`मिथ्योपपदात्` इति। उपोच्चारितं पदमुपपदम्, मिथ्याशब्द उपपदं यस्य स तथोक्तः। `पदं मिथ्या कारयते` इति। अत्रात्मनेपदानाभ्यासस्य द्योतितत्वात् `नित्यवीप्सयोः`
8|1|4 इसि द्विर्वचनं न भवति। `सापचारम्` इति। सदोषम्। अनेन मिथ्याशब्दस्यार्थमाचष्टे। `स्वरादिदुष्टम्` इति। पूर्वस्यैवार्थं व्यक्तीकरोति। आदिशब्देन रूपस्य परिग्रहः। `असकृत्` इति। अभ्यासशब्दार्थमुदाहरणेन दर्शयति॥