॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|74
SK 2564
1|3|74
णिचश्च
SK 2564
सूत्रच्छेद:
णिचः - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्त्रभिप्राये क्रियाफले इति वर्तते। णिजन्तादात्मनेपदं भवति कर्त्रभिप्राये क्रियाफले। कटं कारयते। ओदनं पाचयते। कर्त्रभिप्राये इत्येव, कटं कारयति परस्य।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
अत्र कश्चिदाह-इदमात्मनेपदं चुरादिणिचो न भवति, कुतः? ज्ञापकात्। किं ज्ञापकम्? लक्षणतेः स्वरितेत्वमिति। नात्राप्राप्तभाषित मस्ति। पारायणेऽपि चुरादिणिच आत्मनेपदमुदाहृतम्-एष विधिश्चुरादिणिजन्तात्स्यादिति। कश्चन निश्चुनुते स्म-अप्राप्तवचनेऽत्र न किंचन द्दष्टम्, लक्षयतेः स्वरितेत्वमनार्षम्॥
सिद्धान्तकौमुदी
णिजन्तादात्मनेपदं स्यार्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । णिश्रि--(कौमुदी-2312) इति चङ् । णौ चङि--(कौमुदी-2314) इति ह्रस्वः । द्वित्वम् । हलादिः शेषः (कौमुदी-2179) । दीर्घो लघोः (कौमुदी-2318) इत्यभ्यासदीर्घः । अचूचुरत् । अचूचुरत । 1536 चिति स्मृत्याम् । चिन्तयति । अचिचिन्तत् । चिन्तेति । पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् । चिन्त्यते इत्यादौ नलोपो न । चिन्तति । चिन्तेत् । एतच्च ज्ञापकं सामान्यापेक्षमित्येके । अत एकहल्--(कौमुदी-2260) इत्यत्र वृत्तिकृता जगाण जगणतुरित्युदाहृतत्वात् विशेषापेक्षमित्यपरे । अत एव (गणसूत्रम् -) आधृषाद्वा इत्यस्य न वैयर्थ्यम् । 1537 यत्रि संकोचे । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् । एवं कुद्रितत्रिमत्रिषु । 1538 स्फुडि परिहासे । स्फुण्डयति । इदित्करणात् । स्फुण्डति । स्फुटीति पाठान्तरम् । स्फुण्टयति । 1539 लक्ष दर्शनाङ्कनयोः 1540 कुद्रि अनृतभाषणे । कुन्द्रयति । 1541 लड उपसेवायाम् । लाडयति । 1542 मिदि स्नेहने । मिन्दयति । मिन्दति । 1543 ओलडि उत्क्षेपणे । ओलण्डयति । ओलण्डति । ओकार इदित्येके । लण्डयति । लण्डति । उकारादिरयमित्यन्ये । उलण्डयति । 1544 जल अपवारणे । लज इत्येके । 1545 पीड अवगाहने । पीडयति ॥
णिचश्च। `अनुदात्तङितः`इत्यत आत्मनेपदमिति, `स्वरितञितः कर्त्रभिप्राये क्रियाफले` इति चानुवर्तते। प्रत्ययग्रहणपरिभाषया। णिजन्तादिति लभ्यते। तदाह-- णिजन्तादित्यादिना। चोरयतीति। चोरयिष्यति। चोरयिष्यते। चोरयतु। चोरयताम्। अचोरयत्। अचोरयत। चोरयेत। आशीर्लिहि परस्मैपदे आह - चोर्यादिति। `णेरनिटी`ति णिलोप इति भावः। आशीर्लिङि आत्मनेपदे आह - चोरयिषीष्टेति। लुङ्याह - णिश्रीत्यादि। दीर्घो लघोरिति। `सन्वल्लघुनी`ति सन्वद्भावविषयत्वादिति भावः। चिति स्मृत्याम्। चिन्तयतीति। इदित्त्वान्नुमि णिजन्तात्तिङ उत्पत्तिरिति भावः। ननु इदित्करणं मास्तु, प्रक्रियालाघवात् `चिन्त स्मृत्या`मित्येवोच्यताम्। न च नलोपनिवृत्त्यर्थमिदित्त्वमिति वाच्यं, चिन्तयति चिन्तयांचकारेत्यादौ णिचः क्ङित्त्वाऽभावादेव नलोपस्याऽप्रसक्तेः। न च णिजभावे आशीर्लिङि चिन्त्यादिति, कर्मलकारे यकि चिन्त्यते इत्यत्र नलोपनिवृत्त्यर्थमिदित्त्वमिति शङ्क्यं, चुरादिणिचो नित्यत्वेन णिचं विना केवलात् चिन्त्यात् चिन्त्यते इति प्रयोगस्य शशशृङ्गायमाणत्वादित्यत आह-- चिन्तेत्यादि। तेनेति। पाक्षिकत्वेनेत्यर्थः। तथा च कदाचित् चिन्त्यात् चिन्त्यते इति प्रयोगस्य सत्त्वात्तत्र नलोपनिवृत्त्यर्थमिदित्करणमिति भावः। ननु तथापि यत्र नलोपप्रसक्तिस्तत्रैव चिन्त्यात् चिन्त्यते इत्यत्र णिज्विकल्पः स्यान्नतु चिन्ततीत्यादौ, शपा व्यवधानेन तत्र नलोपस्याऽप्रसक्तेरित्याशङ्क्य ज्ञापकमिदं चिन्तधातुसामान्यापेक्षमित्यभिप्रेत्योदाहरति-- चिन्तिति। चिन्तेदिति। ज्ञापकमिदं चुरादित्वसामान्यापेक्षमिति मतान्तरमाह--एतच्चेति। ज्ञापकस्य चुरादित्वसामान्यापेक्षत्वे वृद्धसंमतमाह- अत एकेति। ज्ञापकस्य चितिधातुमात्रिषयकत्वे गणधातोश्चौरादिकस्य जगणतुरित्युदाहरमानुपपत्तिः स्पष्टैवेति भावः। विशेषापेक्षमिति। चितिधातुमात्रविषमित्यर्थः। इदमेव मतं युक्तमित्याह-- अत एवेति। सर्वस्यापि चुरादैर्णिज्विकल्पे सति `आ धृषाद्वा`इति कतिपयचुराद्यन्तर्गणपठितानां णिज्विकल्पिविदिवैयर्थ्यमिति भावः। यत्रि सङ्कोचे। यन्त्रयतीति। अकारस्य उपधात्वाऽभावान्न वृद्धिः। अययन्त्रदिति। अकारस्य गुरुत्वादलघुत्वाल्लघुपरकत्वाऽभावात् सन्वद्भावाऽभावादित्त्वदीर्गौ न। एवमग्रेऽपि संयोगान्तधातूनां ज्ञेयम्। पठितुं शक्यमिति। नलोपाऽभावस्तु इदित्त्वस्य न फलं, नकारस्य उपधात्वाऽभावादेव नलोपस्याऽप्रसक्तेरिति भावः। तच्चिन्त्यमिति। यन्त्र्यादित्यणिजन्ते सत्यपि नकारस्य अनुपधात्वादेव लोपाऽप्रसक्त्या इत्त्वस्य प्रयोजनाऽभावादिति भावः। एवं `कुद्रि अनृतभाषणे` `तत्रि कुटुम्बधारणे` `मत्रि गुप्तभाषणे` इति चुरादौ पठिष्यमाणेष्वपि इदित्त्वं त्यक्तुं शक्यमित्यर्थः। लड उपसेवायां। लाडयतीति। णिचि अतुपधावृद्धिः। एवमग्रेऽपि ज्ञेयम्। अलीलडत्। पीड अवगाहने।
अचूचुरदिति। अत्र प्राचा व्याख्यात्रा `सन्वल्लघुनी`ति सन्वद्भाव इत्युक्तं , तद्रभसात्। सन्वद्भावविषये हि जायमानो दीर्घः सन्वद्भावं नापेक्षत इति।सामान्यापेक्षमिति। सर्वेऽपि चुरादयो विकल्पेन णिचं लभन्त इत्येतदर्थकमित्यर्थः। न चैवम् `आर्धषाद्वे`ति व्यर्थमिति वाच्यं, ज्ञापकसिद्धस्याऽसार्वत्रिकत्वात्। एवं चाऽस्मिन्पक्षे आधृषीयाणामेवैच्छिको विकल्पः, अन्येषां तु शिष्टप्रोगाद्व्यवस्थित इत्यर्थः। जगाण जगणतुरिति। वृत्तौ `चकाण चकणतु`रिति प्रचुरः पाठस्त�स्मस्तु पाठे नास्त्येव प्रकृतार्थसिद्धिः। केचित्तु णिजभावे गणयामासेत्यादिरूपाऽभावेपि गणधातोरदन्तत्वाद्गणामासेत्यामा भवितव्यमिति जगाणेत्यादिपाठश्चिन्त्य इत्याहुः। न वैयर्थ्यमिति। वैयर्थ्यशङ्क्यपि नेत्ययमेव पक्षो युक्त इति भावः। तत्र पूर्वोक्तपक्षस्य शिथलत्वे जगाण जगणतुरिति वृत्तिप्रयोगः कथं सङ्गच्छतामिति न शङ्क्यम्, भ्वादेराकृतिगणत्वातत्रत्यधातोस्तद्रूपसिद्धेः। तच्चिन्त्यमिति। यत्रितत्रिमर्त्यादिषु इकारो व्यर्थ एव न तु ज्ञापनार्थः, तेषां संयोगान्तत्वात्, यन्त्रतन्त्रमन्त्रेति नकारे पठितेऽपि `अनिदिता` मिति लोपो न लभ्यते, नकारस्याऽनुपधात्वात्। चिन्त्यादित्यत्र तु `चिन्त स्मृत्या`मिति नाकरोपधपाठे नलोपः स्यादेवेति तद्वारणाय क्रियमाण इकारस्तु ज्ञापक इति भावः। लड। स्नेहपूर्विका सेवा उपसेवा। लाडयति पुत्रम्। लडयोरभेदाल्लालयति। ओकार इदित्येके इति। ओदित्करणम् `ओदितश्चे`ति धातोरव्यवहितस्य निष्ठातकारस्य नत्वार्थमिति तद्बलान्नेडित्येके। लण्डणः। ओदिद्बलादिड्व्यवदानेऽपि नत्वमित्यन्ये। लण्डिनः। पीट अवगाहने। `भ्राजभासे`ति ह्रस्वपक्षे सन्वद्भावविषयत्वात् `दीर्घो लघो`रित्यभ्यासस्य दीर्घः। ह्रस्वाऽभावपक्षे तु न दीर्घ इत्याह-- अपीपिडदित्यादि।
लघुसिद्धान्तकौमुदी
णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले। चोरयते। चोरयामास। चोरयिता। चोर्यात्, चोरयिषीष्ट। णिश्रीति चङ्। णौ चङीति ह्रस्वः। चङीति द्वित्वम्। हलादिः शेषः। दीर्घो लघोरित्यभ्यासस्य दीर्घः। अचूचुरत्, अचूचुरत॥ कथ वाक्यप्रबन्धे॥ 2॥ अल्लोपः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!