॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|4
SK 190
1|3|4
न विभक्तौ तुस्माः
SK 190
सूत्रच्छेद:
न - अव्ययम् , विभक्तौ - सप्तम्येकवचनम् , तुस्माः - प्रथमाबहुवचनम्
अनुवृत्ति:
उपदेशे  [1|3|2] - सप्तम्येकवचनम् ,  इत्  [1|3|2] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
उपदेशे विभक्तौ तुस्मा: न इत:
सूत्रार्थ:
उपदेशे विभक्तिस्थाः तवर्गीयवर्णाः, सकारः, मकारः च इत्संज्ञकाः न भवन्ति ।
उपदेशः नाम किम्? "उपदेशः आद्योच्चारणम्" । इत्युक्ते, आदिऋषिभिः (पाणिनि-कात्यायन-पतञ्जलिभिः) यस्य उच्चारणं कृतम् सः उपदेशः । आदिऋषिभिः कस्य कस्य उच्चारणं कृतम्? प्रत्याहाराणाम्, प्रत्ययानाम्, आदेशानाम्, आगमानाम्, धातूनाम् । अतः एते सर्वे, यथा ऋषिभिः मूलरूपेण उच्चारिताः, तस्याम् स्थितौ उपदेशसंज्ञकाः भवन्ति । (अस्मिन् विषये विस्तारेण उपदेशेऽजनुनासिक इत् 1|3|2 अस्य सूत्रस्य विवरणे उक्तम् अस्ति ।)

अग्रे, विभक्तिः नाम किम्? अष्टाध्याय्यां विभक्तिसंज्ञायाः व्याख्या द्वयोः स्थलयोः दीयते -
1) विभक्तिश्च 1|4|103 अनेन सूत्रेण सर्वे सुप्-प्रत्ययाः, तिङ्-प्रत्ययाः च "विभक्तिः" इमां संज्ञां प्राप्नुवन्ति । यथा - जस्, अम्, शस्, भ्याम्, तिप्, तस्, झि एते सर्वे प्रत्ययाः विभक्तिसंज्ञकाः भवन्ति । एते सर्वे प्रत्ययाः उपदेशसंज्ञकाः अपि सन्ति एतदपि स्मर्तव्यम् । तथा च, एतेषाम् सर्वेषाम् भिन्नासु अवस्थासु प्राप्ताः आदेशाः अपि विभक्तिसंज्ञकाः भवति । यथा - "टा" इत्यस्य "इन", "झि" इत्यस्य "अन्ति", "वहि" इत्यस्य "वहे", आदयः ।
2) प्राग्दिशो विभक्तिः 5|3|1 अस्मिन् अधिकारे पाठिताः सर्वे प्रत्ययाः विभक्तिसंज्ञकाः भवन्ति । यथा - तसिल्, त्रल्, ह आदयः । एते सर्वे प्रत्ययाः अपि उपदेशसंज्ञकाः सन्ति ।

अतः अनेन सूत्रेण किम् उच्यते? हलन्त्यम् 1|3|3 अनेन सूत्रेण उपदेशस्य अन्तिमव्यञ्जनस्य इत्संज्ञा भवति । परन्तु विभक्तिषु अन्तिमं व्यञ्जनं यदि तवर्गीयः अस्ति, अथवा सकारः अस्ति, अथवा मकारः अस्ति, तर्हि वर्तमानसूत्रेण तस्य इत्संज्ञा निषिध्यते । यथा -
1. द्वितीयैकवचनस्य प्रत्ययः "अम्" । वस्तुतः अयम् उपदेशः । अतः "हलन्त्यम्" सूत्रेण तस्य मकारस्य इत्संज्ञा भवेत् । परन्तु अयम् विभक्तिप्रत्ययः अस्ति, अतः न विभक्तौ तुस्माः 1|3|4 सूत्रेण मकारस्य इत्संज्ञानिषेधः भवति । अतः "अम्" इत्यत्र मकारः इत्संज्ञकः नास्ति ।
2. पञ्चमी-एकवचनस्य "ङसि" प्रत्ययस्य अकारात् परं "आत्" आदेशः भवति । अयमपि उपदेशः । परन्तु अत्र "तकारः" इत्संज्ञकः न भवति, यतः न विभक्तौ तुस्माः 1|3|4 इति सूत्रेण तवर्गीयवर्णानाम् इत्संज्ञानिषेधः जायते ।
3. दानीं च 5|3|18 अनेन सूत्रेण "दानीम्" इति विभक्तिप्रत्ययः दीयते । अस्य मकारस्यापि अनेन सूत्रेण इत्संज्ञानिषेधः भवति । अतएव "इदानीम्" इति मकारान्तशब्दः सिद्ध्यति ।
4. लट्लकारस्य परस्मैपदस्य प्रथमपुरुष-द्विवचनस्य प्रत्ययः अस्ति "तस्" । इत्यत्र सकारस्य अनेनैव सूत्रेण इत्संज्ञानिषेधः भवति । अग्रे तस्य विसर्गम् कृत्वा "पठतः / गच्छतः" एतादृशानि रूपाणि सिद्ध्यन्ति ।
5. लङ्लकारस्य उत्तमपुरुषैकवचनस्य प्रत्ययः अस्ति "अम्" । इत्यत्र मकारस्य अनेनैव सूत्रेण इत्संज्ञानिषेधः भवति ।

ज्ञातव्यम् - तवर्गीय-सकार-मकाराणाम् इत्संज्ञानिषेधः केवलं विभक्तौ भवति, नान्यत्र । यथा -
1. तुमुन् एषः कृदन्तप्रत्ययः । अस्मिन् सू्त्रे नकारस्य "हलन्त्यम्" इत्यनेन इत्संज्ञा भवति, यतः एषः विभक्तिप्रत्ययः नास्ति ।
2. "श्नम्" एषः विकरणप्रत्ययः । अस्मिन् सूत्रे मकारस्य "हलन्त्यम्" इत्यनेन इत्संज्ञा भवति, यतः एषः विभक्तिप्रत्ययः नास्ति ।
3. "तास्" एषः लकारविकरणप्रत्ययः । अस्मिन् सू्त्रे सकारस्य "हलन्त्यम्" इत्यनेन इत्संज्ञा भवति, यतः एषः विभक्तिप्रत्ययः नास्ति ।
4. "इयसुन्" अयं तद्धितप्रत्ययः । अस्मिन् सू्त्रे नकारस्य "हलन्त्यम्" इत्यनेन इत्संज्ञा भवति, यतः एषः विभक्तिप्रत्ययः नास्ति ।

विशेषः - इदम् सूत्रम् "अनित्यम्" अस्ति । इत्युक्ते, केषुचन स्थलेषु प्रत्ययस्य विभक्तिसंज्ञायाम् सत्याम् अपि तत्र उपस्थितस्य तवर्गीयवर्णस्य उत मकारस्य इत्संज्ञा भवत्येव । वर्तमानसूत्रम् तत्र न उपयुज्यते - इति आशयः । यथा, तद्धिताधिकारे किमोऽत्‌ 5|3|12 इत्यत्र पाठितः "अत्" प्रत्ययः यद्यपि विभक्तिसंज्ञकः अस्ति, तथापि तस्मिन् प्रत्यये तकारस्य इत्संज्ञा भवत्येव ।
One-line meaning in English
The letters त्, थ्, द्, ध्, न्, स्, and म् occurring at end of a विभक्ति in the औपदेशिक form are not called "इत्".
काशिकावृत्तिः
पूर्वेण प्राप्तायमित्संज्ञायां विभाक्तौ वर्तमानानां तवर्गसकारमकरणां प्रतिषेध उच्यते। तवर्गः, टाङसिङसाम् इनाऽत्स्याः 7|1|12 वृक्षात्, प्लक्षात्। सकारः, जस् ब्राह्मणाः। तस् पचतः। थस् पचथः। मकारः उपचत्ताम्, अपचतम्। बिभक्तौ इति किम्? अचो यत् 3|1|97, ऊर्णाया युस् 5|2|123, रुधादिभ्यः श्नम् 3|1|78। किमो ऽत् 5|3|12, इटो ऽत् 3|4|106 इत्यत्र प्रतिषेधो न भ्वति , अनित्यत्वाऽदस्य प्रतिषेधस्य। इदमस् थमुः 5|3|24 इत्युकारानुबन्धनिर्देशादनित्यत्वम् उपलक्ष्यते।
`वृक्षात्` इत्यत्र तकारस्येत्संज्ञायां सत्याम् `तित्स्वसितम्` ( 6|1|179 इति स्वरितत्वं स्यात्।`अपचतात्, अपचतम्` इति। पचेर्लङ्, `तस्तथस्थमिपां तान्तन्तामः` 3|4|101 इति तान्तमादेशौ भवतः। `किमोऽत्` 5|3|12 इत्यत्राच्छब्दस्य `प्राग् दिशो विभक्तिः` 5|3|1 इत्यस्य मकारस्येत्संज्ञापरित्राणार्थादुकारानुबन्धाद्विज्ञायते। नित्यत्वे हि सत्येतस्मादेव प्रतिषेधान्मकारस्येत्संज्ञा न भविष्यतीत्युकारानुबन्धग्रहणमनर्थकं स्यात्।
वृक्षादिति तकारस्येत्संज्ञायाम् ठ्तित्स्वरितम्ऽस्यात्। ननु चादेशोतरकालं स्थानिवद्भावेनास्य विभक्तिसंज्ञा, उपदेशानन्तरमेवेत्संज्ञा प्राप्नेति? सत्यम्; प्रतिषेधसामर्थ्यतु भाविन्यपि विभक्तित्वे प्रतिषेधो भविष्यति। वर्गग्रहणं किम्?वृक्षानित्यत्रापि यथा स्यात् क्व पुनरुपदेशे नकारोऽयमन्त्यः, म तावतस्य क्वचिदुपदेशः? ठ्शसो नऽइत्यत्र त्वकारो नकारस्येत्संज्ञापरित्राणार्थ इति शक्यं वक्तुम्। इह तर्हि ठ्झस्य रन्ऽपचेरन्निति। ब्राह्यणा इति। रूपोदाहरणमेतत्। कार्योदाहरणं तु भवतः इति। अत्र ठ्सिति चऽइति पदत्वे जश्त्वं स्यात्। पचतः पचथ इत्यत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। अपचतामित्यादि। तामादयस्तसादीनामन्त्यादचः परे स्युः। किमोऽत् इत्यस्य प्राग्दिशो विभक्तिः इति विभक्तित्वम्। इटोऽत् इत्यस्यापि स्थानिवद्भावेनेति तयोरपि प्रतिषेधः प्राप्नोति, तत्राह-किमोऽदित्यादि। अनित्यत्वं तु ठिदमस्थमुःऽ इति थमोरुकारोऽनुबन्धाद्विज्ञायते। क्वचितु वृतावेव ठिदमस्थमुःऽइत्युकारानुबन्धनिर्दशादनित्यत्वमुपलक्ष्यते इति पठ।ल्ते। इदानीं तदानीमिति। दानीमस्तु प्रतिष्रेधो भवत्येव। अनित्यत्वं हि ज्ञापितम्, न पुनः प्राग्दिशीयेष्वस्याप्रवृत्तिः॥
सिद्धान्तकौमुदी
विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्त्वम् ॥
अथ जसः सकारस्य `हलन्त्यम्`मितीत्संज्ञायां लोपमाशङ्क्याह--न विभक्तौ। तु स् म एतेषां द्वन्द्वः। `इत` इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते। तदाह--विभक्तिस्था इत्यादिना।
न विभक्तौ। `हलन्त्य`मितीत्संज्ञाप्राप्तौ निषेधारम्भः। `तु` इत्यस्योदाहरणं रामात्, पचेरन्। मकारस्य तु--रामम्, अद्राक्षम्। विभक्तौ किम् ?। `अचो यत्` ऊर्णायां युस्`, `रुधादिभ्यः श्नम्`। एतेष्वन्त्यस्येत्संज्ञा यथा स्यात्। `इदमस्थमु`रित्यत्र मकारपरित्राणार्थमुकारानुबन्धासञ्जनादनित्योऽयमिति ज्ञायते। अन्यथा `प्राग्दिशो विभक्ति`-रिति थमो विभक्तित्वाद्दानीमो मकारस्येवानेनैव सूत्रेणेत्त्वनिषेधसिद्धेः किं तेनेति। तेन `किमोऽत्` क्वेति सिद्धम्।
लघुसिद्धान्तकौमुदी
विभक्तिस्थास्तवर्गसमा नेतः। इति सस्य नेत्त्वम्। रामाः॥
महाभाष्यम्
न विभक्तौ तुस्माः विभक्तौ तवर्गप्रतिषेधोऽतद्धिते ।। 1 ।। विभक्तौ तवर्गप्रतिषेधोऽतद्धित इति वक्तव्यम् । इह मा भूत् ‐ किमोऽत् 5|3|12 क्व प्रेप्सन्दीव्यसे क्वार्द्धमासा इति । स तर्हि प्रतिषेधो वक्तव्यः ? न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति ‐ न विभक्तौ तद्धिते प्रतिषेधो भवतीति, यदयम् ‐ इदमस्थमुः 5|3|24 इति मकारस्येत्संज्ञापरित्राणार्थमुकारमनुबन्धं करोति । यद्येतज्ज्ञाप्यते इदानीमित्यत्रापि प्राप्नोति। । इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति । इदमस्तीत्कार्यं ‐ मिदचोन्त्यात्परः 1|1|47 इति । आचामन्त्यात्परो यथा स्यात् । इश्भावे कृते नास्ति विशेषः मिदचोऽन्त्यात्परः इति वा परत्वे, प्रत्ययः परः इति वा । स एव तावदिश्भावो न प्राप्नोति । किं कारणम् ? प्राग्दिशः प्रत्ययेष्वित्युच्यते । कः पुनरर्हतीश्भावं प्राग्दिशः प्रत्ययेषु वक्तुम् । किं तर्हि ?। प्राग्दिशोऽर्थेष्विश्भावः, किं सर्वनामबहुम्योऽद्व्यादिभ्यः 5|3|2 प्रत्ययोत्पत्तिः । एवं तर्हि ततोऽप्ययं वक्तव्यः । ततश्च मिदचोन्त्यात्परत्वेन न सिध्यति । ननु चाऽत्राप्यत्वे कृते नास्ति विशेषः मिदचोऽन्त्यात्परः इति वा परत्वे, प्रत्ययः परः इति वा । तद्ध्यत्वं न प्राप्नोति । किं कारणम् ?। विभक्तावित्युच्यते । एवं तर्हि यकारान्तोदानीं करिष्यते। किं यकारो न श्रूयते ?। लुप्तनिर्दिष्टो यकारः ।। 4 ।।