`संस्वरते` इति। `स्वृ शब्दोपतापयोः` (धा।ता।932)। `समरन्त` इति। अर्त्तेः `सर्तिशास्त्यर्तिभ्यश्च`
3|1|56 इत्यत्र पुषादिसूत्रात् परस्मैपदग्रहणानुवृत्तेरात्मनेपदेष्वङागेशेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह-- `तत्र हि` इत्यादि। `संशृणुते`इति। `श्रु श्रवणे` (धातुपाठः-942), `श्रुवः शृ च`
3|1|74 इति श्नुप्रत्ययः, शृभावश्च।`ऋच्छेरनादेशस्य ग्रहणम्` इति। `ऋच्छ गतीन्द्रियप्रलयमृर्तिभावेषु` (धातुपाठः-1296) इत्यस्य। `स्मृच्छिष्यते` इति लृट्। स्यप्रत्ययः। यद्यादेशस्य ग्रहणं स्यात् तदेतन्न सिध्येत्। प्राध्रादि
7|3|72 सूत्रेणात्र्तेरृच्छादेशस्यच्छादशस्य शितीत्येवं विधानात्। अथार्त्त्यादेश्यापि ग्रहणं कस्मान् भवतीत्याह-- `अर्त्त्यादेशस्यत्वत्र्तीत्येवम्` इत्यादि।अथ वा-- यद्यनादेशस्य ग्रहमं स्यात्, आदेशस्यात्मनेपदं न सिध्यतीत्यत आह--अर्त्त्यादेशस्य त्वर्तीत्येवम्` इत्यादि। स्थानिवद्भावेनेत्यभिप्रायः।`न लाभार्थस्य` इति। `विद्लृ लाभे` (धातुपाठः-1432) इत्यस्य। अथ `न तु सत्तार्थस्य, नापि विचारणार्थस्य` इत्येवमपि कस्मान्नोक्तम्? एवं मन्यते-- नित्यात्मनेपदित्वादनयोरात्मनेपदार्थग्रहणं नाशङ्क्येतैवेति।`दृशेश्चेति वक्तव्यम्` इति। `दृशिर् प्रेक्षणे`(धातुपाठः-988) इत्यस्मात् संपूर्वादात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याखानं तु पूर्वपदेव। `सम्पश्यते इति। पाध्रादिना
7|3|72 पश्यादेशः॥