Page loading... Please wait.
1|2|72 - त्यदादीनि सर्वैर्नित्यम्
॥ तस्मै पाणिनये नम: ॥
1|2|72
SK 938
त्यदादीनि सर्वैर्नित्यम्  
सूत्रच्छेद:
त्यदादीनि - प्रथमाबहुवचनम् , सर्वौः - तृतीयाबहुवचनम् , नित्यम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
तय्दादीनि शब्दरूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यदादिभिरन्यैश्च। सर्वग्रहणं सकल्यार्थम्। नित्यग्रहनं विकल्पनिवृत्त्यर्थम्। स च देवदत्तश्च तौ। यश्च देवदत्तश्च यौ। त्यदादीनां मिथो यद्यत् परं तत्तच् छिस्यते। स च यश्च यौ। यश्च कश्च कौ।
`सर्वग्रहणं साकल्यार्थम्` इति। विना तेनानपुंसकेनेत्यस्यानुवृत्तिराशङ्क्येत, ततश्च नपुंसकेन सह न स्यात्। अथ वा-- तल्लक्षमश्चेदेव विशेष इत्येतदिहानुवत्र्तत इत्याशङ्क्येत, ततश्च यत्र त्यदादिकृत एव विशेषस्तत्रैव स्यात्-- स च यश्च यावित्यादि, इहि तु न स्यात्- स च देवदत्तशच् ताविति। अतः सर्वग्रहणम्। `स च देवदत्तश्च तौ` इति। यदा विशेषविवक्षा तदैतदुदाहरणम्, यदा तु सामान्यविवक्षा , तदा देवदत्तोऽपि तच्छब्देन सम्बध्यत इति `सरूपाणाम्` 1|2|64 इत्यनेननैव सिध्यति। `यद्यत्परम्` इति। गणपाठापेक्षं परत्वं वेदितव्यम्॥
सर्वशब्दस्यार्थमाह--त्यदादिभिरन्यैश्चेति । एतदेव प्रकटयति - सर्वग्रहणमिति । त्यादिभिरन्यैश्चेति । यदिदं साकल्यमुक्तं तदर्थमित्यर्थः; अन्यथा प्रत्यासतेः ऽतल्लक्षणश्चेदेव विशेषःऽ इत्यधिकाराद्वा त्यदादिभिरेव सहवचने स्यादिति भावः । स च देवदतश्चेति । ननु देवदतोऽपि सामान्यविवक्षायां तच्छब्देनैव निर्देअष्टुंअ शक्यते, ततश्च सरूपाणामित्येव सिद्धम् । न चारब्धेऽपि सूत्रे वृतौ विशेषोऽन्तर्भावयिन्तुं शक्यः, तावित्यस्य सरूपसाधारणत्वाद्विरूपाणां च नानाविधात्वात्, सत्यम्; तद्देवदतावित्यादिद्वन्द्वनिवृत्यर्थं वचनम्, अन्यथा ऽतत्पुत्रस्तदीयःऽ इत्यादिवृत्यन्तरवद् द्वन्द्वोऽपि स्यात् । यद्यत्परमिति । त्यदादिपाठे शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यावित्यादि । भाष्ये तु ऽपूर्वशेषः खल्वपि दृश्यते - स च यश्च तौऽ इत्युक्तम् । इह चाहं च भवांश्चावामिति भवतीत्याहुः । त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि । आद्यादित्वातसिः, त्यदादीनां शेषे सह विवक्षितो योऽर्थः पुमान्, यच्च नपुंसकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । स च देवदत च तौ, सा च देवदतश्च तौ, तच्च देवदता च ते । पुंनपुंसकयोस्तु सहविवक्षायां परत्वान्नपुंसकवशेन व्यवस्था । तच्च देवदतश्च ते, इह स च कुक्कुटः सा च मयूरी - कुक्कुटमयूर्यावेते, अर्धं पिप्पल्यास्तद् अर्धंपिप्पली च सा अर्धंपिप्पल्यौ ते इति परवल्लिङ्गमिति समासार्थस्य लिङ्गातिदेशातद्विशेषणस्यापि सर्वनाम्नस्तदेव लिङ्गं भवति ॥
सिद्धान्तकौमुदी
सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते ॥ स च देवदत्तश्च तौ ॥ ।त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते (वार्तिकम्) ॥ स च यश्च यौ । पूर्वशेषोऽपि दृश्यत इति भाष्यम् । स च यश्च तौ ॥ ।त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि (वार्तिकम्) ॥ सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते ॥ ।अद्वन्द्वतत्पुरुषविशेषानामिति वक्तव्यम् (वार्तिकम्) ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ॥
त्यदादीनि सर्वैर्नित्यम् - त्यदादीनि । सर्वैरिति । त्यदादिभिरितरैश्चेत्यर्थः । ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तद्देवदत्ताविति न भवति ।सर्वैः किम् । प्रत्यासत्त्या त्यदादिभिरेव सहोक्तावित्यर्थो मा भूदित्येतदर्थम् । त्यदादीनां मिथ इति । भाष्ये स्थितमेतत् । यत्परमिति । त्यदादिगणे यत्परं पठितं तच्छिष्यत इत्यर्थः । शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूध्र्वं पाठात् परत्वात्स एव शिष्यते इति भावः, पूर्वशेषोऽपीति । परशब्दस्येष्टवाचित्वात्क्वचित्पूर्वमपि शिष्यत इति । भावः । अत्रद्विपर्यन्ताना॑मिति न भवति । अहं च भवांस्चावामिति भाष्योक्तेः । त्यादादित इति । आद्यादित्वात्षष्ठर्थे तसिः । त्यदादीनां स्त्रीशेषेऽपि सहविवक्षितेषु यः पुमान् यच्च नपुंसकं यद्वशेन लिङ्गप्रतिपादकानि भवन्तीत्यर्थः । कानीत्याकाङ्क्षायामर्थांत्त्यदादीन्येव सम्बध्यन्ते । सा च देवदत्तश्च ताविति । अत्र तच्छब्दः शिष्यते, समभिव्याह्मतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुंनपुंसकयोरिति ।सहोक्ता॑विति शेषः । परत्वादिति । पुंनपुंसकतो लिङ्गवचनानी॑त्यत्र पुंमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः । अद्वन्द्वेति । द्वन्द्वतत्पुरुषविशेषणानां त्यदादीनां स्त्रीशेषेत्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानी॑त्येतन्न भवतीत्यर्थः । द्वन्द्व उदाहरति — कुक्कुटमयूर्याविमे इति ।अयं च इयं च इमे॑इत्यत्र "त्यदादितः शेषे" इति पुंलिङ्गत्वं न भवति, किंतु विशेष्यनिघ्नतैव विशेषणस्येति बोध्यम् । न च अयं च इयं च इत्यत्र स्त्रीशेष एव न भवति,पुमान् स्त्रिये॑त्युक्तत्वात्, अतः पुंनपुंसकतो लिङ्गविधेः प्रसक्तिः कथमिति वाच्यं,परवल्लिङ्ग॑मिति हि द्वन्द्वतत्पुरुषार्थयोः परवल्लिङ्गविधिः । अतो द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गमिति भाष्यकैयटयोः स्थितम् । ततश्चकुक्कुटमयूर्याविमे॑इति उदाहरणे — अयं च इयं चेति विग्रहेपुमान् स्त्रिया॑ति पुंशेषेऽपिपरवल्लिङ्ग॑मिति विशेषणत्वात्स्त्रीलिङ्गत्वे सति तस्य "त्यदादितः" इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः । क्वचिन्मूलपुस्तकेषु तुमयूरीकुक्कुटाविमा॑वित्यपि दृश्यते, तत्तुत प्रकृतानुपयुक्तम्, त्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि "पुमान् स्त्रिया" इति परिशिष्टस्य पुंलिङ्गस्य इदम्शब्दस्य स्त्रीत्वाऽप्रसक्त्या तत्र "त्यदादितः शेषे" इति पुंस्त्वविधेरप्रवृत्तत्वेनअद्वन्द्वतत्पुरुषविशेषणाना॑मिति निषेधस्यानुपयोगात् । तत्पुरुषे उदाहरति — तच्चेति । पिप्पल्या अर्धम् — अर्धपिप्पली ।अर्धं नपुंसक॑मिति तत्पुरुषः । अर्धपिप्पली च पिप्पल्यर्धं च-अर्धपिप्पल्यौ । तच्च सा च ते । तत्र पिप्पल्यर्धंशब्दविशेष्याभिप्रायंत॑दिति नपुंसककत्वम् ।से॑ति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्रपुमान् स्त्रिये॑त्यस्य नैव प्रसक्तिः, किन्तुनपुंसकमनपुंसकेनैकव॑दिति नपुंसकं शिष्टम् । तत्रपरवल्लिङ्ग॑मिति स्त्रीत्वम् । तस्य स्त्रीलिङ्गतया तद्विशेषणस्यापिपरवल्लिङ्ग॑मिति स्त्रीत्वम् । तस्य "त्यदादितः शेषे" इति नपुंसकत्वं प्राप्तं निषिध्यते । एवंच "ते" इति स्त्रीलिङ्गमेव सिध्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा "ते" इति द्विवचनस्य न कोऽपि विशेषः, तथाप्यर्धपिप्पल्यस्ता इत्युदाहार्यम् । तच्च तच्च सा चेति विग्रहः ।
त्यदादीनि सर्वैर्नित्यम् - त्यदादीनि सर्वैः । सर्वैः किम् । त्यदादिभिन्नैरपि सहोक्तौ यथा स्यात्, प्रत्यासत्त्यात्यदादिभिरेव सहोक्तौ॑इत्यर्थो मा भूत् । यत्परमिति । शब्दपरविप्रतिषेधादिति भावः ।त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते । त्यदादित इति । आद्यादित्वात्तसिः ।त्यदादीनां [स्त्री]शेषे सह विवक्षितेषु यः पुमान्, यच्च नपुंसकं, तद्वशेन लिङ्गप्रतिपादकानि भवन्तीति वाच्य॑मित्यर्थः । कानीयत्याकाङ्क्षायामर्थात्त्यदादीन्येव । अस्यापवादमाह — - ।अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् । अद्वन्द्वेति । द्वन्द्वादिविशेषणानां पूर्वोक्तं न, किं तु विशेष्यनिघ्नतैवेत्यर्थः । नन्वेवंकुक्कुटमयूर्यौ॑इत्यत्र उभयपदार्थप्रधानत्वेन उभयोरपि विशेष्यत्वाद्विशेष्यनिघ्नतायामपिकुक्कुटमयूर्याविमे॑इति नियमतो न स्यादिति चेदत्र नव्याः — -॒परवल्लिङ्ग॑मित्यनेन द्वन्द्वतत्पुरुषयोरुत्तरपदलिङ्गवत्त्वादुत्तरपदलिङ्गस्यैव द्वन्द्वतत्पुरुषप्रतिपाद्यत्वेन तल्लिङ्गाधीनतैवाऽनुप्रयोगस्येति न काचिदनुपपत्तिरिति । मयूरीकुक्कुटाविमाविति । प्रकृतानुपयुकतमप्येतत्प्रसङ्गादुक्तम् । तच्चेति । पिप्पल्यद्र्धम् । सा चेति अर्धपिप्पली । तत्पुरुषविशेषणमुदाहरति — -अर्धपिप्पल्यौ ते इथि । यद्यपि स्त्रीनपुंसकसाधारणःते॑ इति प्रयोगस्तथापितच्च तच्च सा च अर्धपिप्पल्यस्ताः॑इत्याद्युदाहरणमूह्रम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
त्यदादीनि सर्वैर्नित्यम् - त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि - त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि भवन्ति। सा च देवदत्तश्च तौ। सा च कुण्डे च तानि। - अद्वन्द्वतत्पुरुषविशेषणानाम् - अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्। इह मा भूत्- स च कुक्कुटः, सा च मयूरी, कुक्कुटमयूर्यौ ते। अर्द्धं पिपल्यास्तत्, अर्द्धपिप्पली च सा- अर्द्धपिप्पल्यौ ते। ।। प्रत्याख्यानाधिकरणम् ।। अयमपि योगः शक्योऽवक्तुम्। कथम्? - त्यदादीनां सामान्यार्थत्वात् - त्यदादीनां सामान्यमर्थः। आतश्च सामान्यं देवदत्तेऽपि हि स इत्येतद्भवति, यज्ञदत्तेऽपि। त्यदादीनां सामान्यार्थत्वाच्छेषो भविष्यति। इदं तर्हि प्रयोजनं- परस्य शेषं वक्ष्यामि इति। - परस्य चोभयवाचित्वात् - उभयवाचि परम्। - पूर्वशेषदर्शनाच्च - पूर्वस्य खल्वपि शेषो दृश्यते- स च यश्च तावानय यावानय इति। इदं तर्हि प्रयोजनं- द्वन्द्वो मा भूत् इति। एतदपि नास्ति प्रयोजनम्। - सामान्यविशेषवाचिनोश्च द्वन्द्वाऽभावात्सिद्धम् - सामान्यविशेषवाचिनोश्च द्वन्द्वो न भवतीति वक्तव्यम्। यदि सामान्यविशेषवाचिनोर्द्वन्द्वो न भवतीत्युच्यते, शूद्राभीरम् गोबलीवर्दम् तृणोलपम् इति न सिध्यति। नैष दोषः। इह तावच्छूद्राभीरमिति,- आभीरा जात्यन्तराणि। गोबलीवर्दम् इति,- गाव उत्कालितपुंस्का वाहाय च विक्रयाय च, स्त्रिय एवावशिष्यन्ते। तृणोलपमिति,- अपामुलपमिति नामधेयम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। सामान्येनोक्तत्वाद्विशेषस्य प्रयोगो न भविष्यति। सामान्येनोक्तत्वात्तस्यार्थस्य, विशेषस्य प्रयोगेण न भवितव्यम्। किं कारणम्? उक्तार्थानामप्रयोग इति। न तर्हीदानीमिदं भवति- तं ब्राह्मणमानय गार्ग्यम् इति? भवति। यदा नियोगतस्तस्यैवानयनं भवति। एवं तर्हि येनैव खल्वपि हेतुनैतद्वाक्यं भवति- तं ब्राह्मणमानय गार्ग्यम् इति। तेनैव हेतुना वृत्तिरपि प्राप्नोति। तस्मात्सामान्यविशेषवाचिनोर्द्वन्द्वो न भवतीति वक्तव्यम् ।। त्यदादीनि सर्वैर्नित्यम् ।। 72 ।।