Page loading... Please wait.
1|1|75 - एङ् प्राचां देशे
॥ तस्मै पाणिनये नम: ॥
1|1|75
SK 1338
एङ् प्राचां देशे   🔊
सूत्रच्छेद:
एङ् - प्रथमैकवचनम् , प्राचाम् - षष्ठीबहुवचनम् , देशे - सप्तम्येकवचनम्
अनुवृत्ति:
यस्य  [1|1|73] - षष्ठ्येकवचनम् , अचाम्  [1|1|73] (निर्धारणषष्ठी) - षष्ठीबहुवचनम् , आदिः  [1|1|73] - प्रथमैकवचनम् , तत्  [1|1|73] - प्रथमैकवचनम् , वृद्धम्  [1|1|73] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
एङ् यस्य अचाम् आदिः तत् प्राचाम् देशे वृद्धम्
सूत्रार्थ:
यः शब्दः पूर्वदिशायाः देशस्य नाम दर्शयति, तथा यस्य प्रथमः स्वरः एकारः ओकारः वा अस्ति, तस्य शब्दस्य वृद्धसंज्ञा भवति ।
"वृद्ध" इति व्याकरणविशिष्टा काचन संज्ञा । पूर्वदिशि विद्यमानाः ये देशाः, तेषाम् नाम्नः आदिवर्णः यदि एकारः ओकारः वा अस्ति, तर्हि तेषाम् वृद्धसंज्ञा भवति ।

"शरावती" नद्याः पूर्वदिशायां ये राष्ट्राः आसन्, तेषां निर्देशः "प्राचाम् देशे" इत्यनेन पाणिनिना कृतः अस्ति ।

यथा - एणीपचनीयः देशः। भोजकटीयः देशः। गोनर्दीयः देशः ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे प्रयुक्तः "प्राचाम्" अयं शब्दः वस्तुतः "देशे" इत्यस्य विशेषणम् अस्ति, "आचार्य" शब्दस्य न । अतः अत्र "प्राचाम् आचार्याणाम् मतेन वृद्धसंज्ञा भवति" इति अर्थः न लभते । परन्तु व्याख्यानेषु एतादृशः अर्थः अपि केषुचन स्थलेषु स्वीकृतः अस्ति । यथा, पदमञ्जरीकारः वदति - "प्राचां ग्रहणं न आचार्याणाम् इति दर्शयति । तथा हि सति मतेन अध्यायार्यं स्याद् इति भावः" । इत्यु्क्ते, पूर्वदिशि विद्यमानः यः देशः, तस्य नाम यदि एङ्-प्रत्याहारेण प्रारभते, तर्हि तस्य विकल्पेन वृद्धसंज्ञा भवति, इति अपि वक्तुं शक्यते ।

2. इदम् सूत्रम् नियमसूत्रम् अस्ति । अतः यः देशवाचीशब्दः, तस्य "एङादिः" अस्ति चेदेव वृद्धसंज्ञा भवति, अन्यथा न - इति अस्य आशयः । अतः "आहिच्छत्रः", "कान्यकुब्जः" - एतयोः अनेन सूत्रेण वृद्धसंज्ञा न भवति ।
One-line meaning in English
A word that indicates the name of an eastern country and whose first स्वर is ए/ओ gets the term "वृद्ध".
काशिकावृत्तिः
यस्य अचाम् आदिग्रहणम् अनुवर्तते । एङ् यस्य अचाम् आदिः तत् प्राचां देशाभिधाने वृद्धसंज्ञं भवति । एणीपचनीयः, भोजकटीयः, गोनर्दीयः । एङिति किम् ? आहिच्छत्रः, कान्यकुब्जः । प्राचाम् इति किम् ? देवदत्तो नाम बाहीकेषु ग्रामः, तत्र भवः दैवदत्तः । देशे इति किम् ? गोमत्यां भवा मत्स्याः गौमताः ।

प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा ।
विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ।

॥इति श्रीजयादित्यविरचितायां काशिकायाम् वृत्तौ प्रथमाध्यायस्य प्रथमः पादः ॥
`प्राचां देशाभिधाने` इति। प्राचां सम्बन्धी यो देशस्तदभिधान इत्यर्थः। एतेन प्राचामिति देशविशेषणं न विकल्पार्थमिति दर्शयति। प्राचां मतेनेत्यस्याविवक्षितत्वादित्याख्यातं भवति। `एणीपचनीयः` इत्यादि। एणीपचन इत्यादिभ्यच्छः। `आहिच्छत्रः` इति, `कान्यकुब्जः` इति अहिच्छत्रकान्यकुब्जशब्दाभ्यामणेव भवति। `देवदत्तः` इति। वृद्धा-धिकारे विहितो `वाहीकग्रामेभ्यश्च` 4|2|116 इति ठञ्ञिठौ न भवतः, काश्यपादि-पाठादपि तौ न भवतः; क्रियानिमित्तको हि देवदत्तशब्दस्तत्र पठते संज्ञाशब्दस्य चेदं प्रत्युदाहरणम्। एतच्च यदा `वा नामधेयस्य` (वा। 15) इति वृद्धसंज्ञा नास्ति;तदा वेदितव्यम्। `गौमताः`इति। अत्र सर्वमस्ति न तु देशाभिधानम्। तथा हि गोमती नदी प्रग्देशे, न देशः। न हि नदी देशग्रहणेन गृह्रते;`नदीदेशोऽग्रामाः` 2|4|7 इत्यत्र नद्याः पृथग्ग्रहणात्।`एङ् प्राचां देशे` इति। `उदीचां वृद्धादगोत्रात्` 4|1|157 इत्येवमादिषु प्रागुदञ्चौ श्रूयेते, तयोश्च विभागो न विज्ञायते। अतस्तत्परिज्ञानायाह-- `प्रागुदञ्चौ` इत्यादि। शरावती नाम नदी , तस्याः पूर्वेण व्यवस्थितो देशः प्राग्देशः, उत्तरेण उदग्देशः। तौ शरावती विभजते = विभागेन व्यवस्थापयति तस्यां हि मर्यादायां सत्यां तयोर्विभागः परिज्ञायते। किमर्थं विभजते? `विदुषां शब्दसिद्ध्यर्थम्` इति। पण्डितानां वैयाकरणानां शब्दव्युत्पत्त्यर्थम्। कतं विभजते? `हंसः क्षीरोदकं यथा`। क्षीरोदकमिति `जातिरप्राणिनाम्` 2|4|6 इत्येकवद्भावः। क्वचित् क्षीरोदके इति पाठः। सः `सर्वो द्वन्द्वो विभाषयैकवद्भवति` (व्या।प।91) इति वेदितव्यः। यथा हंसः क्षीरमुदकं च मिश्रीभावमुपगतं पृथगसङ्करेण व्यवस्थापयति, तथा शरावती प्रागुदञ्चौ। यत्-तदोर्नित्याभिसम्बन्दात् सेति वचनादनुक्तमपि येत्येतल्लभ्यते। या विभजते सा नोऽस्मान् पातु रक्षतु। प्रसिद्धस्तु पाठो यत्र श्लोके प्रागुदीचाविति, तत्राऽचः `उद ईत्` 6|4|139 इति भसंज्ञकस्योच्यमानः कथमीकारः? कथं च `उगिदचां सर्वनामस्थानेऽधातोः` 7|1|70 इति नुम न भवतीति चिन्त्यम्। अत्र वर्णयन्ति-- `अच्प्रत्यन्ववपूर्वात् सामलोम्नः` 5|4|75 इत्यत्राजितियोगविभागेनाच्प्रत्ययः कृतः, तेनात्राचि परतो भसंज्ञामीत्वं भवति। नुम् न भवति; अचा सर्वनामस्थानस्य व्यवहितत्वादिति।अनये तु प्रागुदीचमिति समाहारे कुर्वन्ति। तेषां `द्वन्द्वाच्चुदषहान्तात् समाहारे` 5|4|106 इति टचि समासान्ते कृते पूर्ववदीकारो नुमभावश्च भवति। क्वचित्तु प्रागुदीच इति पाटः। तत्रावयवदेशापेक्षया बहुत्वविवक्षायां बहुवचनम्।प्राग्देशानुदग्देशाश्च विभजत इत्यर्थः।श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायांकाशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यप्रथमः पादः
प्राचां देशाभिधान इति । प्राचि देशे ये वसन्ति ते प्राचः पुरुषास्तेषां सम्बन्धी यो देशस्तदबिधान इत्यर्थः । एतेन श्रुतस्य विशेषणं प्राचां ग्रहणं नाचार्याणामिति दर्शयति । तथा हि सति मतेनेत्यध्याहार्यं स्यादिति भावः । एणीपचनीय इत्यादि । एणीपचनादिभ्यश्च्छः । दैवदता इति । "वाहीकग्रामेभ्यश्च" इति वृद्धादिति विहितौ ठञ्ञिठौ न भवतः । काश्यादिपाठादपि न भवतः; तत्रापि वृद्धाधिकारात् । एवं क्रोडो नाम ग्रामस्तत्र भवः क्रौड इत्यणेव भवति । कुणिना तु प्राचांग्रहणमाचार्यनिर्देशार्थं व्याख्यातम्, बाष्यकारोऽपि तथैवाशिश्रियत् । तेन सेपुरं स्कोनगरं च वाहीकग्रामौ, तत्र "वाहीकग्रामेभ्यश्च" इति ठञ्ञिठौ भवतः--सैपुरिकी, सौपुरिका; स्कौनागरिकी, स्कौनगरिका । अस्य व्यवस्थितविभाषाविज्ञानाच्च क्रोडदेवदतशब्दयोरप्राग्देशवाचिनोष्ठञ्ञिठौ न भवतः । शैषिकेष्वेवार्थेष्वियं वृद्धिसंज्ञेष्यते । तेनापत्यविकारयोः "उदीचां वयवस्थितविभाषयैव सिद्धम् । वृत्तिकारपक्षे त्वेत्सर्वं वचनात्साध्यम् । गौमता इति । गोमती प्रग्देशे नदी देशग्रहणेन न गृह्यते, ङदीदेशोऽग्रामाः" इति नद्याः पृथग्ग्रहणात् "एड् प्राचां देशे" "उदीचां वृद्धादगोत्राद्" इत्यादिषु प्रागुदञ्चौ श्रुतौ, तयोर्विभागज्ञानार्थमाह-प्रागुदञ्चाविति । शरावती नाम नदी उतरपूर्वाभिमुखी, तस्या दक्षिणपूर्वंस्यां दिशि व्यवस्थितो देशः प्राग्देश; उतरपरस्यामुदग्देशः, तौ शरावती विभजते; तया मर्यादया तयो र्विभागो ज्ञायते । क्षीरोदकमिति । "जातिरप्राणिनाम्" इत्येकवद्भावः । क्वचित् "क्षीरोदके" इति पाठातत्र नियतव्यक्तिविवक्षया जातिपरत्वाभावाद् द्विवचनम् । किमर्थं विभजते ? विदुषां शब्दसिद्ध्यर्थम् । यद्यपि नद्या एवमुद्देशो न भवति --विदुषां शब्दा व्यवस्थिताः सिद्ध्यन्ति; तथापि तया हेतुभूतया व्यवस्थितं शब्दसाधुत्वमिति उद्देशोऽध्यारोप्यते । सैवंभूता सा नोऽस्मान् पातु । क्वचित् प्रागुदीचाविति पाठः, तत्र "अच्प्रत्यन्ववपूर्वात्" इत्यत्राजितियोगविभागादच्प्रत्ययः । "उद ईत्" इतीत्वम् । प्रगुदीचमिति पाठे समाहारद्वन्द्वः । "द्वन्द्वाच्चुदषहान्तात्समाहारे" इति टच् । क्वचित् प्रागुदीच इति पाठः, तत्रावयवबहुत्वस्य समुदाय आरोपः प्राग्देशान्नुदग्देशाÄश्चेत्यर्थः ॥
सिद्धान्तकौमुदी
एङ् यस्याचामादिर्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ् किम् । आहिच्छत्रः । कान्यकुब्जः ॥ ।वा नामधेयस्य वृद्धसंज्ञा वक्तव्या (वार्तिकम्) ॥ दैवदत्तः । देवदत्तीयः ॥
एङ् प्राचां देशे - एङ् प्राचां । देशविशेषनाम्नश्चेदेङादिरेव वृद्धसंज्ञक इति नियमार्थमिदम् ।वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वं, न त्वाधुनिकसंकेतितत्वमेव । तेन घटीयमित्यादि सिद्धम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
एङ् प्राचां देशे एङ् प्राचा देशे शैषिकेष्विति वक्तव्यम्। सैपुरिकी सैपुरिका, स्कौनगरिकी, स्कौनगरिकेति।।75।।