Page loading... Please wait.
1|2|59 - अस्मदो द्वयोश्च
॥ तस्मै पाणिनये नम: ॥
1|2|59
SK 818
अस्मदो द्वयोश्च  
सूत्रच्छेद:
अस्मदः - षष्ठ्येकवचनम् , द्वायोः - सप्तमीद्विवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अस्मदो यो ऽर्थस् तस्य एकत्वे द्वित्वे च बहुवचनम् अन्यतरस्यां भवति। अहं ब्रवीमि , वयं व्रूमः। आवां ब्रूवः, वयं व्रूमः। सविशेषणस्य प्रतिषेधो वक्तव्यः। अहं देवदत्तो ब्रवीमि। अहं गार्ग्यो व्रवीमि। अहं पटुर् ब्रवीमि। युष्मदि गुरावेकेषाम्। त्वं मे गुरुः, यूयं मे गुरवः।
अत्राप्यर्थस्य बहुत्वातिदेशः। `अस्मदो योऽर्थः स बहुवद्भवति` इति। तेन तिङन्तस्यापि तत्र वर्तमानस्य बहुवचनान्तत्वं भवति। `वयं ब्राऊमः` इति। `एकत्वे द्वित्वे च` इत्यादि। युक्तं यदेकत्वे भवति, द्वित्वे तु कथम्? न हि द्वित्वमस्मदर्थस्य सम्भवति; अस्मच्छब्दस्यात्मविषयत्वात्, आत्मनश्चैकत्वात्, नैष दोषः; आत्मत्वं परत्र यदोपचर्यते `अयं मे द्वितीय आत्मा` इति तदा अस्मच्छब्दस्य तत्रापि वृत्तेद्वर्यर्थविषयत्वं सम्भवति। अथ वा-- त्यदादीनां मिथो यद्यत् परं तच्छिष्यत इत्यस्मच्छब्द एव शिष्यमाणो युष्मदर्थमप्याहेति द्वयर्थतोपपद्यत इति युज्यते द्वयर्थता। अथ यद्यस्मच्छब्दो बहुवचनान्तः प्रयुज्यते तदैकार्थविषयोऽयम्, न द्वयर्थविषय इति; अथ द्व्यर्थविषयोऽयं नैकार्थविषय इति कुतस्यस्यैकार्थद्वयर्थविषये वृत्तिरवसीयते? प्रकरणात्। यथा-- आराच्छब्दस्य दूरान्तिकार्थयोर्वृत्तिरिति। `अहम्` इति। `ङे प्रथमयोरम्` 7|1|28 इत्यम्भावः, `त्वाहौ सौ` 7|2|94 इत्यहारदेशः। `वयम्` इति। जसि `मपर्यन्तस्य` 7|2|91 `यूयवयौ जसि` 7|2|93 इत वयादेशः, `शेषे लोपः` 7|2|90 `आवाम्` इति। औप्रत्यये `युवावौ द्विवचने` 7|2|92 इत्यावादेशः। `प्रथमायाश्च` 7|2|88 इत्यादिनात्वम्। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानां तु-- अन्यतरस्यांग्रहणं यदनुवर्ततते तस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। `युष्मदि गुरावेकेषाम्` इति। एतदपि चकारस्यानुक्त समुच्चयार्थत्वात् सूत्रेणैव संगृहीतम्॥
ऽअस्मदःऽ इत्यभिधेयसम्बन्धेन षष्ठीत्याह--अस्मदो योऽर्थ इति । पञ्चम्यां तु तत्र वर्तमानस्य तिङ्न्तस्य न स्यादिति भावः । एकत्वे द्वित्वे चेति । ननु चास्मतच्छब्दः प्रत्यगात्मनि वर्तते, स चैकस्तस्य कथं द्वित्वयोगः, एकत्वमपि तस्यायुक्तं विशेषणम्, अव्यभिचारात् ? उच्यते; यदाऽन्यत्रात्मत्वमध्यारोप्यते-अयं मे द्वितीय आत्मेति, यदा वा ऽत्यदादीनि सर्वैर्नित्यम्ऽ इति एकशेषः क्रियते, तदा सम्भवत्यनेकार्थत्वम् । अथ यत्रैवास्मच्छब्दो बहुवचनान्तः प्रयुज्यते, तत्र कथं द्वित्वैकत्वविशेषावसायः, प्रकरणादाराच्छब्दस्येव दूरान्तिकयोः । अहमिति । ऽणेóप्रथमयोरम्ऽ, ऽत्वाहौ सौऽ । वयमिति । ऽमपर्यन्तस्यऽ,ऽयूयवयौ जसिऽ, शेषे लोपःऽ । आवामिति । ऽयुवावौ द्विवचनेऽ, ऽप्रथमायाश्च द्विवचनेऽ इत्यात्वम् । सविशेषणस्येति । ऽत्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताःऽ इत्यत्रोन्नतत्वमेव विधीयते । न च विधेयोऽर्थो विशेषणमिति अतिदेशो भवत्येव । युष्मदीति । भाष्यवार्तिकयोरपठितमपि शिष्टप्रयोगदर्शनात्पठितम् ॥
सिद्धान्तकौमुदी
एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूवः इति वा ॥ ।सविशेषणस्य प्रतिषेधः (वार्तिकम्) ॥ पटुरहं ब्रवीमि ॥
अस्मदो द्वयोश्च - अस्मदो द्वयोश्च । सविशेषणस्येति ।त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमान्नोन्नताः॑ इत्यत्र तु अवयवगतबहुत्वाभिप्रायं बहुवचनम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अस्मदो द्वयोश्च अयमपि योगः शक्योऽवक्तुम्। कथम्- अहं ब्रवीमि आवां ब्रूवः वयं ब्रूमः? इमानीन्द्रियाणि कदाचित्स्वातन्त्र्येण विवक्षितानि भवन्ति। तद्यथा- इदं मे अक्षि सुष्ठु पश्यति, अयं मे कर्णः सुष्ठु शृणोतीति। कदाचित्पारतन्त्र्येण विवक्षितानि भवन्ति- अनेनाक्ष्णा सुष्ठु पश्यामि, अनेन कर्णेन सुष्ठु शृणोमीति। तद्यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनं भविष्यति। यदा पारतन्त्र्येण तदैकवचनद्विवचने भविष्यतः ।। अस्मदो द्वयोश्च ।। 59 ।।