Page loading... Please wait.
1|2|2 - विज इट्
॥ तस्मै पाणिनये नमः ॥
1|2|2
SK 2536
विज इट्   🔊
सूत्रच्छेदः
विजः (पञ्चम्येकवचनम्) , इट् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
"ओविजी भयचलनयोः" (तुदादिगणः), अस्मात् परः इडादिः प्रत्ययो ङिद्वद् भवति । उद्विजिता, उद्विजितुम्, उद्विजितव्यम् । इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् ॥
`इडादिप्रत्ययः` इति। इट आदिर्यस्य तृजादेः स तथोक्तः।अथोत्त्मपुरुषस्यैकवचनस्येटो ग्रहणं कस्मान्न भवति, `सार्वधातुकमपित्` 1|2|4 इत्यनेनैव तस्य कित्त्वस्य सिद्धत्वात्?नैतदस्ति,यत्र हि तेन न सिद्ध्यति तत्रोत्तमपुरुषस्यैककवचनस्य ङित्त्वविधानार्थमिड्ग्रहणं स्यात्। क्व च तेन न सिद्ध्यति? आर्धुधातुक आशिषि लिङि-- `उद्विजिषीय` इत्यत्र। अतो युक्तं चोत्तमपुरुषस्यैकवचनस्य ग्रहणम् नागमस्य;`अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।9), `प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्` (व्या।प।72) इति परिभाषाद्वयात्। अथापि कथञ्चिदागमस्येटो ग्रहणं स्यात्? एवमपि तन्मात्रस्यैव ङित्त्वं लभ्यते, न तु तदादेः प्रत्ययस्य, तत्किमित्याह-- `इडादिप्रत्ययो ङिद्भवति ` इति? एवं मन्यते--- `वद्धिर्यस्याचामादिः` 1|1|72 इत्यत आदिग्रहणमनुवत्र्तते, तेन चेड् विशिष्यते। न चोत्तमपुरुषस्यैकवचनस्यादित्वमस्ति, किं तर्हि? आगमस्यैव; तस्मात् स एव गृह्रते। तस्य च केवलस्यादिभूतस्य ङित्वे प्रयोजनं नास्तीति सामथ्र्यादिडादेः प्रत्ययस्य ङित्त्वं विज्ञायत इति। `उद्विजिता` इति। ङित्त्वात् `पुगन्तलघुपधस्य` 7|3|86 इति गुणो न भवति।
ओविजी भयचलनयोरिति । यस्तु ऽसृजिविजि विद्ध्यनिट्स्वरान्ऽ इत् विचिः, न स गृह्यते; अनिट्त्वात् । इतरस्तु ईदित्वसामर्थ्यात् सेट्, वृद्धसंज्ञासूत्राद् यस्यादिरिति वर्तते, तेनेड्विशेष्यते-यस्यादिरिडिति । तेनोतमैकवचनस्य ग्रहणं न भवति, न ह्यसौ कस्याचिदादिः । अत एवागममात्रस्यायं ङ्त्विविधिर्न भवति, किं तर्हि ? तदादेः प्रत्ययस्येत्याह--इडादिः प्रत्यय इति । उद्विचितेति । ङ्त्वाल्लिघूपधगुणाभावः ॥
सिद्धान्तकौमुदी
विजेः पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता । उद्विजिष्यते । 1291 ओलजी 1292 ओलस्जी व्रीडायाम् । लजते । लेजे । लज्जते । ललज्जे ॥ अथ परस्मैपदिनः । 1293 ओव्रश्चू छेदने । ग्रहिज्या---(कौमुदी-2412) । वृश्चति । वव्रश्च । वव्रश्चतुः । वव्रश्चिथ । वव्रष्ठ । लिट्यभ्यासस्य--(कौमुदी-2408) इति संप्रसारणम् । रेफस्य ऋकारः । उरत् (कौमुदी-2244) तस्य अचः परस्मिन्--(कौमुदी-50) इति स्थानिवद्भावात् । न संप्रसारणे---(कौमुदी-363) इति वस्योत्वं न । व्रश्चिता । व्रष्टा । व्रश्चिष्यति । व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत् । अव्राक्षीत् । 1294 व्यच व्याजीकरणे । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् ॥व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते (वार्तिकम्) ॥ अनसीति पर्युदासेन कृन्मात्रविषयत्वात् । 1295 उछि उञ्छे । उञ्छति । 1296 उच्छी विवासे । उच्छति । 1297 ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । ऋच्छत्यॄताम् (कौमुदी-2383) इति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्छ । आनर्छतुः । ऋच्छिता । 1298 मिच्छ उत्क्लेशे । उत्क्लेशः । पीडा । मिमिच्छा । अमिच्छीत् । 1299 जर्ज 1300 चर्च 1301 झर्झ परिभाषणभर्त्सनयोः 1302 त्वच संवरणे । तत्वाच । 1303 ऋच स्तुतौ । आनर्च । 1304 उब्ज आर्जवे 1305 उज्झ उत्सर्गे 1306 लुभ विमोहने । विमोहनमाकुलीकरणम् । लुभति । लोभिता । लोब्धा । लोभिष्यति । 1307 रिफ कत्थनयुद्धमनिन्दायहिंसादानेषु । रिफति । रिरेफ । रिहेत्येके । शिशुं न विप्रा मतिभी रिहन्ति । 1308 तृप 1309 तृम्फ तृप्तौ । आद्यः प्रथमान्तः । द्वितीयो द्वितायान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता ॥ स्पृशमृशेति सिज्विकल्पः पौषादिकस्यैव अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वात् अनिदिताम्---(कौमुदी-415) इति नलोपे ॥ ।शे तृम्फादीनां नुम्वाच्यः (वार्तिकम्) ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फति । ततृम्फ । तृफ्यात् । 1310 तुप 1311 तुम्प 1312 तुफ 1313 तुम्फ हिंसायाम् । तुपति । तुम्पति । तुफति । तुम्फति । 1314 दृप 1315 दृम्फ उत्क्लेशे । प्रथमः प्रथमान्तः । द्वितायो द्वितायान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति । 1316 ऋफ 1317 ऋम्फ हिंसायाम् । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार । 1318 गुफ 1319 गुम्फ ग्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ । 1320 उभ 1321 उम्भ पूरणे । उभति । उवोभ । उम्भति । उम्भांचकार । 1322 शुभ 1323 शुम्भ शोभार्थे । शुभति । शुम्भति । 1324 दृभी ग्रन्थे । दृभति । 1325 चृती हिंसाग्रन्थनयोः । चर्तिता । सेसिचि-- (कौमुदी-2506) इति वेट् । चर्तिष्यति । चर्त्स्यात् । अचर्तीत् । 1326 विध विधाने । विधति । वेधिता । 1327 जुड गतौ । तवर्गपञ्चमान्त इत्येके । जुडति । मरुतो जुनन्ति । 1328 मृड सुखने । मडति । मर्डिता । 1329 पृड । पृडति । 1330 पृण प्रीणने । पृणति । पपर्ण । 1331 वृण। वृणति । 1332 मृण हिंसायाम् 1333 तुण कौटिल्ये । तुतोण । 1334 पुण कर्मणि शुभे । पुणति । 1335 मुण प्रतिज्ञाने 1336 कुण श्ब्दोपकरणयोः 1337 शुन गतौ 1338 द्रुण हिंसागतिकौटिल्येषु 1339 घुण 1340 घूर्ण भ्रमणे 1341 षुर ऐश्वर्यदीप्त्योः । सुरति । सुषोर । आशिषि सूर्यात् । 1342 कुर शब्दे । कुरति । कूर्यात् । अत्र न भकुर्छुरम् (कौमुदी-1629) इति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः । 1343 खुर छेदने 1344 मुर संवेष्टने 1345 क्षुर विलेखने 1346 घुर भीमार्थशब्दयोः 1347 पुर अग्रगमने 1348 वृहू उद्यमने । दन्त्योष्ठ्यादिः । पवर्गीयादिरित्यन्ये । 1349 तृहू 1350 स्तृहू 1351 तृंहू हिंसार्थाः । तृहति । ततर्ह । स्तृहति । तस्तर्ह । स्तहिंता । स्तर्ढा । अतृंहीत् । अतार्ङ्गक्षीत् । अतार्ण्ढाम् । 1352 इष इच्छायाम् । इषुगमि--(कौमुदी-2400) इति छः । इच्छति । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् । 1353 मिष स्पर्धायाम् । मिषति । मेषिता । 1354 किल श्वैत्यक्रीडनयोः 1355 तिल स्नेहने 1356 चिल वसने 1357 चल विलसने 1358 इल स्वप्नक्षेपणयोः 1359 विल संवरणे । दन्त्योष्ठ्यादिः । 1360 बिल भेदने । ओष्ठ्यादिः । 1361 णिल गहने 1362 हिल भावकरणे 1363 शिल 1364 षिल उञ्छे 1365 मिल श्लेषणे 1366 लिख अक्षरविन्यासे । लिलेख । 1367 कुट कौटिल्ये । गाङ्कुटादिभ्यः---(कौमुदी-2461) इति ङित्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता । 1368 पुट संश्लेषणे 1369 कुच सङ्कोचने 1370 गुज शब्दे 1371 गुड रक्षायाम् 1372 डिप क्षेपे 1373 छुर छेदने । न भकुर्छुराम् (कौमुदी-1629) इति न दीर्घः । छुर्यात् । 1374 स्फुट विकसने । स्फुटति । पुस्फोट । 1375 मुट आक्षेपमर्दनयोः 1376 त्रुट छेदने । वाभ्रास--(कौमुदी-2321) इति श्यन्वा । त्रुट्यति । त्रुटति । तुत्रोट । त्रुडिता । 1377 तुट कलहकर्मणि । तुटति । तुतोट । तुटिता । 1378 चुट 1379 छुट छेदने 1380 जुड बन्धने 1381 कड मदे 1382 लुट संश्लेषणे 1383 कृड घनत्वे । घनत्वं सान्द्रता । चकर्ड । कृडिता । 1384 कुड बाल्ये 1385 पुड उत्सर्गे 1386 घुट प्रतिघाते 1387 तुड तोडने । तोडनं भेदः । 1388 थुड 1389 स्थुड संवरणे । थुडति । तुथोड । तुस्थोड । खुड छुड इत्येके । 1390 स्फुर 1391 स्फुल संचलने । स्फुर स्फुरणे । स्फुल संचलन इत्येके ॥
विज इट् - विज इट् । "गाङ्कुटादिभ्यः" इत्यतो ङिदित्यनुवर्तते । तदाह - विजेः पर इत्यादि । उद्विजिता । उद्विजिषीष्ट ।उदविजिष्ट । व्रश्चधातुरूदित्त्वाद्वेट् । ग्रहिज्येति । लटि व्रश्च् अति इति स्थिते शस्याऽपित्त्वेन ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः ।तदाह - वृश्चतीति । वृश्चतः वृश्चन्तीत्यादि । वव्रश्चेति । णलि रूपमिदम् । थलि च प्रक्रिया अनुपदं वक्ष्यते । अतुसादौ संयोगात्परत्वेन कित्त्वाऽभावात्ग्रहिज्ये॑ति न संप्रसारणम् । तदाह — वव्रश्चतुरिति । ऊदित्त्वात्थलि वेट् । तदाह — वव्रश्चिथ वव्रष्ठेति । धातुपाठे "व्रश्चू" इत्यत्र व्रस् च् इति सथिते सस्य श्चुत्वेन शकारनिर्देशः । तता च वव्रश्च् थ इति स्थिते श्चुत्वनस्याऽसिद्धत्वात् "स्कोः" इति सकारलोपे, चस्यव्रश्चे॑ति षत्वे, ष्टुत्वेन थस्यठत्वे, वव्रष्ठेतिरूपम् । वव्रश्चिव । ननु णलि थलि च अकितिद्वित्वे कृतेलिटब्यासस्ये॑त्यब्यासावयवयोर्वकाररेफयोद्र्वयोरपि संप्रसारणं स्यात् । न चन संप्रसारणे संप्रसारण॑मिति वकारस्य संप्रसारणनिषेधः शङ्क्यः, पूर्वं वकारस्य संप्रसारणसंभवादित्यत आह — लिटभ्यासेति । "न संप्रसारणे" इति निषेधादेव ज्ञापक#आत्प्रथमं रेफस्य ऋकारः संप्रसारणमित्यर्थः । तस्यसंप्रसारणसंपन्नस्य ऋकारस्य अकारविधं स्मारयति - उरदिति । ननु ऋकारस्य अकारे कृते वकारस्य संप्रसारणं स्यात्, संप्रसारणपरकत्ववविरहेण "न संप्रसारणे" इति निषेधाऽप्रवृत्तेरित्यत आह — तस्य चेति । अकारस्येत्यर्थ- । न च उरदत्त्वस्य परिनिमित्तक्तवाऽश्रवणात्कथं स्थानिवत्त्वमिति वाच्यम्,अपादपरिसमाप्तेरङ्गाधिकार॑ इत्यभ्युपगम्य अह्गाक्षिप्रत्ययनिमित्तकत्वाभ्युपगमात् ।लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रितिन्यायस्तु "न संप्रसारणे" इति निषेधादेव न स्थानिबेदे प्रवर्तत इति ज्ञायते । अत एव "सुद्ध्युपास्य" इत्यादौ धकारस्य द्वित्वे कृते पूर्वधकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तां तावत् । आशीर्लिङ्याग - वृश्च्यादिति । कित्त्वात्संप्रसारणमिति भावः । अव्राक्षीदिति । अव्रश्च् सीत् इति स्थिते हलन्तलक्षणावृद्धिः । श्चुत्वस्याऽसिद्धत्वात् "स्कोः" इति सलोपः ।व्रश्चे॑ति चस्य षः, तस्यषढो॑रिति कऋः, सस्य ष इति भावः ।नकारजावनुस्वरपञ्चमौ झलिधातुषु । सकारजः शकारः श्चे, र्षाट्टवर्गस्तवर्गजः । इत्याहुः । व्यच । सेट् । शेग्रहिज्ये॑ति संप्रसारणं मत्वाह - विचतीति । वव्याचेति ।लिटभ्यासस्ये॑त्यभ्यासयकारस्य संप्रसारणम् । "न संप्रसारणे" इति न वकारस्य । विविचतुरिति । कित्त्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वितवादीति भावः । विव्यचिथ । विविचिव । विच्यादिति । आशीर्लिङि कित्त्वाद्यकारस्य संप्रसारणम् ।अतो हलादे॑रिति वृद्धिविकल्पं मत्वाह - अव्याचीत् अव्यचीदिति । ननुव्यचेः कुटादित्वमनसी॑ति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यतीत्यादावपि "गाङ्कुटादिभ्यः" इति ङित्त्वात् संप्रसारणं स्यादित्यत आह- व्यचेरिति । कृन्मात्रेति । अवधारणे मात्रशब्दः । "उछि उञ्छे" "उछी विवासे" इति भ्वादौ पठितौ । इह तयोः पाठस्तु शविकरणार्थः । तेन उञ्छती उञ्छन्ती, उच्छती उच्छन्ती इतिआच्छीनद्यो॑रिति नुम्विकल्पः सिध्यति । भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तरः । ऋच्छ गतीति ।छे चे॑ति तुकि तस्य शचुत्वेन चकानिर्देशः । ऋच्छति । णलि लघूपधत्वाऽभावाद्गुणे अप्राप्ते आह - ऋच्छत्यृतामिति । द्वित्वे उरदत्त्वे हलादिशेषेअत आदे॑रिति दीर्घे आ अच्र्छ इति स्थिते बहुहल्त्वाद्विहल्त्वाऽभावान्नुटि अप्राप्ते आह - द्विहल्ग्रहणस्येति । आनच्र्छेति.॒इजादे॑रित्यत्र "अनृच्छः" इति पर्युदासादाम्न । ऋच्छतेति ।ऋच्छत्यृता॑मित्यत्र लिटीत्यनुवृत्तेर्न गुण इति बावः । लुभधातुः सेट् ।तीषसहे॑ति वेडिति मत्वाह- लोभिता लोब्धेति । शिशुं नेति ।नशब्द इवार्थे । विप्राः शिशुमिव मतिभिः रिहन्ति = हिंसन्तीत्यर्थः । तृपधातुः श्यन्विकरण एवाऽनिट् । अङपवादत्वादिति । अपवादस्य उत्सर्गसमानदेशत्वादिति भावः । चृती हिंसाश्रन्थनयोरिति । श्रन्थनं विरुआंसनम् । चृततीत्यादि सुगमम् ।अथास्य योकं विचृते॑दित्याआलायनः । विरुआंसयेदित्यर्थः , उपसर्गवशात् ।यजमानो मेखलं विचृतते॑ इत्यापस्तम्बसूत्रे तु तङ् आर्षः । षुरधातुः षोपदेशः । कुर शब्दे । करोतेरेवेति । व्याख्यानमेवाऽत्र शरणम् । वृहूधातुः ऋदुपधः । ऊदित्त्वाद्वेट्कः । पवर्गादिरिति । पवर्गतृतीयादिरित्यर्थः । तृहू स्तृहू तृंहू इति । त्रयोऽपि ऋकारवन्तः । तृतीयोऽनुस्वारवान् । उदित्त्वाद्वेट् । तर्ढेति । तृहेस्तासि ढत्वध्तवष्टुत्वढलोपाः । एवं स्तर्ढा । तृण्ढा । अतर्हीत् अतार्क्षीत्, अस्तर्हीत् अस्तार्क्षीदिति सिद्धवत्कृत्याह - अतृंहीत् - अतार्ङ्क्षीदिति । तृंहेरिडभावपक्षे हलन्तलक्षणवृद्धौ रपरत्वम् । हस्य ढः, ढस्य कः, षत्वम् । अनुस्वारस्य परसवर्णो ङकार इति भावः । अतार्ढामिति । तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढञलोपा इति भावः । एव [स्तृहेः-] अस्तार्ढाम् [तृंहः] अतार्ण्ढाम् । स्फुर स्फुरणे ।
विज इट् - विज इट् । इहवृद्धिर्यस्ये॑ति सूत्रान्मण्डूकप्लुत्या यस्यादिरिति अनुवर्तते, तेन इडादिप्रत्ययो लभ्यत इति मनोरमायां स्थितम् । नव्यास्तु इह इडित्यनेनोत्तमैकवचनं न गृह्रते, तथाच सति विजिषीयेत्यत्रैव स्यान्न तूद्विजितेत्यादौ । ततश्चेष्टसिद्ध्यर्थमिडागमो गृह्रते ।तस्य तु ङित्त्वं व्यर्थम्, तन्निमित्तगुणस्याऽप्राप्तेः, अतो लक्षणया इड्वान् गृह्रते । इट् प्रत्ययस्यादिरिति । फलितार्थकथनम् — इडादिप्रत्ययो ङिद्वदिति । एंच इडादिरिति लाभाय यस्यादिरित्यनुवर्तनक्लेशो व्यर्थ एवेत्याहुः । इह ओविजीति तुदादी रुधादिश्च गृह्रते न तुविजिर्पृथग्भावे॑ इति जुहोत्यादिः, व्याख्यानात् । यस्त्वत्र हरदत्तेन जुहोत्यादेरग्रहणे हेतुरुक्तःतस्यानिट्कत्वा॑दिति , तदयुक्तम् । क्रादिनियमनेन लिटि इट्संभवात् । न च तत्र कित्त्वेन गतार्थत्वादिटो ङित्त्वं व्यर्थमिति वाच्यम्, अपिल्लिटः कित्त्वेऽपि विवेजिथेत्यत्र पित्त्वेन ङित्त्वाऽभावात् । वव्रश्चेति । अत्र नव्याः — वव्रश्चे॑त्यादौलिटभ्यासस्ये॑ त्यभ्यासावयवयोद्र्वयोरपि यणोः संप्रसारणप्रसक्तौ पूर्वस्य यणो निषेधायन संप्रसारणे॑इति सूत्रं स्वीक्रियते । ततश्चअत एव ज्ञापकात्परस्य प्रथमं संप्रसारण॑मिति परिकल्प्यआ पादपरिसमाप्तेरङ्गाधिकार॑ इति पक्षमभ्युपगम्य उरदत्वस्याङ्गाक्षिप्तप्रत्ययनिमित्तकत्वस्वीकारात्अचः परस्मि॑न्निति स्थानिवद्भावप्रवृत्या संप्रसारणपरत्वामाश्रित्य वकारस्य संप्रसारणनिषेधः कथंचिदुपपद्यते ।परस्य संप्रसारणं॑,परस्य यणः संप्रसारण॑ मिति वा सूत्रिते तु परस्यैव संप्रसारणं न तु पूर्वस्य यण इत्यर्थलाभादुक्तक्लेशं विनैव वव्रञ्च यून इत्यादि सर्वं सिध्यति । नचैवंलिटि वयो यः॑वेञः॑ इत्यत्र संप्रसारणनिषेधाय नञोऽनुवृत्तिर्न लभ्येतेति वाच्यं,न लिटि वयो यः॑ इति सूत्रकरणे बाधकाऽभावात्,न संप्रसारणे॑इति यथाश्रुतसूत्रप्रणयने त्वन्ततो मात्राद्वयस्याधिक्याच्च । एवं च लघूपायेनेष्टसिद्धौन संप्रसारणे॑ इति सूत्रारम्भो ज्ञापयतिनिमित्तभेदाऽभावेऽपि स्थानिभेदे पुनरपि कार्यं प्रवर्तते॑ इति । तथा चसुद्ध्युपास्य॑ इत्यादौ धकारस्य द्वित्वे कृते पुनरुकारात्परस्य दकारस्यापि द्वित्वमिति प्रक्रियाकारादिव्याख्यानं सूत्रकाराभिप्रेतमेव । यदि स्थानिभेदेऽपि निमित्तैक्ये कार्याऽप्रवृत्तिः क्वचिद्दृश्यते तत्र तुज्ञापकसिद्धं न सर्वत्रे॑ति स दोषः परिह्यियतामित्याहुः । अव्रश्चीदिति । ऊदित्त्वात्पक्षे इट् ।वदव्रजे॑ति वृद्धेःनेटी॑ति निषेधः । अब्राआक्षीदिति ।स्को॑ रिति सलोपः ।व्रश्चे॑ति षः ।षढो॑रिति कः । ततः सस्य षत्वम् । न चाऽत्र सकारस्य कथं लोप इति वाच्यं , धातुपाठे सकारस्य पाठात् । तदाहुः — नकारजावनुस्वारपञ्चौ झलि धातुषु । सकारजः शकारश्चे, र्षाट्टवर्गस्तवर्गजः॑ । इति । व्यच । व्याजीकरणं छद्मकरणम् । पर्युदासेनेति । प्रसज्यप्रतिषेधे हि वाक्यभेदोऽसमर्थसमासश्च प्रसज्येतेति भावः । कृन्मात्रविषयत्वादिति । तेन उद्विचिता उद्विचितुमित्यत्र संप्रसारणं भवति । व्यचिता व्यचिष्यतीत्यादौ तु तिङ्विषये न भवति । विव्याचेत्यत्र कुटादित्वे जातेऽपि न क्षतिः, गाङ्कुटादिभ्यः॑ इति सूत्रेअञ्णितः प्रत्यया ङितः स्यु॑ रित्युक्तत्वात् । उत्तमे णलि तु णित्त्वाऽभावपक्षे ङित्त्वात्संप्रसारणेविव्यचे॑ति न सिध्येदिति — अनसी॑ति पर्युदास आवश्यक इति बोद्ध्यम् ।उझछी उञ्छे उछी विवासे॑ । इमौ भ्वादिगणे व्याख्यातौ ।इह पाठस्तु उञ्छनती, [उञ्छती,उच्छन्ती, उच्छती इ]त्यत्रआच्छीनद्यो॑रिति नुम्विकल्पार्थः । पूर्वं पाठस्तु स्वरार्थः । तथाहि उञ्छति उच्छतीत्यादौ पिद्वचने शप्तिबादीनां पित्त्वादनुदात्तत्व#ए धातुस्वरेणाद्युदात्तं पदम् । शे तु प्रत्ययस्वरेण मध्योदात्तमिति । न चसति शिष्टस्वरेबलीयस्त्वमन्यत्र विकरणेभ्यः॑ इति वक्ष्यमाण्वात्कथमिह मध्योदात्ततेति वाच्यं, कुरुत इत्यादौ तसादेर्विकरणात्परत्वेन तत्स्वरस्योदात्तस्य विकरणस्वरापेक्षया प्रबलत्वेऽपि शस्य धातोः परत्वेन धातुस्वरापेक्षया शस्वरस्योदात्तस्य प्रबलत्वात् । उपलक्षणत्वादिति । अत एवअदुपधस्य चेदश्नोतेरेवे॑ति नियममाश्रित्य द्विहल्ग्रहणं भाष्यकारैः प्रत्याख्यातम् । अन्यथा तन्न सङ्गच्छेतेति भावः । आनच्र्छेति ।अनृच्छ॑ इति पर्युदासान्नाऽ‌ऽम् । नव्यास्तुऋच्छत्यृता॑मिति लिटिपरे गुणविधानसामथ्र्यादामभावः सिद्ध इति सर्वैरेव व्याख्यातत्वाद्गणान्तरेऽपि ऋच्छिरस्तीत्यनुमीयते । तद्धातोस्तु लिटआम्निवारणायअनृच्छ॑ इत्येतदावश्यकमित्याहुः । मिच्छ । उत्कटः क्लेश उत्क्लेशः । ऋच स्तुतौ । ऋच्यते स्तूयते देवतादिकमनयेति ऋक् । बाहुलकादिह करणे क्विप् । लोभिता । लोब्धा ।तीषसहे॑ति वेट् । शिशुं न विप्रा इति । न शब्द इवार्थे । विप्राः = ब्राआहृणाः शिशुमिव मतिभी रिहन्ति = हिंसन्ति । न्यूनीकुर्वनतीत्यर्थः । वृती हिंसाग्रन्थनयोः । ईदित्करणंआईदितो निष्ठाया॑मितीण्निष#एधार्थम् । यद्यप्यस्य वेट्कत्वान्निष्टायामिण्निषेधः सिध्यति, तथापियस्य विभाषे॑त्यस्याऽनित्यतां ज्ञापयितुमीदित्करणम् । तेनधावितमिभराजधिये॑त्यादि सिद्धमित्याहुः । *शे तृम्फादीनां नुम्वाच्यः । कुर शब्दे । करोतेरेवेति । सुप्रसिद्धत्वात् ।कुर्यादित्युक्तं हि लोकानां कृञ एवोपस्थितिर्भवति न त्वस्येति भावः । मुर संवेष्टने । इगुपधलक्षणः कः । मुरो दैत्यः । मुरारिर्विष्णुः । क्षुर विलेखने । विलेखनं — छेदनम् ।केशान् क्षुरति॑ ।इगुपधे॑ति कः । क्षुरः शस्त्रम् । तिल स्नेहने । तिलति ।इगुपधे॑ति कप्रत्यये तिलः ।तिल गतौ॑ तेलतीति शपि [गतम्] लिख अक्षरविन्यासे ।लिखितुंलिखिष्यती॑ति प्रयोगः प्रामादिकः । यत्तु कैश्चित् — -कुटस्यादिः कुटादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्च कुटादयश्च कुटादय इत्येकशेषं स्वीकृत्यलिखितु॑मित्यादि समर्थितम् । तदसत् ।लेखिता॑लेखिष्यती॑त्यादौ गुणनिषेधापत्तेः । न चेष्टापत्तिः, वृत्तिकारहरदत्तादिग्रन्थविरोधात् ।गाङ्लिखादिभ्यः॑ इत्येव सूत्रितव्येकुटादिभ्य॑इति पठनस्य स्वारस्यभङ्गापत्तेश्च । किं चशकुनिष्वालेखने॑ इतिसौत्रप्रयोगोऽपि विरुध्यत इति प्रागेवोक्तमित्यास्तां तावत् ।लिखापयती॑ति प्रयोगस्तु मनोरमायामित्थं समर्थितः — , आपनम् आपः = प्राप्तिः, लिखस्यापो लिखापः,तं करोतीति । स्फुट विकसने । स्फुट विकसने । स्फुटत्यर्थोऽस्मादिति स्फोटः । स च पदस्फोटवाक्यस्फोटादिभेदेनानेकविधः । कड मदे । कुटादिकार्याऽभावेऽपि डान्तानुरोधेनाऽयं कुटादौ पठितः । भ्वादौ पठितस्य पुनरत्र पाठः शतरि नुम्विकल्पार्थः । पूर्वंपाठस्तु उच्छतीत्यादाविव कडतीत्यादौ आद्युदात्तार्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.