Page loading... Please wait.
1|3|89 - न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः
॥ तस्मै पाणिनये नम: ॥
1|3|89
SK 2755
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः  
सूत्रच्छेद:
न - अव्ययम् , पा-दमि-आङ्यम-आङ्यस-परिमुह-रुचि-नृति-वद-वस: - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूर्वेण योगद्वयेन कर्त्रभिप्रयक्रियाफलविवक्षायाम् आत्मनेपदापवादः परस्मैपदं विहितम्। तस्य प्रतिषेधो ऽयमुच्यते। यत् कर्त्रभिप्रायविषयम् आत्मनेपदं तदवस्थितम् एव, न प्रतिषिध्यते। पा दमि अङ्यम आङ्यस परिमुह रुचि नृति वद वस इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं न भवति। णिचश्च 1|3|74 इत्यात्मनेपदं भवति। तत्र पिवतिर् निगरणार्थः। दमिप्रभृतयश्चित्तवत्कर्तृकाः। नृतिश्चलनार्थो ऽपि। एषां परस्मैपदं न भवति। पा पाययते। दमि दमयते। आङ्यम् आयामयते। यमो ऽपरिवेषणे इति मित्संज्ञा प्रतिषिध्यते। अङ्यस आयासयते। परिमुह परिमोहयते। रुचि रोचयते। नृति नर्तयते। वद वादयते। वस वासयते। पादिषु धेट उपसङ्ख्यानम्। धापयेते शिशुमेकं समीची।
`पा` इति `लुग्विकरणालुग्विकरणायोरलुग्विकरणस्यैव ग्रहणम्` (व्या।प।50) इत्यनेन `पा पाने` (धातुपाठः-925) इत्यस्यैव ग्रहणम्, न `पा रक्षणे` (धातुपाठः-1056)इत्येतस्य। `दमु उपशमे` (धातुपाठः-1203), `यम उपरमे` (धातुपाठः-984), `यसु प्रयत्ने` (धातुपाठः-1210), आङपूर्वावेतौ। `मुह वैचित्ये` (धातुपाठः- 1198), परिपूर्वः, `रुच दीप्तौ` (745), `नृती गात्रविक्षेपे` (धातुपाठः-1116), `वद व्यक्तायां वाचि` (धातुपाठः-1009) `वस निवासे` (धातुपाठः-1005), आच्छादनार्थस्य वसेग्र्रहणं पूर्वोक्तादेव हेतोर्न भवति। `पूर्वेण योगद्वयेन` इति। अन्तरेणेत्यर्थः। `नृतिश्चलनार्थोऽपि` इति। अपिशब्दाच्चितवत्कर्त्तृकार्थश्च। `पाययते` इति। `शाच्छासाह्वाव्यावेपां युक्` 7|3|37 । पातेस्त्वकर्मकत्वविवक्षायां परस्मैपदं भवति। `पालयति` इति। `पातेलुग्वक्तव्यः` (वा।2;7, 3।37) इत्युपसंख्यानाल्लुगागमः। `दमयते` इति। पूर्ववत् `मितां ह्यस्वः` 6|4|92 । `आयामयते` इति। ननु चात्रपिमित्वे सति ह्यस्वेन भवितव्यमित्यत आह-- `यमोऽपरिवेषणे` इति। तत्र हि `न कम्यमिचमाम्` (ग।सू।धातुपाठः-817)इत्यतो नेत्यनुवर्तते। `आङ`इति। ङिद्विशिष्टस्याकारस्योपबदानमुपसर्गप्रतिपत्त्यर्थम्। तेनोपसर्गप्रतिरूपको य आकारस्तस्य ग्रहणं न भवति।`पादिषु धेट उपसंख्यानम्` इति। पादिष्विति विषयसप्तमी। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। धेटः पादिविषयस्य परस्मैपदप्रतिषेधस्य प्रतिपादनं कत्र्तव्यम्। योऽयं पादिविषयः परस्मैपदप्रतिषेधः,स धेटोऽपि भवतीत्यर्थः। तत्रेदं प्रतिपादनम्- नेति योगविभागः क्रियते, तेन धेटोऽपि प्रतिषेधो भविष्यति। यद्येवम्, नेत्यनेनैव सिद्धत्वात् पादीनां ग्रहणमनर्थकम्? नानर्थकम्; पूर्वयोगस्यासर्वविषयात्वज्ञापनार्थत्वात्। `धापयेते` इति। `धेट पाने` (धातुपाठः-902) `आदेचः` 6|1|44 इत्यादिनात्त्वम्, पूर्ववत् पुक्। `शिशुम्` इति। `गतिबुद्धि` 1|4|52 इत्यादिना कर्मसंज्ञायां द्वितीया॥
लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणमिति पिबतिवसत्योर्ग्रहणम्, न पातिवस्त्योः; तेनाणावकर्मकत्वविवक्षायां परस्मैपदं भवत्येव। पाययते इति। ठ्शाच्छासाह्वाव्यावेपां युक्ऽ। पादिष्विति॥ धेडप्यस्मिन् सुत्रे पठितव्य इत्यर्थः। समीचि इति प्रथमाद्विवचने ठ्वा च्छन्दसिऽ इति पूर्वसवर्णदीर्घः॥
सिद्धान्तकौमुदी
एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते ॥ ।धेट उपसंख्यानम् (वार्तिकम्) ॥ धापयेते शिशुमेकं समीची । अकर्त्रभिप्राये शेषात् (कौमुदी-2159) इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । दमयन्ती कमनीयतामदम् । भिक्षां वासयति । वा क्यषः (कौमुदी-2669) । लोहितायति । लोहितायते । द्युद्भ्यो लुङि (कौमुदी-2345) अद्युतत् । अद्योतिष्ट । वृद्भ्यः स्यसनोः (कौमुदी-2347) । वर्त्सयति । वर्तिष्यते । विवृत्सति । विवर्तिषते । लुटि च क्लृपः (कौमुदी-2341) कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । चिक्लृप्सति । चिकल्पिषते । चिक्लृप्सते ॥ समाप्ता पदव्यवस्था ॥। इति तिङन्तपरस्मैपदप्रकरणम्‌ ।
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः - न पादम्याङ्यम् । पा दमि आङ्यम् आङ्यम् आङ्यस परिमुहरुचि नृति वद वस् एषां समाहारद्वन्द्वात्पञ्चमी । प्राप्तस्य निषेध्यत्वात् प्राप्तिमुपपादयति — पिबतिर्निगरणार्थ इति । ततश्च "निगरणचलनर्थेभ्यः" इति प्राप्तिरिति भावः । नृतिरिति । नृतिश्चलनार्थकः । अणौ चित्तवत्कर्तृकः अकर्मकश्चेत्यर्थः । सूत्रद्वयनेनेति ।अणावकर्मका॑दिति,निगरणचलनार्थेभ्यश्च॑ इति च सूत्रद्वयेनेत्यर्थः । पाययते इति ।शाच्छासाह्वाव्यावेपां यु॑गिति पुकोऽपवादो युक् । दमयते इति ।जनीजृष्क्नसुरञ्जोऽमन्ताश्चे॑त मित्त्वाद्ध्रस्वः । ननु दिवादौ दमिः सकर्मक इत्युक्तम्, अतः कथमिहअणावकर्मका॑दिति प्राप्तिरिति चेद्दमेः परस्मैनिषेधादेव दमिरकर्मकोऽपि । अतो दमिः सकर्मक इत्यस्य न विरोधः । आयामयते इति । "यमोऽपरिवेषणे" इति मित्त्वनिषेधान्न ह्यस्वः । वासयते इति । "वस निवासे" इति भौवादिकस्यैवात्र ग्रहणम्, नतु "वस आच्छादने" इत्यादादिकस्याऽपि, तस्य सकर्मकत्वादेवाऽप्राप्तेः,लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहण॑मित्युक्तेश्च । धेट #उपसङ्ख्यानमिति ।परस्मैपदनिषेधस्ये॑ति शेषः । धापयेते शिशुमिति मन्त्रः । ननुवत्सान् पाययति पयः॑,दमयन्ती कमनीयतामदं॑,भिक्षा वासयती॑ति च कथम् ।न पादम्यडमेति परस्मैपदस्य निषेधादित्यत आह — अकत्र्रभिप्राये इति ।अनन्तरस्ये॑ति न्यायेननिगरणचलनार्थेभ्यश्च॑,॒अणावकर्मकाटदिति सूत्रद्वयप्राप्तस्यैवन पादम्याङ्यमाङ्यमसे॑ति निषेध इति भावः । "वा क्यषः" इत्यादि प्राग्व्याख्यातमपि सूत्रक्रमेण पुनरुपात्तम् । इतिपरस्मैपदव्यवस्था । अथ परिभाषाप्रकरणम्॥
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः - न पाद । चित्तवत्कर्तृका अकर्मका इति । दिवादौ दमिः सकर्मक इत्युक्तम्, इह त्वकर्मक इति पूर्वोत्तरविरोधो यद्यप्यस्ति तथापि कर्मणः कर्तृत्वविवक्षायां दमिरत्राऽकर्मक इत्याहुः । पाययत इति ।शाच्छसे॑ति युक् । आयामयत इति ।यमोऽपरिवेषमे॑ इति मित्त्वनिषेधः । वासयत इति । वस निवास इत्यस्य ग्रहणं । वस आच्छादने इत्यस्य तु न निषेधः, सकर्मकत्वेन तस्य प्राप्त्यभावात् । कर्मकर्तृत्वविवक्षायामकर्मकत्वेऽपि लुग्विकरमपरिभाषया नाऽत्र ग्रहणमित्याहुः । * धेट उपसङ्ख्यानम् । समीची इति । प्रथमाद्विवचनम् ।वा छन्दसी॑ति पूर्वसवर्णदीर्घः । परस्मैपदं स्यादेवेति ।अनन्तरस्य॑ इति योगद्वयेन प्राप्तस्यैव परसमैपदस्य प्रतिषेध इति भावः । [इति तत्त्वबोधिन्याम् परस्मैपदप्रक्रिया] इति पदव्यवस्था ।अथ परिभाषाप्रकरणम् । — — — — — — — —
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः पादिषु धेट उपसंख्यानम् ।। 1 ।। पादिषु धेट उपसंख्यानं कर्तव्यम् । धापयेते शिशुमेकं समीची ।। 89 ।।