॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|22
SK 3051
1|2|22
पूङः क्त्वा च
SK 3051
सूत्रच्छेद:
पूङः - पञ्चम्येकवचनम् , क्त्वा (लुप्तप्रथमानिर्देशः) च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अन्यतरस्याम् इति न स्वर्यते ; उतरसूत्रे पुनः वा वचनात् । न सेटिति वर्तते । पूडश्च इट् विहितः क्लिशः क्त्वानिष्ठयोः 7|2|50, पूङश्च 7|2|51 इति । पूडः परो निष्ठाप्रत्ययः क्त्वा च सेट् न कित् भवति । पवितः, पवितवान् । क्त्वाप्रत्ययस्य न क्त्वा सेट् 1|2|18 इति सिद्ध एव प्रतिषेधः ; तस्य ग्रहणमुत्तरार्थम् । तथा च (महाभाष्ये) उक्तम् - "नित्यम् अकित्त्वम् इडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणम् उत्तरार्थम्" इति ॥
`न सेट् वत्र्तते` इत्यक्तम्। `न क्त्वा सेट्` 1|2|18 इत्यतः। ननु च पूङः परयोः क्त्वानिष्ठयोरिटा न भवितव्यमेव; `श्रयुकः किति` 7|2|11 इति प्रतिषेधात्। तदपार्थिका सेड्ग्रहणानुवृत्तिरिति यश्चोदयेत् तं प्रत्याह-- पूङश्चेड् विहितः` इत्यादि। अत क्त्वाप्रत्ययस्योदाहरणं कस्मान्न प्रदर्शितमित्यत आह-- `क्त्वाप्रत्ययस्य` इत्यादि। यदि ह्रनेन योगेन क्त्वाप्रत्ययस्य कित्त्वं प्रतिषिध्येत, तदा तस्याप्युदाहरणं प्रदर्श्येत, न चानेन प्रतिषिध्यते, किन्तर्हि? `न क्त्वा सेट्` 1|2|18 इत्यनेनैव प्रतिषिद्धत्वात्। तस्मात तस्योदाहरणं न प्रदर्शितमितित भावः। क्त्वाप्रत्ययस्य `न क्त्वा सेट्` 1|2|18 इत्यनेन प्रतिषेध इत्येतदेव द्रढयितुमाह-- `तथा च ` इत्यादि। `पूङ्श्च` 7|2|51 इत्यत्र सूत्रे द्वयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीति मन्यमानैर्भारद्वाजीयैरिदमुक्तम्-- `नित्यमकित्त्वमिडाद्योः` इति। तौ पुनरिडादी क्त्वानिष्ठाप्रत्ययौ। यदि तर्हि नित्यमकित्त्वमिडाद्योः; तदा क्त्वाग्रहणमनर्थकं स्यात्। विकल्पेन ह्रत्राकित्तवसद्धये तस्य ग्रहणमर्थवद्भवति, नान्यथा। नित्यत्वं कित्त्वप्रतिषेधस्य `न क्त्वा सेट्` 1|2|18 इत्यनेनैव सिद्धत्वादिति चोद्यमाशह्क्येदमुक्तम्-- `क्त्वाग्रहणमुत्तरार्थम्` इति। `पूङः` इति सानुबन्धकस्योच्चारणं किमर्थम्? पोपुवितः, पोपुवितवान्, पोपुवित्वेति यङलुगन्तात् कित्त्वप्रतिषेधो मा भूदिति। पूङनिवृत्यर्थं सानुबन्धक्सयोच्चारणं नोपपद्यते; `श्रयुकः किति` 7|2|11 इतीट्प्रतिषेधात्। पूञः परयोः क्त्वानिष्ठयोः सेटोरभावात्॥
इहान्यतरस्यांग्रहणानुवृतौ सेडित्यस्य च निवृतौ इड्विधौ ऽपूङ्श्चऽ इति शक्यमकर्तुम्, उतरसूत्रे च वाग्रहणम्; कथम् ? अनिटोरेव क्त्वानिष्ठयोरनेन कित्वं विकल्प्यते,तत्र यदा कित्वं तदा ऽश्यकः कितिऽ इति प्रतिषेधात् पूतः पूतवान् पूत्वेति, अकित्वपक्षे त्विटि पवितः पवितवान् पवित्वेति भवति, सेड्ग्रहणं तु विच्छिद्येत; तस्मात्सेडित्यस्मिन्नुतार्थमनुवर्तमाने ऽपूङ्श्चऽ इत्यारभ्य उतरत्र वाग्रहणमिह नित्यतासिद्ध्यर्थम्, पुवित्वेति पक्षे मा भूतदाह-अन्यतरस्यांग्रहणं न स्वर्यते; उतरसूत्रे पुनर्वावचनादिति । न सेडिति वर्तत इति । ननु पूङ्ः परयोः क्त्वानिष्ठयोरिटो न भवितव्यम्, ऽश्युकः कितिऽ इति प्रतिषेधादत आह-पूङ्श्चेति । पूङ् परो निष्ठाप्रत्यय इत्यादि । किं पुनः कारणं साक्षात् श्रुतं क्त्वाप्रत्ययमपहारयानुवृतस्य निष्ठाप्रत्ययस्यान्वयो दर्शियत उदाहरणं च ? अत आह-क्त्वाप्रत्ययस्येति । एतदेव द्रढयति-तथा चोक्तमिति । इडाद्योः क्त्वानिष्ठयोर्नित्यमकित्वमिष्यते, ततश्च क्त्वाग्रणमुतरार्थमिति भारद्वाजीयैरेवमुक्तम् । उतरार्थमपि यदिहैव कर्तव्यं सेडित्येनेन सम्बन्धार्थम्; अन्यथा निष्ठानिवृतौ तत्सम्बद्धं सेडित्येतदपि निवर्तेत ! अनुबन्धोच्चारणं विस्पष्टार्थं न पूञो निवृत्यर्थम्; इड्विधौ पूङ् एव ग्रहणात् । पूञः क्त्वानिष्ठयोः इडभावान्नापि यङ्लुकि निवृत्यर्थम्; इड्विधावनुबन्धनिर्देशेन यङ्लुक्यपि ऽन क्त्वा सेट्ऽ इति प्रतिषेधस्य स्थितत्वात् । न च क्त्वाग्रहणसार्थ्यातस्यापि प्रतिषेधः; तस्योतरत्राप्युपयोगसम्भवात्, अनुबन्धनिर्देशस्य च निष्ठायां चरितार्थत्वात् । एवं च ऽक्त्वाग्रहणमुतरार्थम्ऽ इति वृत्तिग्रन्थस्याविरोधः, तेन पोपुवितवानिति निष्ठायां भवति । क्त्वायां तु गुणो पोपवित्वेति भवति ॥
सिद्धान्तकौमुदी
पूङः क्त्वा निष्ठा च सेट् किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधात्--(कौमुदी-3324) इत्यत्र हि क्त्वैव संबध्यते ॥
पूङः क्त्वा च। `न क्त्वा से`डित्यतो न सेडित्यनुवर्तते। `असंयोगा`दित्यतः किदिति, `निष्ठा शीङित्यतो निष्टेति च। तदाह-- पूङः क्त्वा निष्ठा चेत्यादि। ननु `न क्त्वा से`डित्येव सिद्धे किमर्थमिह क्त्वाग्रहणमित्यत आह-- क्त्वाग्रहणमुत्तरार्थमिति। तदेवोपपादयति-- नोपधादित्यत्रेति। तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा। `पूङश्चे`त्येवोक्तौ तु `निष्ठा शी` ङित्योत निष्ठाग्रहणमेवाऽनुवर्तेतेति भावः।
पूङः क्त्वा च। `न क्त्वा से`डित्यनेनैव सिद्धे क्त्वाग्रहणमिह व्यर्थमित्यत आह--उत्तरार्थमिति। क्त्वैवेति। नतु निष्ठा, चानुकृष्टत्वादिति भावः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पूङः क्त्वा च - पूङः क्त्वानिष्ठयोरिटि वाप्रसङ्गः सेट्प्रकरणात् - पूङः क्त्वानिष्ठयोरिटि विभाषा कित्त्वं प्राप्नोति। किं कारणम्?। सेट्प्रकरणात्। सेडिति वर्तते। - न वा सेट्त्वस्याकिदाश्रयत्वादनिटि वा कित्त्वम् - न वा एष दोषः। किं कारणम्?। सेट्त्वस्याकिदाश्रयत्वात्। अकिदाश्रयं सेट्त्वम्। यदा अकित्त्वं तदेटा भवितव्यम्। सेट्त्वस्याकिदाश्रयत्वादनिट्येव विभाषा कित्त्वं भविष्यति। इडि्वधौ पूङो ग्रहणं क्रियते। तेन वचनादिट्। सेट्प्रकरणाच्च इट्येव विभाषा कित्त्वं प्राप्नोति। - इडि्वधौ ह्यग्रहणम् - इडि्वधौ हि पूङो ग्रहणं न कर्तव्यं भवति। भारद्वाजीयाः पठन्ति- - नित्यमकित्त्वमिडाद्योः क्त्वाग्रहणमुत्तरार्थम् - नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः सिद्धम्। कथम्? विभाषामध्येऽयं योगः क्रियते। विभाषामध्ये च ये विधयस्ते नित्या भवन्ति। किमर्थं तर्हि क्त्वाग्रहणम्? क्त्वा ग्रहणमुत्तरार्थम्। उत्तरार्थं क्त्वाग्रहणं क्रियते नोपधात्थफान्ताद्वा (23) वञ्चिलुञ्ञ्च्यृतश्च (24) इति ।। पूङः क्त्वा च ।। 22 ।।