॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|17
SK 2389
1|2|17
स्था घ्वोरिच्च
SK 2389
सूत्रच्छेद:
स्था-घ्वोः - षष्ठीद्विवचनम् , इत् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सिजात्मनेपदेषु इति वर्तते । तिष्ठतेर्धातोः घुसंज्ञकानां च इकारश्च अन्तादेशः सिच् च किद् भवति आत्मनेपदेषु परतः । उपास्थित, उपास्थिषाताम्, उपास्थिषत । घुसंज्ञकानाम् - अदित, अधित ।
इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृतेऽपि सः ।
अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः ॥1॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
चकारेण कित्वं समुच्चीयत इत्याह--सिच्च किदिति । प्रयोजनं गुणो मा भूदिति । इत्वं तु गुणविधानार्थमेव स्यात्; लघुत्वात् । उपास्थितेति । ऽउपान्मन्त्रकरणेऽ ऽअकर्मकाच्चऽ इत्यात्मनेपदम्, ऽह्रस्वादङ्गात्ऽ इति सिचो लोपः । न चेत्वं सिजीत्युच्यते, किं तर्हि ? इकारश्चान्तादेशस्सिच्च किद्भवतीत्येतावत् । तेनेत्वस्यासिज्निमितत्वाद् भवत्येव लोपः । इच्चेत्यादि । तकार इद्यस्य तस्य भावः तकोरेत्वम्, इच्चेत्यत्र निर्देशे कस्य, कार्यस्य सिद्धये इकारस्य तकारेत्वं क्रियत इत्यर्थः । दीर्घो मा भूदिति । आन्तर्यतः प्राप्नोतीति भावः । ऋतेऽपि स इति । इकारविधानेनापि विनेत्यर्थः । कित्वे हि घुमास्थादिसूत्रेणैव दीर्घस्सिद्धः, तस्मादित्वविधानसामर्थ्याद् अनन्तरतमोऽपि ह्रस्व एव भविष्यतीत्यर्थः । भाव्यमानोऽण्सवर्णान्न गृह्णाति इत्ययमप्यत्र परिहारः संभवति । अनन्तर इति । असदृश आदेशे क्रियमाणे ह्रस्व इव प्लुतोऽपि स्यात्,स मा भूदित्यर्थः । प्लुतश्चेति । अनेन तपरत्वं प्रत्याख्यायते । यद्यनेन प्लुतो विधीयेत, तदा यत्र विषये ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इत्यादिना प्लुतो विहितस्तत्राप्यनेनैव स्याद्, अस्मिन्कर्तव्ये तस्यासिद्धत्वादिति पक्षेऽनुवाददोषः प्राप्नोति,ततो ह्रस्व एव भविष्यति । अन्ये तु तपरत्वमनेन समर्थितं मन्यन्तेअसति तकार आन्तरयंतो दीर्घस्य दीर्घः प्राप्नोति । ननु चोक्तम्-ऽसिद्धोऽत्र दीर्घःऽ इति ? सिद्धे सत्यारम्भो नियमार्थः स्याद्-दीर्घ एव यथा स्यात् प्लुतो मा भूदिति तदिदमुक्तम्--अन्न्तर इत्यादिना । घुमास्थादिसूत्रेणानेन वा दीर्घे सति यद्यपि विशेषो नास्ति, तथाप्यनन्तरेऽविद्यमानेऽपि विशेषे प्लुतो मा भूदिति दीर्घः स्यादित्यर्थः । मा भूद् इति चेत् तत्राह-प्लुतश्चेति । स चासति तपरत्वे न प्राप्नोति, सति तु तस्मिन् दीर्घस्याप्रसङ्गाद्विधिरेव संपद्यत इति स्वविषये प्लुतो न व्यावर्त्यते । तदेवमन्यत्र भिन्नकालनिवृत्यर्थं तपरकरणम्, इह तु दीर्घनिवृत्यर्थं प्लुतप्रवृत्यर्थं च वस्तुबलात्समपादि ॥
सिद्धान्तकौमुदी
अनयोरिदादेशः स्यात् सिच्च कित्स्यात्तङि । अदित । अदिथाः । अदिषि । 963 श्यैङ् गतौ । श्यायते । शश्ये । 964 प्यैङ् वृद्धौ । प्यायते । पप्ये । प्याता । 965 त्रैङ्‌ पालने । त्रायते । तत्रे । 966 पूङ् पवने । पवते । पुपुवे । पविता । 967 मूङ् बन्धने । मवते । 968 डीङ् विहायसा गतौ । डयते । डयिता । 969 तॄ प्लवनतरणयोः
लुङि सिचि अदास् त इति स्थिते-- स्थाध्वोरिच्च। `असंयोगाल्लिट्` इत्यतः किदिति, `हनस्सि`जित्यतः सिजिति चानुवर्तते। तदाह--- अनयोरित्यादिना। परस्मैपदेषु नेदं प्रवर्तते, तत्र `गातिस्थे` ति सिचो लुका लुप्तत्वात्। अत एव `लिङ्?सिचौ` इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, व्यवर्त्त्याऽभावात्। अदितेति। इत्त्वेकृते `ह्रस्वादङ्गा`दिति सिचो लुक्। त इत्यस्य ङित्त्वादिकारस्य न गुणः। आतामादौ तु इत्वे कृतेऽपि सिचो न लुक्, झलिपरतएव लुग्विधेः। सिचः कित्त्वादिकारस्य न गुणः। अदिषाताम् अदिषत। अदिथाः अदिषाथाम्। अदिढ्वम्। अदिषीति। अदिष्वहि अदिष्महि। अदास्यदित्यपि ज्ञेयम्। श्यैङ् गतौ। श्यायते इति। शपि आयादेशः। शिद्विषत्वादात्वं नेति भावः। शश्ये इति। एशि आत्वे आतो लोपः। शश्याते शश्यिरे। क्रादिनियमादिट्। शश्यिषे शश्याथे शश्यिध्वे। शश्ये शश्यिवहे शश्यिमहे। श्याता। श्यास्यते। श्यायताम्। अश्यायताम्। अश्यायत। श्यायेत। श्यासीष्ट। अश्यास्त। अश्यास्यत। प्यैङ्धातुरपि श्यैङ्वत्। त्रैङप्येवम्। पूङ् पवने इति। पवते इति। सेट्, ऊदन्तानामनिट्?सु पर्युदासात्। पवते इति। शपि गुणः। अवादेशः। पुपुवे इति। कित्त्वाद्गुणाऽभावे उवङ्। पुपुवाते पुपुविरे। पुपुविषे पुपुवाथे पुपुविध्वे। पुपुवे पुपुविवहे पुपुविमहे। पविता। पविष्यते। पवताम्। सेडयम्, अनिट्सु डीङः पर्युदासात्। डयते इति। शपि ईकारस्य गुणेऽयादेश इति भावः। डिड�ए डिडि�वहे डिडि�महे। डयिता। डयिष्यते। डयताम्। अडयत। डयेत। डयीषीष्ट डयिषीयास्ताम्। डयिषीरन्। डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्-डयिषीध्वम्। डयिषीय डयिषीवहि डयिषीमहि। अडयिष्ट।अडयिष्यत। इति स्मिङादयो डीङन्ता ङितः। तृ?धातुः सेट् परस्मैपदी। अनिट्सु ॠदन्तपर्युदासात्सेट्।
स्थाध्वोरिच्च। इह `लिङ्सिचौ`इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, परस्मैपदेषु `गातिस्थे` तिलुकः प्रवृत्तेर्व्यावर्त्त्याऽलाभात्। अस्थित। अस्थिषाताम्। `भाव्यमानोऽण् क्वचित्सवर्णान् गृह्णाती`त्यत्रेदमपि तपरकरणं लिङ्गमित्याहुः। अत्र वदन्ति-- विधीयमानस्य सवर्णग्राहकत्वेऽपि तपरकरणमिह व्यर्थम्। न चात्र दीर्घः स्यादिति वाच्यं, `घुमास्थे` त्यनेनैव तत्सिद्धा विधिवैयर्थ्यापत्तेः। न चैवमपि प्लुतः स्यादिति वाच्यं, `प्लुताऽप्लुतप्रसङ्गे `प्लुतश्च विषये स्मृतः` इति सिद्धान्तादिति। डीङ्। विहायसा-- आकाशेन। `विहायसा` मिति पाठस्त्वनाकर इत्याहुः।
लघुसिद्धान्तकौमुदी
अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे। अदित। अदास्यत्, अदास्यत॥ डु धाञ् धारणपोषणयोः॥ 10॥ दधाति॥
महाभाष्यम्
स्थाघ्वोरिच्च - इच्च कस्य तकारेत्त्वम् - कस्य हेतोरिकारस्तपरः क्रियते? - दीर्घो मा भूत् - दीर्घो मा भूदिति। - ऋतेपि सः - अन्तरेणाप्यारम्भं सिद्धोऽत्र दीर्घः घुमास्थागापाजहातिसां हलिः 6|4|66 इति। - अनन्तरे प्लुतो मा भूत् - इदं तर्हि प्रयोजनम्- अनन्तरे प्लुतो मा भूदिति। कुतो नु खल्वेतत् अनन्तरार्थ आरम्भे ह्रस्वो भविष्यति, न पुनः प्लुत इति?। - प्लुतश्च विषये स्मृतः - विषये प्लुत उच्यते। यदा च स विषयो, भवितव्यमेव तदा प्लुतेन। इच्च कस्य तकारेत्वं दीर्घो मा भूदृतेऽपि सः। अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः ।। 1 ।। स्थाघ्वोरिच्च ।। 17 ।।