Page loading... Please wait.
1|3|3 - हलन्त्यम्
॥ तस्मै पाणिनये नम: ॥
1|3|3
SK 1
हलन्त्यम्  
सूत्रच्छेद:
हल् - प्रथमैकवचनम् , अन्त्यम् - प्रथमैकवचनम्
अनुवृत्ति:
उपदेशे  [1|3|2] - सप्तम्येकवचनम् ,  इत्  [1|3|2] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
उपदेशे अन्त्यम् हल् इत्
सूत्रार्थ:
उपदेशस्य अन्तिमव्यञ्जनम् इत्संज्ञकं स्यात् ।
उपदेशः नाम किम्? "उपदेशः आद्योच्चारणम्" । इत्युक्ते, आदिऋषिभिः (पाणिनि-कात्यायन-पतञ्जलिभिः) यस्य उच्चारणं कृतम् सः उपदेशः । अस्मिन् विषये विस्तारेण उपदेशेऽजनुनासिक इत् 1|3|2 अस्य सूत्रस्य विवरणे उक्तम् अस्ति ।) उपदेशेषु अन्तिमव्यञ्जनस्य वर्णस्य इत्संज्ञा भवति । यथा -
1) शप् अस्य अन्तिमः पकारः इत्संज्ञकः ।
2) णिच् अस्य अन्तिमः चकारः इत्संज्ञकः ।
3) नुम् अस्य अन्तिमः मकारः इत्संज्ञकः ।
4) उञ् इत्यस्य अन्तिमः ञकारः इत्संज्ञकः ।

ज्ञातव्यम् - यदि शब्दः उपदेशः नास्ति, तर्हि अन्तिमव्यञ्जनम् इत्संज्ञां न प्राप्नोति । उदाः "गम्" धातोः मकारः इत्संज्ञकः न, यतः "गम्" अयं उपदेशः नास्ति । उपदेशः तु गम्ऌ अयम् । अत्र उपदेश-अवस्थायाम् मकारः अन्ते नास्ति, अतः हलन्त्यम् 1|3|3 इत्यस्य प्रसक्तिः अपि अत्र नास्ति ।
One-line meaning in English
The ending हल् (if any) of an उपदेश gets the term "इत्".
काशिकावृत्तिः
उपदेशे इति वर्त्ते। अन्ते भवम् अन्त्यम्। धात्वादेः समुदायस्य यदन्त्यम् हल्, तदित्संज्ञं भवति। ऐउण् णकारः। ऋल्̥क् ककारः। एओङ् ङकरः। ऐऔच् चकारः। उपदेशे इत्येव। अग्निचित्। सोमसुत्। हस्य ल् हलिति द्वितीयम् अत्र हल्ग्रहणं तन्त्रेण उपात्तं द्रष्टव्यम्। तेन प्रत्याहारपाठे हलित्यत्र लकारस्य इत्संज्ञा क्रियते। तथा च सति हलन्त्यम् इत्यत्र प्रत्याहारे न इतरेतराश्रयदोषो भवति।
`अन्ते भवमन्त्यम्` इति। दिगादित्वाद्यत्। अन्तशब्दोऽयं समाप्तौ वत्र्तते। यथा-- एतदन्तं वनमिति। येन च समाप्यते समुदायः सोऽन्तः। त्तरान्ते = समाप्तौ भवमन्त्यम्। हलिति हल्शब्दस्योभयलिङ्गत्वादन्त्यमिति नपुंसकेन निर्देशः। `धात्वादेः` इत्यादि। आदिशब्देन सूत्रप्रातिपदिकप्रत्ययागमादेशानां ग्रहणम्। तत्र धातोः -- `डुकृञ्` (धातुपाठः-1472) इति ञकारः; सूत्रस्य-- `ऐउण्` (मा।सू।1) इति णकारः; प्रातिपदिकस्य - `नवट्` इति टकारः; नदडिति पचादिषु पठते। प्रत्ययस्य-- `गुप्तिज्किद्भ्यः सन्` 3|1|5 इति नकारः; आगमस्य `त्रपुजतुनोः षुक्` 4|3|136 इति ककारः; आदेशस्य च -- `चक्षिङः ख्याञ्` 2|4|54 इति ञकारः।`अग्निचित्, सोमसुत्` इति। चिनोतेः सुनोतेश्चाग्न चितवान् सोमं सुतवानिति क्विप्, तुक्।ननु च हलिति प्रत्याहारपाठे योऽन्त्यो लकारस्तस्येत्संज्ञा न प्राप्नोति; इतरेतराश्रयत्वात्। तथा हि-- इत्संज्ञायाम् `आदिरन्त्येन सहेता` 1|1|70 इति हलिति प्रत्याहारग्रहणं भवति। तस्मश्च तस्य लकारस्य हलन्त्यमितीत्संज्ञा। तदिदमितरेतराश्रयत्वं स्फुटतरमेव। `इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते` (व्या।प।28) इत्यत आह-- `हस्य ल् हल्` इत्यादि। यदेकमावृत्तिभेदमन्तरेणाप्यनेकेषामुपकारं करोति तत् तन्त्रम्। यथा-- प्रदीपः सुप्रज्वलितो बहूनां छात्राणामुपकारं करोति। इह तु प्रयत्नविशेषस्तन्त्रशब्देन विवक्षितः। तेन तन्त्रेण द्वितीयमत्र हल्ग्रहणमुपात्तं परिगृहीतं वेदितव्यम्। यथा ओतो धावतीत्येकेन प्रयत्नेन द्वे वाक्ये उच्चारिते भवतः, तथेहाप्येकेनैव प्रयत्नेन द्वौ हल्शब्दावुच्चारितावित्यभिप्रायः। हस्य ल् हलिति समीपिसामीप्यसम्बन्धे षष्ठी। `तेन` इत्यादि। यतस्तन्त्रेण न्यायेन द्वितीयं हल्ग्रहणं कृतम्, तेन प्रत्याहारपाठे हलित्यस्य लकारस्य हकारसमीपवर्तिनः साक्षादेव संज्ञित्वेनोपात्तस्येत्संज्ञा क्रियते, न तु प्रत्याहारसमाश्रयणेन। एवञ्च सति `हलन्त्यम्` 3|3|3 इत्यत्र प्रत्याहारपाठे इतरेतराश्रयद#ओषो न भवति। बाल-मनोरमाहलन्त्यम् 2, 1.3.3 एकपदं सूत्रम्। हलि अन्त्यं हलन्त्यमिति विग्रहः। शौण्डादेराकृतिगणत्वात् `सप्तमी शौण्डैः` इति सप्तमीसमासः, सुप्सुपेति समासो वा। हल्पदमिह सूत्रपरम्। `उपदेशेऽजनुनासिक इत्` इति पूर्वसूत्रादिदित्यनुवर्तते। तदाह--हलिति सूत्र इत्यादिना। इत्स्यादिति। इत्संज्ञकः स्यादित्यर्थः, संज्ञाप्रस्तावात्। एवं च अनेन सूत्रेण हल्सूत्रे लकारस्य हल्संज्ञामनुपजीव्यैव इत्संज्ञा सिद्धेति नान्योन्याश्रय इति भावः। बाल-मनोरमाहलन्त्यम्(बि) 4, 1.3.3 ततः किमित्यत आह--हलन्त्यम्। आवृत्तयोर्द्वितीयं सूत्रमेतत्। हल् अन्त्यमितिच्छेदः। हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात्। `उपदेशेऽजनुनासिक इ`दिति पूर्वसूत्रादुपदेश इति` इदिति चानुवर्तते। तदाह--उपदेशेऽन्त्यमित्यादिना। धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम्। अथ कोऽयमुपदेशो नाम` तत्राह--उपदेश आद्योच्चारणमिति। उपशब्द आद्यर्थकः। दिशिरुच्चारणक्रियायाम्। भावे घञिति भावः। एतच्च `आदेच उपदेशे` इत्यादासूत्रे भाष्ये स्पष्टम्। धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम्। आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥--इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता। उपदेशे किम्-`इदमस्थमुः` इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्संज्ञा मा भूत्। तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानामित्संज्ञा सिद्धेति स्थितम्। ततः किमित्यत आह-ततोऽण्? अजित्यादिसंज्ञासिद्धाविति। ततः णकारादिनामित्संज्ञासिद्ध्यनन्तरमादिरन्त्येनेत्यणादिसंज्ञा सिद्धेत्यर्थः।
अन्तशब्दोऽत्र समाप्तौ वर्तते;नावयवे;नावयवे असम्भवात्। न समीपे;अतिप्रसङ्गात् । येन समाप्यते समुदायस्तदन्ते भवमन्त्य्, दिगादित्वाद्यत्। हलन्त्ये सर्वप्रसङ्गः, सर्वस्य हलः सांज्ञा प्राप्नोति। सर्वो हि हल् तं तमवधिं प्रत्यन्तो भवति, अन्त्यग्रहणं त्वादिनिवृत्यर्थं स्याद्, अत आह-धात्वादेरिति। आदिशब्दन सूत्रप्रातिपदिकप्रत्ययनिपातागमादेशानां ग्रहणम्। शीङ्, लण्,नदट्, सन्, आङ्, त्रपुजतुनोः षुक्, चक्षिडः ख्याञ् इति योऽयं धात्वादिरूपः समुदायस्तदर्थः स उपदेशः, न तु नान्तरीयकावान्तरसमुदायार्थ इत्यन्त्यस्य समुदायापेक्षायां प्राधान्याद्धात्वादेरेव ग्रहणमिति भावः। अग्निचिदिति। अत्रेत्संज्ञायां लोपः स्यात्। न च तुको वैयर्थ्यम्;आगत्येत्यादौ चरितार्थत्वात्। न च क्विपः पित्वस्य वैयर्थ्यम्, आग्निचितावित्यादौ चरितार्थत्वात्। यद्यप्यत्रोभयत्रापि तावतोऽवधेस्तकारोऽन्त्यः, तथापि मुख्यसमुदायस्य नान्त्य इति नास्ति प्रसङ्गः। इह च दण्डिन्निति नकारस्येत्संज्ञायां सत्याम् ठ्न ङिसंबुद्ध्योःऽइति निषेधाल्लोपाभावेऽपि समुदायस्य नित्वादाद्यौदातत्वप्रसङ्गः, यथा-श्रोत्रियशब्दे वाक्यार्थे पदवचनमिति पक्षे । अथोपदेशानुवृतावपि सनुतरित्यस्य रेफस्य कस्मान्न भवति? स्वरादिष्वन्तोदातपाठसामर्थ्यात्। इह ठ्शषसर्ऽ ठ्हल्ऽइति यो लकारस्तस्येत्संज्ञायां सत्यां हलित्ययं प्रत्याहार उपपद्यते, सति च प्रत्याहारे लणित्यत्र लकारस्य हल्त्वातस्यैव ठ्शषसर्हल्ऽ,इत्यत्रान्ते निर्दिष्टत्वादित्संज्ञा, तदाश्रयश्च प्रत्याहार इति इतरेतराश्रयत्वात् प्रत्याहारो नोपपन्नः। ततश्च सर्वेषामेव णकारादीनामित्संज्ञा न स्यादिति सर्व एव प्रत्याहारव्यवहारोऽनुपपन्नः, ठादिरन्त्येनऽइत्येतस्यापि वैयर्थ्यम्? स्यादेतथलित्यत्र हकारात् पर लृकारः, तस्य लृकारस्यैकादेशो लपरः, तस्य ठुपदेशेऽजनुनासिकःऽइति इत्संज्ञा, स एव ठ्हलन्त्यम्ऽ इत्यत्राप्येकादेशेन लपरेण निर्दिष्ट इति। एवमपीतरेतराश्रयमेव, लृकारस्येत्संज्ञेति तस्माद्वक्तव्योऽत्र परिहारस्तमाहहस्य ल् हलित्यादि। साधारणं भवेतन्त्रम्, यथा-तुल्यकक्ष्ययोर्भुञ्चानयो प्रदीपः। स चेह प्रयत्नविशेषः, यथा-श्वेतो धावतीत्यत्र साधारणेनैकेनैव प्रयत्नेन द्वयोर्वाक्ययोरुच्चारितयोः फलं सम्पद्यते, तथेहाप्येकेन तन्त्रेण प्रबलेन द्वितीयं हल्ग्रहणमुपातं परिगृहीतं वेदितव्यम् । तस्य द्वितीयस्यार्थमाह-हस्येति। समीपसमीपिसम्बन्धे षष्ठीसमास इत्यर्थः। ततःकिमित्याह-तेनेत्यादि। एतद् दर्शयति-हकारसमीपवर्तिनो लकारस्य न प्रत्याहारसमाश्ययोणएनेत्संज्ञा, किं तर्हि? साक्षादुपादानेनेति। प्रमाणम्? अगृह्यमाणविशेषत्वमेव। ननु गृह्यते विशेषः-ठ्कृत्रिमाकृत्रिमयोः कृत्रिमस्य ग्रहणम्ऽइति, कृत्रिमो हि प्रत्याहारः सत्यम्;स एवासति तन्त्रेऽनुपपन्न इति त्वयैवोक्तम्॥
सिद्धान्तकौमुदी
हल् (मा.सू.-(कौमुदी-14)) इति सूत्रेऽन्त्यमित्स्यात् ।
हलन्त्यम् - ततः किमित्यत आह — हलन्त्यम् । आवृत्तयोर्द्वितीयं सूत्रमेतत् । हल् अन्त्यमितिच्छेदः । हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात् ।उपदेशेऽजनुनासिक इ॒दिति पूर्वसूत्रादुपदेश इति॑ इदिति चानुवर्तते । तदाह — उपदेशेऽन्त्यमित्यादिना । धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम॑ तत्राह — उपदेश आद्योच्चारणमिति । उपशब्द आद्यर्थकः । दिशिरुच्चारणक्रियायाम् । भावे घञिति भावः । एतच्च "आदेच उपदेशे" इत्यादासूत्रे भाष्ये स्पष्टम् । धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥ — इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता । उपदेशे किम्-॒इदमस्थमुः॑ इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्संज्ञा मा भूत् । तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानामित्संज्ञा सिद्धेति स्थितम् । ततः किमित्यत आह-ततोऽण् अजित्यादिसंज्ञासिद्धाविति । ततः णकारादिनामित्संज्ञासिद्ध्यनन्तरमादिरन्त्येनेत्यणादिसंज्ञा सिद्धेत्यर्थः ।
हलन्त्यम् - अन्तेऽवसाने भवमन्त्यम् । दिगादित्वाद्यत् ।उपदेशेऽजनुनासिक इत् इत्यतउपदेशे॑ इति,इ॑दिति चाऽत्रानुवर्तते ।आदिरन्त्येन-॑ इति सूत्रेण सहाऽन्योन्याश्रयमाशङ्क्य आवृत्त्या तं परिहरति-हलिति सूत्रेऽन्त्यमिति । हलि अन्त्यमिति विग्रहेसप्तमी॑ इति योगविभागात् सुप्सुपा॑ इति वा समास इति भावः । यद्वा षष्ठीतत्पुरुषोऽयं,हलिति सूत्रस्यान्त्यमित्स्यात् ॑ इति व्याख्यानसम्भवात् ।
लघुसिद्धान्तकौमुदी
उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥
महाभाष्यम्
हलन्त्यम् हलन्त्ये सर्वप्रसङ्गः सर्वान्त्यत्वात् ।। 1 ।। हलन्त्ये सर्वप्रसङ्गः । सर्वस्य हल इत्संज्ञा प्राप्नोति । किं कारणम् ? सर्वान्त्यत्वात् । सर्वो हि हल् तं तमवधिं प्रत्यन्तो भवति । सिद्धं तु व्यवसिताऽन्त्यत्वात् ।। 2 ।। सिद्धमेतत् । कथम् ? व्यवसितान्त्यत्वात् । व्यवसिताऽन्त्यो हलित्संज्ञो भवतीति वक्तव्यम् । के पुर्नव्यवसिताः ?। धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु । ननु चोक्तम् ‐ हलन्त्ये सर्वप्रसङ्गः सर्वान्त्यत्वादिति । नैषः दोषः । आहायम् ‐ हलन्त्यमित्संज्ञं भवतीति सर्वश्च हल् तं तमवधिं प्रत्यन्त्यो भवति। तत्र प्रकर्षगतिर्विज्ञास्यते ‐ साधीयो योऽन्त्य इति । कश्च साधीयः ?। व्यवसितानां योऽन्त्यः । अथवा सापेक्षोऽयं निर्देशः क्रियते । न चान्यत्किंचिदपेक्ष्यमस्ति, तेन व्यवसितानेवापेक्षिष्यामहे । लकारस्यानुबन्धाऽज्ञापितत्वाद्धल्ग्रहणाऽप्रसिद्धिः ।। 3 ।। लकारस्यानुबन्धत्वेन अज्ञापितत्वाद्धल्ग्रहणस्याऽप्रसिद्धिः । हलन्त्यमित्संज्ञं भवतीत्युच्यते, लकारस्यैव तावदित्संज्ञा न प्राप्नोति । सिद्धं तु लकारनिर्देशात् ।। 4 ।। सिद्धमेतत् । कथम् ? लकारनिर्देशः कर्तव्यः । हलन्त्यमित्संज्ञं भवति लकारश्चेति वक्तव्यम् । एकशेषनिर्देशाद्वा ।। 5 ।। अथ वा एकशेषनिर्देशोयम् । हल्च हल्च हल्, हलन्त्यमित्संज्ञं भवतीति । अथ वा लृकारस्यैवेदं गुणभूतस्य ग्रहणम्। तत्रोपदेशेऽजनुनासिक इत् 1|3|2 इतीत्संज्ञा भविष्यति । अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति ‐ भवति लकारस्येत्संज्ञेति यदयं णलं लितं करोति । प्रातिपदिकप्रतिषेधोऽकृत्तद्धिते ।। 6 ।। अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधो वक्तव्यः । उदश्वित् शकृत् इति । अकृत्तद्धितान्तस्येति किमर्थम् ? कुम्भकारः नगरकारः औपगवः कापटव इति। । इदर्थाऽभावात्सिद्धम् ।। 7 ।। इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति । इदमस्तीत्कार्यम् ‐ तित्स्वरितम् 1|6|185 इति स्वरितत्वं यथा स्यात् । नैतदस्ति प्रत्ययग्रहणं तत्र चोदयिष्यति । इह तर्हि राजा तक्षा, ञ्ञ्नितीत्याद्युदात्तत्वं यथा स्यात् । ञ्ञ्नितीत्युच्यते, तत्र व्यपवर्गाऽभावान्न भविष्यति । इदं तर्हि ‐ स्वर् । उपोत्तमं रिति 6|1|217 इत्येष स्वरो यथा स्यात् । स्वरितकरणसार्मथ्यान्न भविष्यति न्यङ्स्वरौ स्वरितौःथ्द्य;ति । इह तर्हि ‐ अन्तर् । उत्तमशब्दस्त्रिप्रभृतिषु वर्तते, न चात्र त्रिप्रभृतयः सन्ति । इह तर्हि ‐ सनुतर् । उपोत्तमं रितीत्येष स्वरो यथा स्यात् । अन्तोदात्तनिपातनं करिष्यते, स निपातनस्वरो रित्स्वरस्य बाधको भविष्यति । एतच्चात्र युक्तम् ‐ यदित्कार्याऽभावादित्संज्ञा न स्यात्, यत्रेत्कार्यं भविष्यति, तत्रेत्संज्ञा । तद्यथा ‐ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् 2|4|70 इति ।। 3 ।।