॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|31
SK 2704
1|3|31
स्पर्द्धायामाङः  
SK 2704
सूत्रच्छेद:
स्पर्द्धायाम् - सप्तम्येकवचनम् , आङः - पञ्चम्येकवचनम्
अनुवृत्ति:
ह्वः  [1|3|30] - पञ्चम्येकवचनम् , आत्मनेपदम्  [1|3|13] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
स्पर्धायाम् आङ: ह्वे आत्मनेपदम्
सूत्रार्थ:
स्पर्धायां विषये आ + ह्वे अयं धातुः आत्मनेपदी ज्ञातव्यः ।
ह्वेञ् (स्पर्धायां शब्दे च) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु "स्पर्धां करोति / सङ्घर्षं करोति " अस्मिन् अर्थे "आ + ह्वे" अयं धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - कृष्णः चाणूरम् आह्वयते ("युद्धस्य आवाहनं करोति" इत्यर्थः) । अन्येषु अर्थेषु तु उभयपदमेव - माता पुत्रम् आह्वयति आह्वयते वा ।
One-line meaning in English
When used in the meaning of स्पर्धा, the verb आ + ह्वे is आत्मनेपदी.
काशिकावृत्तिः
अकर्त्रभिप्रायार्थो ऽयमारम्भः। स्पर्धायां विषये आङ्पूर्वाद् ह्वयतेरात्मनेपदं भवति। स्पर्धा सङ्घर्षः, पराभिभवेछा, स विषयो धात्वर्थस्य। धातुस् तु शब्दत्रिय एव। मल्लो मल्लम् आह्वयते। छात्रश् छात्रम् आह्वयते। स्पर्धमानस् तस्याऽह्वानं करोति इत्यर्थः। स्पर्धायाम् इति किम्? गाम् आह्वयति गोपालः।
`स्पद्र्धायां विषये` इति। स्पर्धेह धात्वर्थस्य विषयोऽभिमतः, न धातोः। अत एवाह-- `स्पर्धा सङ्घर्षः। `पराभिभवेच्छा` इति। स्पर्धायाः स्वरूपं दर्शयित्वा धात्वर्थस्य विषयं दर्शयितुमाह- `स विषयो धात्वर्थस्य` इति। कः पुनर्धातोरर्थो नाम यस्यैवं विषयः? इत्याह-- `धातुस्तु शब्दक्रियः` इत्यादि। शब्दनं शब्दः। सा क्रिया यस्य स तथोक्तः। शब्दनक्रियावाचीति यावत्। यद्यपि ह्वयतिः स्पद्र्धायामपि पठते, तथाप्याङपूर्वस्तत्र न वत्र्तते, यथा-- तिष्ठतिर्गतिनिवृत्तौ पठते, अथ च प्रपूर्वो गतावेव वत्र्तते, न गतिनिवृत्तौ; तथा हि प्रतिष्ठित इत्युक्ते गच्छतीत्यर्थः। तस्मादाङपूर्वस्य ह्वयतेः स्पद्र्धायां वृत्त्यभावात् स्पद्र्धा धात्वर्थस्य विषयः। धात्वर्थविषयत्वं तु तद्धेतुभावेन वेदितव्यम्॥बाल-मनोरमास्पर्धायामाङः 527, 1.3.31 स्पर्दायामाङः। आङ्पूर्वकात् स्पर्धाविषयकात् ह्वेञ आत्मनेपदमित्यर्थः। कृष्णश्चाणूरमाह्वयते इति। स्पर्धार्थमाकारयतीत्यर्थः। बाल-मनोरमासमाहारः स्वरितः 9, 1.3.31 अथ स्वारितसंज्ञामाह-समाहारः स्वरितः। पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते। ऊकालोऽजित्यस्मादजित्यनुवर्तते। ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते। एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य। अतो नैवमर्थः। किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्टन्ततया च विपरिणम्येते। यत्र समाहरणं स समाहारः। अधिकरणे घञ्। ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः।
सविषय इति । हेतुभावेन च विषयत्वम्, अत एव हेतौ शानच् प्रयुक्तः। स्पर्द्धमानस्तस्याह्वानमिति। शब्दक्रिय एवेति। यद्यपि स्पर्द्धायां पठ।ल्ते, तथाप्याङ्पूर्वस्तत्र न वर्तते, किं तर्हि? शब्दनक्रियावाचीत्यर्थः॥
सिद्धान्तकौमुदी
कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ।
अथ स्वारितसंज्ञामाह-समाहारः स्वरितः। पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते। ऊकालोऽजित्यस्मादजित्यनुवर्तते। ततश्चोदात्तोऽनुदात्तश्च अच समाह्रियमाणः स्वरित इत्यर्थः प्रतीयते। एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य। अतो नैवमर्थः। किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्ट�न्ततया च विपरिणम्येते। यत्र समाहरणं स समाहारः। अधिकरणे घञ्। ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!