Page loading... Please wait.
1|3|9 - तस्य लोपः
॥ तस्मै पाणिनये नम: ॥
1|3|9
SK 62
तस्य लोपः  
सूत्रच्छेद:
तस्य - षष्ठ्येकवचनम् , लोपः - प्रथमैकवचनम्
अनुवृत्ति:
इत्  [1|3|2] (षष्ठ्या विपरिणम्यते) - षष्ठ्येकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
तस्य इत: लोप:
सूत्रार्थ:
इत्-वर्णस्य लोपः भवति ।
उपदेशेऽजनुनासिक इत् 1|3|2 अस्मात् सूत्रात् लशक्वतद्धिते 1|3|8 इति यावत् सप्तसूत्रेषु इत्संज्ञायाः व्याख्या दीयते । अस्मिन् सूत्रे इत्संज्ञकवर्णस्य दृश्यरूपेण किम् भवति तदुच्यते । अनेन सूत्रेण प्रक्रियायां इत्संज्ञकवर्णानां नित्यं लोपः भवति ।

किं नाम लोपः ? अदर्शनं लोपः 1|1|60 । अतः लोपः इत्युक्ते नाशः / निष्कासनम् इति न । केवलं अदर्शनम् । इत्-वर्णाः तत्रैव सन्ति, केवलं न दृश्यन्ते । अतः तेषां प्रयोगः न भवति । इत्संज्ञालोपात् परं ये वर्णाः अवशिष्यन्ते, तेषामेव प्रयोगः भवति ।
यथा - "क्त्वा" प्रत्यये ककारस्य "लशक्वतद्धिते" अनेन इत्संज्ञा भवति, "तस्य लोपः" अनेन लोपः भवति, अतः "त्वा" अस्यैव प्रयोगः भवति । भू + क्त्वा = भू + त्वा = भूत्वा ।

अन्यानि उदाहरणानि
1) शप् - शकारपकारयोः इत्संज्ञा, लोपः । "अ" अवशिष्यते ।
2) नुम् - उकारमकारयोः इत्संज्ञा, लोपः । "न्" अवशिष्यते ।
3) दृशिर् - "इर्" समुहस्य इत्संज्ञा, लोपः । "दृश्" अवशिष्यते ।
4) ण्वुल् - णकारलकारयोः इत्संज्ञा, लोपः । "वु" अवशिष्यते ।

इत्संज्ञाप्रकरणस्य विषये विस्तारेण अस्मिन् लेखे विवेचनं कृतमस्ति, तदपि द्रष्टव्यम् ।
One-line meaning in English
The इत् letter is deleted during प्रक्रिया.
काशिकावृत्तिः
तस्य इत्संज्ञकस्य लोपो भवति. तथा च एव उदाहृतम्. तस्य ग्रहणं सर्वलोपार्थम्, अलो ऽन्त्यस्य 1|1|52 मा भूतादिर् ञिटुडवः 1|3|5 इति.
अथ किमर्थम् `तस्य` इत्युच्यते, यवातेत्संज्ञायाः प्रकृतत्वाद्यस्येत्संज्ञा विहिता सामथ्र्यात्तस्यैव लोपो भविष्यतीति आह-- `तस्यग्रहणम्` इत्यादि। कः पुनरित्संज्ञको योऽलोन्त्यस्य निवृत्त्यर्थं तस्यग्रहणं प्रयोजनतीत्याह-- `आदिर्ञिटुडवः` इति। असति तस्यग्रहणे, एषामपि ञिप्रभृतीनाम् `अलोऽन्त्यस्य` 1|1|51 इति वचनादन्त्यस्य लोपः स्यात्। तस्यग्रहणेन तु प्रकृत इत्संज्ञके सन्निधापिते सर्वस्य लोपो भवति, नान्त्यस्य; अन्यथा हि तस्यग्रहणमनर्थकं स्यात्। यदि तु `नानर्थकेऽलोऽन्त्यविधिः` (व्या।प।62) इत्येषा परिभाषाऽ‌ऽश्रीयते, तदा तस्यग्रहणमकर्तुं शक्यते। तत् क्रियते विस्पष्टार्थम्।
तस्य ग्रहणं किमर्थम्, यावताऽभावो लोपः, स च कस्यचिदेव भवति,तत्र प्रकरणादित्संज्ञकस्यैव लोपो भविष्यतीत्यत आह-तस्य ग्रहणमित्यादि। आदिर्ञिटुअडव इति । असति तस्य ग्रहणे येऽनेकाल इत्संज्ञका ञिप्रभृतयस्तेष्वलोऽन्त्यस्य लोपः स्यात्, तस्य ग्रहणसामर्थ्यातु सर्वस्य भविष्यति। एतच्च ठ्नानर्थकेऽलोन्त्यस्य विधीःऽ इत्यनाश्रित्योक्तम्॥
सिद्धान्तकौमुदी
तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ।
तस्य लोपः - एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमितीत्संज्ञायां लोपमाशङ्कितुमाह — तस्य लोपः । इत्संज्ञाप्रकरणान्ते इदं सूत्रम् । तत्र तच्छब्दः सन्निहितमितं परामृशति । तदाह — तस्येति इति । इत्यनेन सूत्रेण यवयोर्लोपो न शङ्कनीय इत्यर्थः । कुत इत्यत आह — उच्चारणेति । यद्यत्र यवयोर्लोपः स्यात्तर्हि तयोः सूत्रेऽनुच्चारणमेव स्यात्,प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर॑मिति न्यायादिति भावः । तर्हि किमनयोरित्संज्ञयेत्यत आह — एवंचेति । उक्तप्रकारेण लोपाऽभावे सतीत्संज्ञापीह यकारे वकारे च न भवति, फलाऽभावादित्यर्थः । क्रमेणोदाहस्ति — हरय इत्यादिना । हरे — ए,विष्णो-ए, नै-अकः, पौ-अक इति स्थितेषु एकारादीनां क्रमादयादयः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
तस्येतो लोपः स्यात्। णादयोऽणाद्यर्थाः।
महाभाष्यम्
तस्य लोपः तस्यग्रहणं किमर्थम् ?। इत्संज्ञकः प्रतिनिर्दिश्यते । नैतदस्ति प्रयोजनम् । प्रकृतमिदिति वर्तते । क्व प्रकृतम् ?। उपदेशेऽजनुनासिक इद् 1|3|2 इति । तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः । अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा ‐ उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम् । देवदत्तमिति गम्यते । देवदत्तस्य गावोऽश्वा हिरण्यं च, आढ्यो वैधेयः । देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थाद् द्वितीयानिर्दिष्टं, प्रथमानिर्दिष्टं च भवति । एवमिहापि पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति । इदं तर्हि प्रयोजनम् । येऽनेकाल इत्संज्ञास्तेषां लोपः सर्वादेशो यथा स्यात् । अथ क्रियमाणेपि वै तस्यग्रहणे कथमिव लोपः सर्वादेशो लभ्यः । लभ्य इत्याह । कुतः ?। वचनप्रामाण्यात् । तस्यग्रहणसार्मथ्यात् । इतो लोपे णल्क्त्वानिष्ठासूपसंख्यानमित्प्रतिषेधात् ।। 1 ।। इतो लोपे णत्क्त्वानिष्ठासूपसंख्यानं कर्तव्यम् । णल् ‐ अहं पपच । क्त्वा ‐ देवित्वा सेवित्वा । निष्ठा ‐ शयितः शयितवान् । किं पुनः कारणं न सिद्ध्यति ? इत्प्रतिषेधात् । प्रतिषिध्यतेऽत्रेत्संज्ञा । णलुत्तमो णिद्वा भवति । क्त्वा सेण्न किद्भवति । निष्ठा सेण्न किद्भवतीति । सिद्धं तु णलादीनां ग्रहणप्रतिषेधात् ।। 2 ।। सिद्धमेतत् । कथम् ? णलादीनां ग्रहणानि प्रतिषिध्यन्ते । णलुत्तमो वा णिद्ग्रहणेन गृह्यते । क्त्वा सेण्न किद्ग्रहणेन गृह्यते । निष्ठा सेण्न किद्ग्रहणेन गृह्यत इति । निर्दिष्टलोपाद्वा ।। 3 ।। निर्दिष्टलोपाद्वा सिद्धमेतत् । अथवा निर्दिष्टस्याऽयं लोपः क्रियते तस्मात्सिद्धमेतत् । तत्र तुस्मानां प्रतिषेधः ।। 4 ।। तत्र तुस्मानां प्रतिषेधो वक्तव्यः । तस्मात् तस्मिन् । यस्मात् यस्मिन् । वृक्षाः प्लक्षाः । अचिनवम्। असुनवम्। अकरवम् । न वोच्चारणसार्मथ्यात् ।। 5 ।। न वा वक्तव्यः । किं कारणम् ? उच्चारणसार्मथ्यादत्र लोपो न भविष्यति । अनुबन्धलोपे भावाभावयोर्विप्रतिषेधादप्रसिद्धिः ।। 6 ।। अनुबन्धलोपे भावाभावयोर्विरोधादप्रसिद्धिः । न ज्ञायते केनाऽभिप्रायेण प्रसजति, केन निवृत्तिं करोतीति । सिद्धं त्वपवादन्यायेन ।। 7 ।। सिद्धमेतत् । कथम् ?। अपवादन्यायेन ।। किं पुनरिह तथा यथोत्सर्गापवादौ ?। भावो हि कार्यार्थोऽनन्यार्थो लोपः ।। 8 ।। कार्यं करिष्यामीत्यनुबन्ध आसज्यते, कार्यादन्यन्मा भूदिति लोपः । अथ यस्यानुबन्ध आसज्यते किं स तस्यैकान्तो भवत्याहोस्विदनेकान्तः ?। एकान्तस्तत्रोपलब्धेः ।। 8 ।। एकान्त इत्याह । कुतः ?। तत्रोपलब्धेः । तत्रस्थो ह्यसावुपलभ्यते । तद्यथा ‐ वृक्षस्था शाखा वृक्षैकान्त उपलभ्यते । तत्राऽसरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोऽनाकारान्तत्वात् ।। 9 ।। तत्राऽसरूपविधौ दोषो भवति ‐ कर्मण्यण् 3|2|1 आतोऽनुपसर्गे कः (3) इति कविषयेऽणपि प्राप्नोति। ।। सर्वादेशे च दोषो भवति ‐ दिव औत् औत्सर्वादेशः प्राप्नोति ।। दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः ‐ अदाब्दैपौःथ्द्य;ति वक्तव्यम् । किं पुनः कारणं न सिद्ध्यति ?। अनाकारान्तत्वात् । ननु चात्त्वे कृते भविष्यति । तद्ध्यात्त्वं न प्राप्नोति । किं कारणम् ? अनेजन्तत्वात् ।। अस्तु तर्ह्यनेकान्तः । अनेकान्ते वृत्तिविशेषः ।। 10 ।। यद्यनेकान्तो वृत्तिविशेषो न सिद्ध्यति । किति णितीति कार्याणि न सिद्ध्यन्ति । किं हि स तस्येद्भवति, येनेत्कृतं स्यात् ?। एवं तर्ह्यनन्तरः । अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतप्रसङ्गः ।। 11 ।। अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतं प्राप्नोति । वुञ्ञ्छण् । सिद्धं तु व्यवसितपाठात् ।। 12 ।। सिद्धमेतत् । कथम् ?। व्यवसितपाठः कर्तव्यः । वुञ्ञ् छण् ।। स चावश्यं पाठः कर्तव्यः । इतरथा ह्येकान्तेऽपि सन्देहः ।। 13 ।। अक्रियमाणे व्यवसितपाठे एकान्तेऽपि सन्देहः स्यात् । तत्र न ज्ञायते किमयं पूर्वस्य भवत्याहोस्वित्परस्येति ।। सन्देहमात्रमेतद्भवति, सर्वसन्देहेषु चेदमुपतिष्ठते व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति, पूर्वस्येति व्याख्यास्यामः । वृत्ताद्वा ।। 14 ।। वृत्ताद्वा सिद्धमेतत् । वृद्धिमन्तमाद्युदात्तं दृष्ट्वा ञ्ञिदिति व्यवसेयम् । अन्तोदात्तं दृष्ट्वा किदिति। । युक्तं पुनर्यद्वृत्तनिमित्तको नामाऽनुबन्धः स्यान्नाऽनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् । वृत्तनिमित्तक एवानुबन्धः । वृत्तज्ञो ह्याचार्योऽनुबन्धानासजति । उभयमिदमनुबन्धेषूक्तमेकान्ता अनेकान्ता इति, किमत्र न्याय्यम् ?। एकान्ता इत्येव न्याय्यम् । कुत एतत् ? अत्र हि हेतुर्व्यपदिष्टो यच्च नाम सहेतुकं तन्न्याय्यम् । ननु चोक्तं तत्राऽसरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोऽनाकारान्तत्वादिति । असरूपविधौ तावन्न दोषः । आचार्यप्रवृत्तिर्ज्ञापयति ‐ नानुबन्धकृतमसारूप्यं भवतीति, यदयं ददातिदधात्योर्विभाषा 3|1|13 इति शास्ति ।। यदप्युक्तम् ‐ सर्वादेश इति । तत्राप्याचार्यप्रवृत्तिर्ज्ञापयति ‐ नानुबन्धकृतमनेकाल्त्वं भवतीति, यदयं शित्सर्वस्य 1|1|55 इत्याह ।। यदप्युक्तम् ‐ दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः इति । न कर्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति नानुबन्धकृतमनेजन्तत्वं भवतीति, यदयमुदीचां माङो व्यतीहारे 3|4|19 इति मेङः सानुबन्धकस्याऽऽत्त्वभूतस्य ग्रहणं करोति ।। 9 ।।