Page loading... Please wait.
1|4|103 - सुपः
॥ तस्मै पाणिनये नमः ॥
1|4|103
SK 185
सुपः   🔊
सूत्रच्छेदः
सुपः (षष्ठ्येकवचनम्)
अनुवृत्तिः
त्रीणि  1|4|101 (प्रथमाबहुवचनम्) , त्रीणि  1|4|101 (प्रथमाबहुवचनम्) , एकवचनद्विवचनबहुवचनान्येकशः  1|4|101 (प्रथमाबहुवचनम्)
अधिकारः
आकडारात् एका संज्ञा  1|4|1
सम्पूर्णसूत्रम्
त्रीणि त्रीणि सुपः एकशः एकवचन-द्विवचन-बहुवचनानि
सूत्रार्थः
त्रयाणाम्-समूहरूपेण प्रोक्ताः सुप्-प्रत्ययाः क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति ।
स्वौजस्... 4|1|2 अनेन सूत्रेण एकविंशतिः सुप्-प्रत्ययाः पाठ्यन्ते । तेषाम् अनेन सूत्रेण अग्रे क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञाः विधीयन्ते । ताः एतादृशाः -

[प्रथमा]
सुँ - एकवचनम्
औ - द्विवचनम्
जस् - बहुवचनम्

[द्वितीया]
अम् - एकवचनम्
औट् - द्विवचनम्
शस् - बहुवचनम्

[तृतीया]
टा - एकवचनम्
भ्याम् - द्विवचनम्
भिस् - बहुवचनम्

[चतुर्थी]
ङे - एकवचनम्
भ्याम् - द्विवचनम्
भ्यस् - बहुवचनम्

[पञ्चमी]
ङसिँ - एकवचनम्
भ्याम् - द्विवचनम्
भ्यस् - बहुवचनम्

[षष्ठी]
ङस् - एकवचनम्
ओस् - द्विवचनम्
आम् - बहुवचनम्

[सप्तमी]
ङि - एकवचनम्
ओस् - द्विवचनम्
सुप् - बहुवचनम्

एकवचन-द्विवचन-बहुवचन-संज्ञायाः प्रयोगः एतादृशेषु सूत्रेषु दृश्यते - द्वेकयोर्द्विवचनैकवचने 1|4|22, बहुषु बहुवचनम् 1|4|21, एकवचनं सम्बुद्धिः 2|3|49 आदयः ।

ज्ञातव्यम् - उपरिनिर्दिष्टानां त्रिकुटानाम् प्रथमा-द्वितीया-आदीनि नामानि पाणिनेः प्राक् विद्यामानैः वैयाकरणैः दत्ताः सन्ति । अष्टाध्याय्यां केनापि विशिष्टेन सूत्रेण एताः संज्ञाः न पाठिताः । परन्तु आचार्येण एतानि नामानि स्वीक्रियन्ते, भिन्नेषु सूत्रेषु प्रयुज्यन्ते च । यथा - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा 2|3|46, कर्मणि द्वितीया 2|3|2, कर्तृकरणयोस्तृतीया 2|3|18 आदयः ।
One-line meaning in English
The सुप्-प्रत्ययाः are sequentially referred as एकवचन, द्विवचन and बहुवचन.
काशिकावृत्तिः
Text Unavailable. Please use feedback link below to provide the text if you have.
सुविति प्रत्याहारग्रहणम्। प्रथमैकवचनात् सुशब्दादारभ्य सप्तमीबहुचनस्य सुपः पकारेण। अथ कपः पकारेणायं प्रत्याहार कस्मान्न विज्ञायते? सप्तमीबहुवचनस्य पकारस्य वैयथ्र्यप्रसङ्गात्। स ह्रनुदात्तार्थः स्यात्? प्रत्याहारार्थो वा? तत्रानुदात्तार्थो न भवति; अनुदात्तस्य सुपत्वादेव सिद्धत्वात्। तत्र यदि प्रत्याहारार्थोऽपि न स्यात् तदास्यापार्थकत्वमेव स्यात्। तस्मात् तेनैवायं प्रत्याहारो विज्ञायते, न तु कपः पकारेण; स्वरविधौ तस्य चरितार्थत्वात्॥
सुबिति प्रत्याहारग्रहणं प्रथमैकवचनादारभ्य सुपः पकारात्। कपस्तु पकारेण न भवति, प्राग्दिशीयानां विभक्तिसंज्ञाविधानात्; अन्यथा विभक्तिसंज्ञायामपि इदमेव सुब्ग्रहणमनुवर्तत इति सुप्त्वादेव सिद्धेऽनर्थकं तत्स्यात्। तिङं त्रिकेष्विति। किमर्थं पुनरिदमुक्तम्? इह कश्चिन्मन्यते--सूत्रे चकारस्याकरणात्संज्ञामात्रमिह सम्बध्यते, नान्यत्किञ्चिदिति तत्र द्दष्टान्तप्रदर्शनेन त्रीणित्रीण्येकश इत्यनयोरनुवृत्तिं यथा तिङं वचनसंज्ञा विहिता तथैव सुपामपीत्यर्थः। तथा च स्वयं च शब्दं पठित्वा व्याचष्टे--सुपश्चेत्यादि॥
सिद्धान्तकौमुदी
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥
सुपः - सुपः । सुप् प्रत्याहारः, षष्ठएकवचनम् ।तान्येकवचनद्विवचनबहुवचनान्येकशः॑ इति सूत्रं तानीतिवर्जमनुवर्तते । एकश इति । एकैकमित्यर्थःसङ्ख्यैकवचनाच्च वीप्सायाम् इति शश् । शसैव वीप्साया अबिधानात् "नित्यवीप्सयोः" इति द्वित्वं न । तच्चसङ्ख्यैकवचनाच्चे॑ति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते ।तिङस्त्रीणि त्रीणी॑त्यतःत्रीणि त्रीणि॑त्यनुवर्तते । तदाह — सुपस्त्रीणीत्यादिना ।
सुपः - सुपः । अत्रतिङस्त्रीणि त्रीणि॑ — इति सूत्रात्त्रीणि त्रीणी॑ति पदं,तान्येकवचने॑ति सूत्रं चतानी॑ति पदं विहायानुवर्तत इति व्याचष्टे — सुपस्त्रीणि त्रीणित्यादिना । एकश इति । एकैकमित्यर्थः । सङ्ख्यैकवचनाच्चे॑ति वीप्सायां प्रथमान्ताच्छस् ।
लघुसिद्धान्तकौमुदी
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.