Page loading... Please wait.
1|3|86 - बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः
॥ तस्मै पाणिनये नम: ॥
1|3|86
SK 2752
बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः  
सूत्रच्छेद:
बुध-युध-नश-जन-इङ्-प्रु-द्रु-स्रुभ्यः - पञ्चमीबहुवचनम् , णेः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
णिचश्च 1|3|74 इति कर्त्रभिप्रायत्रियाफलविवक्षायाम् आत्मनेपदे प्राप्ते परस्मैपदं विधीयते। बुध युध नश जन इङ् प्रु द्रु स्रु इत्येतेभ्यो ण्यन्तेम्यः परस्मैपदम् भवति। बोध्यति। योध्यति। नाशयति। जनयति। अध्यापयति। प्रावयति। द्रावयति। स्रवयति। ये ऽत्राकर्मकास् तेषाम् अणावकर्मकाच् चित्तवत्कर्तृकात् 1|3|88 इत्येवं सिद्धे वचनम् इदम् अचित्तवत्कर्तृकार्थम्। बोध्यति पद्मम्। योध्यन्ति काष्ठानि। नाशयति दुःखम्। जनयति सुखम्। ये ऽत्र चलनार्थ अपि तेषाम् निगरणचलनार्थेभ्यश्च 1|3|87 इति सिद्धे यदा न चलनार्थास् तदर्थं वचनम्। प्रवते। प्राप्नोति इति गम्यते। अयो द्रवति। विलीयते इत्यर्थः कुण्डिका स्रवति। स्यन्दते इत्यर्थः। तद्विषयाण्युदाहरणानि { प्रावयति। द्रावयति। स्रावयति}।
`बुध अवगमने` (धातुपाठः-1172), `युध सम्प्रहारे` (धातुपाठः-1173), `णश अदर्शने` (धातुपाठः-1194), `जनी प्रादुर्भावे` (धातुपाठः- 1149), `इह अध्ययने` (धातुपाठः-1046), `च्यङ` (धातुपाठः-955) छ्युङ्, ज्युङ (धातुपाठः-956), झयुङ प्रुङ (धातुपाठः-957) प्लुङ (धातुपाठः-958) गतौ `दु द्रु गतौ` (धातुपाठः-944, 945), `सु रुआउ गतौ` (धातुपाठः-940)। `जनयति` इति। `जनीजृष्` (ग।सू।धातुपाठः-817) इत्यादिना मित्संज्ञा। मितां ह्यस्वत्वम्। `अध्यापयति` इति। `क्रीडजीनां णौ` 6|1|47 इत्यात्त्वम्। पूर्ववत् पुक्। `एतद्विषयाण्युदाहरणानि` इति। प्राप्तिविलयनस्यन्दनविषयाण्येतानि प्रावयतीत्याद्युदाहरणानि यथाक्रममित्यर्थः। स्यन्दनं चलनमिति लोके प्रसिद्धम्। ततोऽन्यत्र स्यन्दयतीति बोद्धयम्। प्रावयति = प्रापयति द्रावयति = विलापयति। रुआआवयति = स्यन्दयतीत्यर्थः।बाल-मनोरमाविभाषाऽकर्मकात् 576, 1.3.86 विभाषाऽकर्मकात्। उपादिति, रम इति, परस्मैपदमिति चानुवर्तते। तदाह- उपाद्रमेरिति। बाल-मनोरमाबुधुयुधनशजनेङ्प्रुद्रुरुआउभ्यो णेः 577, 1.3.86 बुधयुध। बुध युध नश जन इङ् प्रुद्रु रुआउ एषां द्वन्द्वः। बोधयति पद्ममिति। `सूर्य`इति शेषः। बुधिर्विकसनार्थकः। विकसति पद्मम्। तद्विकासयति सूर्य इत्यर्थः। `अणावकर्मकाच्चित्तवत्कर्तृका`दिति परस्मपैदं तु न सिध्यति, अणौ पद्मस्य कर्तृतया चित्तवत्करर्तृकत्वाऽभावत्। योधयति काष्ठानीति। काष्ठानि युध्यन्ते स्वयमेव। तानि योधयतीत्यर्थः। अणावचित्तवत्कर्तृकत्वात् `अणावकर्मका`दित्यस्य न प्राप्तिः। अतएव योधयति देवदत्तमिति नोदाह्मतम्, `अणावकर्मकाच्चित्तवत्कर्तृका`दित्येव सिद्धेः। एवमग्रेऽपि ज्ञेयम्। नाशयति दुःखमिति। दुखं नश्यति, तन्नाशयति हरिरित्यर्थः। जनयति सुखमिति। जायते सुखम्, तज्जनयति हरिरित्यर्थः। अध्यापयतीति। अधीते वेदं विधिः, तमध्यापयतीत्यर्थः। `प्रु गतौ` इत्यस्योदाहरति-- प्रावयतीति। गत्यर्थकत्वं मत्वा आह-- प्रापयतीत्यर्थ इति। द्रावयतीति। द्रवत्याज्यं, तद्द्रावयतीत्यर्थः। धातोद्र्रवीभावार्थकत्वं मत्वा आह-- स्यान्दयतीत्यर्थ इति। `प्रीतिं भक्तजनस्य यो जनयते` इत्यात्मनेपदं तु प्रामादिकमेव। यद्वा भक्तजनो हरौ प्रीतिं जनयत्यत्मविषये , तां हरिर्जनयते इति ण्यन्ताण्णौ रूपम्। प्रयोज्यकर्तुः शेषत्वविवक्षय#आ भक्तजनस्येति षष्ठीत्याहुः।
प्राप्नोतीति। गम्यत इति वचनं तु प्राप्तिहेतुर्व्यापारः। कुण्जिका स्त्रवतीति। कुण्डिकायामुदकं कुण्डिकोदकव्यापारो वा कुण्डिकायां च्छिद्रवत्यामुपचर्यते। ननु स्यन्दनमपि द्रवद्रव्यकर्तृकं चलनमेव; तथा प्रसिद्ध्यभावात्॥
सिद्धान्तकौमुदी
एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्च (कौमुदी-2564) इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति वेदम् । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ॥
बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः - बुधयुध । बुध युध नश जन इङ् प्रुद्रु रुआउ एषां द्वन्द्वः । बोधयति पद्ममिति ।सूर्य॑इति शेषः । बुधिर्विकसनार्थकः । विकसति पद्मम् । तद्विकासयति सूर्य इत्यर्थः ।अणावकर्मकाच्चित्तवत्कर्तृका॑दिति परस्मपैदं तु न सिध्यति, अणौ पद्मस्य कर्तृतया चित्तवत्करर्तृकत्वाऽभावत् । योधयति काष्ठानीति । काष्ठानि युध्यन्ते स्वयमेव । तानि योधयतीत्यर्थः । अणावचित्तवत्कर्तृकत्वात्अणावकर्मका॑दित्यस्य न प्राप्तिः । अतएव योधयति देवदत्तमिति नोदाह्मतम्,अणावकर्मकाच्चित्तवत्कर्तृका॑दित्येव सिद्धेः । एवमग्रेऽपि ज्ञेयम् । नाशयति दुःखमिति । दुखं नश्यति, तन्नाशयति हरिरित्यर्थः । जनयति सुखमिति । जायते सुखम्, तज्जनयति हरिरित्यर्थः । अध्यापयतीति । अधीते वेदं विधिः, तमध्यापयतीत्यर्थः । "प्रु गतौ" इत्यस्योदाहरति — प्रावयतीति । गत्यर्थकत्वं मत्वा आह — प्रापयतीत्यर्थ इति । द्रावयतीति । द्रवत्याज्यं, तद्द्रावयतीत्यर्थः । धातोद्र्रवीभावार्थकत्वं मत्वा आह — स्यान्दयतीत्यर्थ इति ।प्रीतिं भक्तजनस्य यो जनयते॑ इत्यात्मनेपदं तु प्रामादिकमेव । यद्वा भक्तजनो हरौ प्रीतिं जनयत्यत्मविषये , तां हरिर्जनयते इति ण्यन्ताण्णौ रूपम् । प्रयोज्यकर्तुः शेषत्वविवक्षय#आ भक्तजनस्येति षष्ठीत्याहुः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः बुधादिषु येऽकर्मकास्तेषां ग्रहणं किमर्थम् ? बुधादिषु येऽकर्मकास्तेषां ग्रहणं सकर्मकार्थमचित्तवत्कर्तृकार्थं वा ।। 86 ।।