद्यति । एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति । हलि च (कौमुदी-354) । गीर्यति । पूर्यति । धातोरित्येव । नेह । दिवमिच्छति । दिव्यति । इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । रीङृतः (कौमुदी-1234) । कर्त्रीयति । क्यच्व्योश्च (कौमुदी-2119) । गर्गीयति । वाच्यति । अकृत्सार्व-- (कौमुदी-2298) इति दीर्घः । कवीयति । समिध्यति ॥
नः क्ये। नकारादकार उच्चारणार्थः। `सुप्तिङन्त`मित्यतः सुबन्तं पदमित्यनुवर्तते। सुबन्तं नकारेण विशेष्यते। तदन्तविधिः। नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते। सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम्। क्यग्रहणेन क्यच्क्यङोर्ग्रहणं न तु क्यषः, `लोहितडाज्भ्यः क्यष्वचन`मिति वक्ष्यमाणतया हलन्तात्क्यषोऽभावात्। तदाह क्यचि क्यङि चेत्यादिना। ननु गव्यांचकारेत्यत्र आम आर्द्धधातुकावादेशसंपन्नवकारस्य यकारलोपं प्रति निमित्तत्वाऽसंभवादिति भावः। गव्यितेति। इटि अतो लोपः। राजीयतीत्यत्र आह-- नलोप इति। राजानमिच्छतीत्यर्थे क्यचि राजन् य ति इतिस्थिते `नः क्ये` इति पदत्वान्नकारस्य लोप इत्यर्थः। कृते नलोपे `क्यचि चे`त्यकारस्य ईत्त्वमिति मत्वाह-- राजीयतीति। न च ईत्त्वे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं, `नलोपः सुप्स्वरे`ति नियमादित्यलम्। ननु त्वामात्मन इच्छति, मामात्मन इच्छतीत्यत्र युष्मदस्मद्भ्यां क्यचि धात्ववयवत्वात्सुपो लुकि प्रत्ययलक्षणाऽभावात् `त्वमावेकवचने` इति कथं त्वमौ स्यातां, विभक्तौ परत एव तद्विधानादित्यत आह-- प्रत्ययोत्तरपदयोश्चेति। सुपो लुका लुप्तत्वेऽपि क्यचमादाय मपर्यन्तस्य त्वमाविति भावः। ननु युष्मानात्मन इच्छति, अस्मानात्मन इच्छति- युष्मद्यति अस्मद्यतीत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह-- एकार्थयोरित्येवेति। प्रत्ययोत्तरपदयोश्चे`त्यत्र `त्वमावेकवचने` इति सूत्रमनुवृत्तम्। एकवचनशब्दश्च न रूढः, किंतु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्राक्। तथा च युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाऽभावान्न त्वमाविति भावः। गिरमात्मन इच्छति, पुरमात्मन इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह-- हलि चेति। `उपधादीर्घ` इति शेषः। ननु दिवमिच्छति दिव्यतीत्यत्रापि `हलि चे`ति दीर्घः स्यादित्यत आह-- धातोरित्येवेति। `हलि चे`ति सूत्रे `सिपि धातो`रित्यस्तदनुवृत्तेरिति भावः। दिव्यतीति। दिव्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति भावः। इहेति। `हलि चे`ति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः। कुत इत्यत आह-- पुर्गिरोः साम्यादिति। `गृ? शब्दे` `पृ? पालनपूरणयोः` इत्याभ्यां क्विपि `ऋत इद्धातोटरिति `उदोष्ठ�पूर्वस्ये`ति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य च निष्पत्तेरिति भावः। प्रामादिक एवेति। दिव्शब्दस्याऽव्युत्पन्नप्रातिपदिकत्वान्न धातुत्वम्। दिव्धातोः क्विबन्तादूठि द्यूशब्दाच्च क्यचि `द्यूयती`त्येव उचितम्। विचि तु लघुपधगूणे `लोपो व्यो`रिति लोपे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः। अदस्यतीति। अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात्क्यचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाऽभावान्न त्यदाद्यत्वम्। सान्तत्वान्नोत्त्वमत्त्वे। `नः क्ये` इति नियमेन पदान्तत्वाऽभावान्न सस्य रूत्वमिति भावः। कर्तृशब्दात्क्यचि विशेषमाह-- रीङृत इति। गार्ग्यशब्दात्क्यचि विशेषमाह-- क्यच्व्योश्चेति। आपत्यस्य यञो यकारस्य लोप इति भावः। कृते यलोपे `क्यचि चे`त्यकारस्य ईत्त्वं मत्वाह-- गार्गीयतीति। वात्सीयतीति। वात्स्यशब्दात्क्यचि पूर्ववत्। कविशब्दात्क्यचि विशेषमाह-- अकृत्सार्वेति। वाच्यतीति। वाच्शब्दात्क्यचि `नः क्ये` इति नियमेन पदत्वाऽभावान्न कुत्वम्। `वचिस्वपी`ति संप्रसारणं तु न, `धातोः कार्यमुच्यमानं धातुविहितप्रत्यये एवे`ति नियमात्। समिध्यतीति। समिध्शब्दात्क्यचि `नः क्ये` इति नियमेन पदत्वाऽभावान्न जश्त्वम्। लुटस्तासि इटिसमिध्य इता इति स्थिते `यस्य हलः` इति नित्ये यलोपे प्राप्ते--
नः क्ये। `लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणी`ति वक्ष्यमाणतया हलन्तात्क्यष् दुर्लभ इत्यभिप्रेत्याह-- क्यचि क्यङीति। एवं चेह `क्यषी` त्यपि कैश्चिदुक्तं तदुपेक्ष्यम्। `यस्य हलः` इति लोपमाशङ्क्याह-- सन्निपातपरिभाषयेति। यकारे परे वान्तादेशविधानाद्वकारो यलोपस्य निमित्तं न भवतीति भावः। [गव्यीति। अत्रान्तर्वर्तिविभक्त्या पदत्वाल्लोपो दुवारः, स्यादित्याशङ्क्याह-- अपदान्तत्वादिति। इदं च `समाधानस्य समाधानान्तराऽदूषकत्वा`दिति न्यायेन समाधिसौकर्यादुक्तम्। वस्तुतस्तु उक्तरीत्या शङ्कैव नेति बोध्यम्। अन्ये तु वार्तिक एव प्रश्लेष इति द्वितीयपक्षमाश्रित्येदं,सूत्रे वकारप्रश्लेषे लोपाऽसंभवात्, `न हि कार्यी`ति न्यायात्। न च वलीति निमित्तत्वेनाऽऽश्रयणात्तत्रापि लोपो भवत्येव, अन्यथा वलीत्येव कुर्यादिति वाच्यम्, वकारे परतोय कारलोपे तस्य निमित्तत्वेनाऽऽश्रयणावश्यकत्वादिति द्वितीयकल्प एव युक्त इत्याहुः। राजीयतीति। `क्यचि चे`त्यवर्णस्य ईत्वे कर्तव्ये `पूर्वत्रासिद्ध`मिति नलोपोऽसिद्धो न भवति, `नलोपः सुप्स्वरे` ति नियमात्। यद्यपि नियमसूत्राणां निषेधमुखेन प्रवृत्तिरिति `नलोपः सुप्स्वरे`ति सूत्रं राज#ईयतीत्यादिषु पठनीयम्, `राजभ्या`मित्यादौ तु `पूर्वत्रासिद्ध`मिति नलसोपस्याऽसिद्धत्वेन दीर्घाद्यभावसिद्धेस्तथापि `विधिमुखेन प्रवृत्ति`रिति पक्षाभ्युपगमेन हलन्तेषु राजभ्यां राजभिरित्यत्रैव पठितमिति ज्ञेयम्। नच विधिमुखप्रवृत्तिपक्षो निरालम्ब एवेति वाच्यम्, `अनुपराभ्यां कृञः` इति सूत्रस्थभाष्यग्रन्थपर्यालोपचनया तत्पक्षावगमात्। यत्तु `नलोपः सुप्स्वरे`ति सूत्रे मनोरमायामुक्तं--`नियमसूत्राणां विधिमुखेन प्रवृत्तिः, सामान्यशास्त्रतात्पर्यसङ्कोचकता चे`ति पक्षस्य `द्युद्भ्यो लुङी`ति सूत्रे भाष्यकृता ध्वनितत्वा`दिति। तच्चिन्त्यम्। तत्सूत्रस्य भाष्यकारैरस्पृष्टत्वात्। केचित्तु `द्युद्द्भ्योलुङीतिसूत्रम्`। परस्मैपदप्रकरणमित्यर्थः। तत्र हि `अनुपराभ्या`मिति सूत्रं वर्तत इति तत्सूत्रे यद्ध्वनितं तत्तु परस्मैपदप्रकरणे ध्वनितमिति भवति। यद्वा `अनुपराभ्यां कृञः` इत्यत्र हि भाष्यकृता `द्युद्भ्यो लुङी`ति परामृष्टम्। तथा च `द्युद्भ्यो लुङी`ति सूत्रं य�स्मस्तत् द्युद्भ्योलुङीतिसूत्रम् = `अनुपराभ्यां कृञः` इति सूत्रमित्यर्थ इत्येवं कुकविकृतिवत्कथंचित्स्थितस्य गतिः समर्थनीयेत्याहुः। पूर्गिरोः साम्यादिति। गृ? शब्दे, पृ? पालनपूरणयोरित्येताभ्यां क्विपि `ऋत इद्धातोः`, `उदोष्ठ�पूर्वस्ये`ति प्रवृत्तेरिति भावः। प्रामादिक एवेति। दिवु धातोः क्विपि तु `द्यू`रिति स्यात्। ततः क्यचि तु द्यूयतीति भवति। क्विपं विहाय विचि कृते तूपधागुणो वलोपश्च स्यात्। ततः क्यचि तु देयतीति भवति। तथा च `हलि चे` ति सूत्रे वृत्तावपि `दातोरित्येव, नेह दिवमिच्छति दिव्यती`त्येवोक्तमिति भावः। आपत्ययकारस्य लोपं स्मारयति--क्यच्व्योश्चेति। `नः क्ये` इति नियमेन पदत्वाऽभावात्कुत्वं नेत्याह-- वाच्यतीति। एवं `समिध्यती` त्यत्र जश्त्वं नेति बोध्यम्। `मान्ताव्ययेभ्यः प्रतिषेधः` इति वार्तिकस्य यथा श्रुतव्याख्याने पुत्रमिच्छतीत्यत्रापि न स्यात्। पुत्रौ पुत्रान् वा इच्छतीत्यादावेव स्यात्, अतो व्याचष्टे-- मान्तप्रकृतिकादिति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
नः क्ये। किमर्थमिदमुच्यते न सुबन्तं पदमित्येव सिद्धम्? नियमार्थोऽयमारम्भः । नान्तमेव क्ये पदसंज्ञं भवति नान्यत् । क्व मा भूत् ? वाच्यति स्रुच्यति ।। 15 ।।