॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|12
SK 2368
1|2|12
उश्च
SK 2368
सूत्रच्छेद:
उः - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ऋवर्णान्ताद् धातोः परौ लिङ्सिचौ आत्मनेपदेषु झलादी कितौ भवतः । कृषीष्ट , हृषीष्ट । सिचः खल्वपि - अकृत, अहृत । झलित्येव - वरिषीष्ट, अवरिष्ट, वॄतो वा 7|2|38 - अवरीष्ट ॥
लिङसिचाविहानुवर्तमानौ धातुं सन्निधापयतः, तत एव तयोर्विधानात्। न च ऋकारेण विशिष्यते। `येन विधिस्तदन्तस्य ` 1|1|71 इति ऋकारेण तदन्तविधिर्विज्ञायत इत्याह--`ऋकारान्ताद्धातोः` इत्यादि। अथ `ऋ गतौ` (धातुपाठः-1098) इत्यस्य धातोग्र्रहणं कस्मान्न भवति? शैलीहेयमाचार्यस्य यत्र यस्य धातोग्र्रहणमिच्छति तत्र यस्य श्तिपा निर्देशः करोति, यथा-- `अर्तिपिपत्र्योश्च` 7|4|77 `सर्तिशास्त्यर्तिभ्यश्च` 3|1|56 इति, न चेह श्तिपा निर्देशः कृतः; तस्मादृवर्ण्सयैवेदं ग्रहणम्, न धातोः। `अकृत` इति। `ह्यस्वादङ्गात् 8|2|27 इति सिचो लोपः। `वरिषीष्ट` इति। वृङो वृञो वैकस्य रूपम्। `लिङसिचोरात्मनेपदेषु` 7|2|42 इतीट्।
लिङसिज्भ्यामाक्षिप्तस्य धातोरुरित्यनेन तदन्तविधिरित्याह- ऋवर्णान्तादिति । ऽऋ गतौऽ इत्यस्य तु ग्रहणं न भवति; ऽसर्तिशास्त्यर्तिश्चऽ इत्यङे विधानेन सिचोऽसम्भवात् । नन्वङ्विधौ कर्तरीत्यनुवृतेः कर्मणि सिजपि सम्भवति, एवं तर्हि शैलीयमाचार्यस्य यत्रास्य धातोर्ग्रहणमिच्छति तत्र श्तिपा निर्देशं करोति-ऽअर्तिपिपर्त्योश्चऽ,ऽसर्तिशास्त्यर्तिभ्यश्चऽ इति स्वरूपेणापि ग्रहणं दृष्टम् । एवं तर्हि व्याप्तिन्यायाद्वर्णग्रहणम् । अकृतेति । ऽह्रस्वादङ्गात्ऽ इति सिचो लोपः । अवरिष्टेति । ऽलिङसिचोरात्मनेपदेषुऽ इतीट् । ऽवा गमःऽ । संगंसीष्टेति । ऽसमो गम्यर्च्छिऽ इत्यात्मनेपदम् ॥
सिद्धान्तकौमुदी
ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ । कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ॥
आशीर्लिङि भृषीष्टेत्यत्र गुणे प्राप्ते-- उश्च। `लिङ्गिचावात्मनेपदेषु` इति सूत्रमनुवर्तते। `इको झ`लित्यतो झलिति च। तदाह--ऋवर्णादिति। भृषीष्टेति। कित्त्वान्न गुणः। अभार्षीदिति। परस्मैपदे सिचि वृद्धौ रपरत्वम्।
उश्च। `इको झ`लित्यतो झल्ग्रहणं , `लिङ्सिचौ` इति पूर्वसूत्रं चानुवर्तते। तदाह-- ऋवर्णादित्यादि। अभार्षीदिति। `सिचि वृद्धि`रिति वृद्धिः।
लघुसिद्धान्तकौमुदी
ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट। भृषीयास्ताम्। अभार्षीत्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!