॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|31
SK 7
1|2|31
समाहारः स्वरितः
SK 7
सूत्रच्छेद:
समाहारः - प्रथमैकवचनम् , स्वरितः - प्रथमैकवचनम्
अनुवृत्ति:
अच्  [1|2|27] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
समाहार: अच् स्वरित:
सूत्रार्थ:
उच्चारणस्थानस्य ऊर्ध्वभागस्य तथा अधोभागस्य, उभयोः प्रयोगं कृत्वा यः स्वरः निष्पद्यते सः "स्वरित"संज्ञकः भवति ।
प्रत्येकस्य स्वरस्य विशिष्टम् उच्चारणस्थानम् अस्ति । यथा - अकारस्य कण्ठः, इकारस्य तालु, आदयः । प्रत्येकस्य उच्चारणस्थानस्य भागद्वयं कृतम् अस्ति । यदि स्वरस्य उच्चारणम् कर्तुम् उभयोः भागयोः समरूपेण प्रयोगः भवति, तर्हि सः स्वरः "स्वरितः" अस्ति इति उच्यते । स्वरित-स्वरस्य लेखनसमये स्वरस्य उपरि एका ऊर्ध्वरेषा स्थाप्यते। यथा - ॳ ।

ज्ञातव्यम् - सर्वेषाम् वर्णानाम् उच्चारणस्थानानि अस्मिन् लेखे दत्तानि सन्ति ।
One-line meaning in English
A vowel that is pronounced using equal amounts of the upper and the lower half of its उच्चारणस्थान is known as स्वरित.
काशिकावृत्तिः
अचिति वर्तते। उदात्तनुदात्तस्वरसमाहारो यो ऽच् स स्वरितसंज्ञो भवति। सामर्थ्याच् च अत्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, ना ऽचौ। तौ समाह्रियेते यस्मिन्नचि तस्य स्वरितः इत्येषा संज्ञा विधीयते। शिक्यम्। कन्या। सामन्यः। क्व। स्वरितप्रदेशाः तित् स्वरितम् 6|1|175 इत्येवम् आदयः।
उदात्तानुदात्तशब्दावज्विशेषयोः संज्ञे। संज्ञा हि प्रदेशेषूच्चारिताःसंज्ञिनं प्रत्याययन्ति। ताभ्यामिहानुवृत्ताभ्यामुदात्तानुदात्तयोरचोरुपस्थापितयोः प्रत्ययः। तस्मात् समाहारात्मकस्याचः स्वरितसंज्ञा विधीयते। समाहारशब्दश्चसमाहरणं समाहार इति भावसाधनोऽयं लोके समुदाये रूढः। न चोदात्तानुदात्तात्मकः कश्चिदच्समुदायः सम्भवतीति, ततश्च संज्ञिनोऽसम्भवात् संज्ञापि न सम्भवीति यश्चोदयेत्, तं प्रत्याह-- `सामथ्र्याच्च` इत्यादि। उच्यते चेदम्-- उदात्तानुदात्तसमाहारः स्वरितसंज्ञो भवतीति, न च पारिभाषिकोदात्तानुदात्तसमाहारत्मनोऽचः सम्भवोऽस्ति। तत्र सामथ्र्याल्लोकवेदप्रसिद्धौ यौ धर्मावुदात्तानुदात्तौ तावेव गृह्रेते; नाचौ। नन्वेवमपि स एव दोषः, लोके प्रसिद्धोदात्तानुदात्तात्मनोऽच एषा संज्ञा विधीयते, कस्य तर्हि? लोकवेदप्रसिद्धावुदात्तानुदात्तौ समाह्यियेते यस्मिन्नचि तस्य। सम्भवति चैकस्मिन्नप्यचितयोः समाहार इति कुतः संज्ञिनोऽसम्भवः। `समाह्यियेते यस्मिन्` इति ब्राउवताऽधिकरणसाधनोऽयं समाहारशब्दो न भावसाधन इति दर्शितम्। समाह्यियेते = संहन्येते, सहितावुपलभ्येते इत्यर्थः। `शिक्यम्` इति। `पूञो यण्णुग् ह्यस्वश्च` (द।उ।16) इति यदिति वत्र्तमाने `श्रन्सेः शि कुट् किच्च` (द।उ।817) इति श्रंसतेर्यत्प्रत्यये शिशब्दादेशे कुडागमे च कृते रूपम्। तित्त्वात् स्वरितम्। `कन्या` इति। `तिल्यशिक्यमत्र्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः` (फि।सू।4।76) इत्यन्तः स्वरितम्। `सामान्यः` इति। सामनि साधुः। `तत्र साधुः` 4|4|98 इति यत्प्रत्ययः। क्वेति किंशब्दात् सप्तम्यन्तात्`किमोऽत्` 5|3|12 इत्यत्प्रत्ययः। `क्वाति` 7|2|105 इति क्वादेशः॥
सामर्थ्याच्चात्रेति । पारिभाषिकयोरुदातानुदातयोरचोः समाहारूपस्याचः क्वचिदप्यसम्भवः सामर्थ्यम् । ननु च समाहरणं समाहारः, विप्रकीर्णानामेकत्र राशीकरणमेकधर्मयोर्योगो वा, यथा-पञ्चपूली, षण्णगरी दृष्टेति । तत्र पूर्वो मूर्तानामेव, उतरस्तु धर्मयोरपि सम्भवति; किं तु अचा सामानाधिकरण्यं न घटते, न हि वर्णधर्मयोरुदातानुदातयोः समुदायरूपः कश्चिदज्भवतीत्यत आह -तौ समाह्रियेते अस्मिन्नचीति । नानेनाधिकरणसाधनत्वं समाहारशब्दस्य दर्शतम् । तत्र हि ऽकरणाधिकरणयोश्चऽ इति ल्युटा भवितव्यम् । वासरूपविधिश्च नास्ति; क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात् । तस्मादर्थकथनमात्रमेतत् । सामानाधिकरण्यं त्वर्शाअदित्वादच्प्रत्ययान्तत्वेन समर्थंनीयम् । शिक्यम्, कन्येति । ऽशिल्पशिक्यकाश्मर्यधान्यकन्यारा जन्यमनुष्याणामन्तःऽ इति फिट्सूत्रेणान्तःस्वरितत्वम् । सामान्य इति । सामसु साधुः ऽतत्र साधुःऽ इति यत्, ऽतित्स्वरितम्ऽ । क्वेति । ऽकिमोऽत्ऽ,ऽक्वातिऽ ॥
सिद्धान्तकौमुदी
उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसंज्ञः स्यात् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
समाहारः स्वरितः ।। समाह्रियमाणनिर्णयाधिकरणम् ।। समाहारः स्वरित इत्युच्यते। कस्य समाहारः स्वरितसञ्ञ्ज्ञो भवति? अचोरित्याह। - समाहारोऽचोश्चेन्नाभावात् - समाहारोऽचोश्चेत्, तन्न। किं कारणम्? अभावात्। नह्यचोः समाहारोऽस्ति। नन्वयमस्ति गाङ्गेऽनूप इति? नैषोऽचोः समाहारः। अन्योयमुदात्तानुदात्तयोः स्थाने एक आदिश्यते। एवं तर्हि गुणयोः। - गुणयोश्चेन्नाच्प्रकरणात् - गुणयोः समाहार इति चेत्, तन्न। किं कारणम्? अच्प्रकरणात्। अजिति वर्तते। - सिद्धं त्वच्समुदायस्याऽभावात्तद्गुणसम्प्रत्ययः - सिद्धमेतत्। कथम्? अच्समुदायो नास्तीति कृत्वा तद्गुणस्याचः समाहारगुणस्य सम्प्रत्ययो भविष्यति। कथं पुनः समाहार इत्यनेनाऽच्छक्यः प्रतिनिर्देष्टुम्? मतुब्लोपोऽत्र द्रष्टव्यः। तद्यथा- पुष्पका एषां ते पुष्पकाः। कालका एषां ते कालका इति। एवं समाहारवान् समाहारः। अथ वा अकारो मत्वर्थीयः। तद्यथा तुन्दो घाट इति। यद्येवं त्रैस्वर्यं न प्रकल्पते। तत्र को दोषः? त्रैस्वर्येणाधीमहे इत्येतन्नोपपद्यते। नैतद्गुणापेक्षम्। किं तर्हि? अजपेक्षमेतत्- त्रैस्वर्येणाधीमहे त्रिप्रकारैरज्भिरधीमहे, कैश्चिदुदात्तगुणैः कैश्चिदनुदात्तगुणैः कैश्चिदुभयगुणैः तद्यथा- शुक्लगुणः शुक्लः, कृष्णगुणः कृष्णः, य इदानीमुभयगुणः स तृतीयामाख्यां लभते- कल्माष इति वा सारङ्ग इति वा। एवमिहाप्युदात्तगुण उदात्तः, अनुदात्तगुणोऽनुदात्तः, य इदानीमुभयगुणः स तृतीयामाख्यां लभते स्वरित इति ।। समाहारः स्वरितः ।। 31 ।।