Page loading... Please wait.
1|3|59 - प्रत्याङ्भ्यां श्रुवः
॥ तस्मै पाणिनये नमः ॥
1|3|59
SK 2733
प्रत्याङ्भ्यां श्रुवः   🔊
सूत्रच्छेदः
प्रत्याङ्भ्याम् (पञ्चमीद्विवचनम्) , श्रुवः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रति आङित्येवं पूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति। प्रतिशुश्रूषति। आशुश्रूषति। उपसर्गग्रहणं चेदं, तस्मादिह प्रतिषेधो न भवति , देवदत्तं प्रति शुश्रूषते।
`उपसर्गग्रहणञ्चेदम्` इति। कथं श्रुव इति? विशेषणविशेष्यभावसम्बन्धे षष्ठी। तेनायं सम्बन्धो भवति-- शृणोतेर्यौ विशेषणभूतौ प्रत्याङौ तत्पूर्वाच्छरुवः सम्बन्धात् सन्नन्तादात्मनेपदं न भवति। उपसर्गादेवार्थं द्वारेण शृणोतेर्विशेषणभूताविति सामथ्र्यादुपसर्गयोग्र्रहणम्। `देवदत्तं प्रति शुश्रूषते` इति। प्रतिशब्दस्य `लक्षणे त्यम्भूताख्यान` 1|4|89 इत्यादिना लक्षणे कर्मप्रवचनीयसंज्ञा, तेन प्रतिना देवदत्त् एव सम्बध्यते; न धात्वर्थ इति॥
उपसर्गग्रहणं चेदमिति। परस्परसाहचर्यात्। देवदतं प्रतीति। ठ्लक्षणेत्थंभूतऽ इत्यादिना प्रतिः कर्मप्रवचनीयः, नोपसर्गः॥
सिद्धान्तकौमुदी
आभ्यां सन्नन्ताच्छ्रुव उक्तं स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रर्वचनीयात्स्यादेव । देवदत्तं प्रतिशुश्रूषते । शदेः शितः (कौमुदी-2362) म्रियतेर्लुङलिङोश्च (कौमुदी-2538) व्याख्यातम् ।
प्रत्याङ्भ्यां श्रुवः - प्रत्याङ्भ्यां श्रुवः । उक्तं नेति । आत्मनेपदं नेत्यर्थः । प्रत्याङाविहोपसर्गावेव गृह्रेते, व्याख्यानात् । तदाह — कर्मप्रवचनीयात्स्यादेवेति ।आत्मनेपद॑मिति शेषः । देवदत्तं प्रतीति ।लक्षणेत्थम्भूते॑ति प्तिः कर्मप्रवचनीयः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.