॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|72
SK 26
1|1|72
येन विधिस्तदन्तस्य
SK 26
सूत्रच्छेद:
येन - तृतीयैकवचनम् , विधिः - प्रथमैकवचनम् , तदन्तस्य - षष्ठ्येकवचनम्
अनुवृत्ति:
स्वम्  [1|1|68] (षष्ठ्या विपरिणम्यते) - षष्ठ्येकवचनम् , रूपम्  [1|1|168] (षष्ठ्या विपरिणम्यते) - षष्ठ्येकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
येन विधि:, स्वस्य रूपस्य, तदन्तस्य
सूत्रार्थ:
विशेषणेन निर्दिष्टः विधिः तम् विशेषणम् स्वीकृत्य अपि भवति, तदन्तम् स्वीकृत्य अपि च भवति ।
सूत्रस्य अर्थं ज्ञातुम् प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानां शब्दानाम् अर्थम् पश्यामः ।

- येन = येन विशेषणेन
- विधिः = प्रक्रिया
- तदन्तस्य = अयम् बहुव्रीहिसमासः अस्ति । विग्रहवाक्यम् - "तत् (विशेषणम्) यस्य अन्ते सः शब्दः तदन्तः, तस्य" । तत् विशेषणम् यस्य अन्ते अस्ति, तस्य शब्दस्य, इत्यर्थः ।
- स्वस्य रूपस्य = विशेषणस्य स्वस्य रूपस्य ।

अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - कस्मिन्नपि सूत्रे यदि विशेषणम् स्वीकृत्य कश्चन विधिः दर्शितः अस्ति, तर्हि सः विधिः तस्य विशेषणस्य स्वस्य रूपम् स्वीकृत्य तु भवत्येव, परन्तु तत् विशेषणं यस्य शब्दस्य अन्ते आगच्छति, तादृशं शब्दं स्वीकृत्य अपि भवति ।

सूत्रार्थं अधिकं स्पष्टरूपेण ज्ञातुम् कानिचन उदाहरणानि पश्यामः -

1. अतो दीर्घो यञि 7|3|101 अस्मिन् सूत्रे "अतः" इति "अङ्गस्य" इत्यस्य विशेषणम् अस्ति । अतः अत्र "अतः अङ्गस्य" इत्यस्य अर्थः येन विधिस्तदन्तस्य 1|1|72 इत्यनेन "अत्-इति अङ्गस्य" तथा "अत्-यस्य अन्ते अस्ति (= अदन्तः) तस्य अङ्गस्य" इति जायते ।

2. एरच् 3|3|56 अनेन सूत्रेण इवर्णान्त-धातोः भावे "अच्" प्रत्ययः भवति । एरच् = एः अच् । अत्र "एः" इति "धातोः" अस्य विशेषणम् अस्ति । अतः अत्र "एः धातोः" इत्यस्य अर्थः येन विधिस्तदन्तस्य 1|1|72 इत्यनेन द्विविधः भवति - "इ" इति धातोः, तथा "इवर्णान्त"धातोः । यथा - "इ" धातोः भावे अच्-प्रत्ययं कृत्वा "अय" इति प्रातिपदिकं जायते; तथा च "चि" इति इवर्णान्तधातोः अपि भावे अच्-प्रत्ययं कृत्वा "चय" इति प्रातिपदिकं जायते ।

3. जरायाः जरसन्यतरस्याम् 7|2|101 अस्मिन् सूत्रे "जरायाः" इति "शब्दस्य" इत्यस्य विशेषणम् अस्ति । अतः अत्र "जरायाः शब्दस्य" इत्युक्ते "जरा" शब्दस्य, तथा च "जरा यस्य अन्ते अस्ति तादृशस्य शब्दस्य" इति जायते ।

अनेन सूत्रेण उक्तः अयम् सिद्धान्तः "तदन्तविधिः" नाम्ना अपि ज्ञायते ।

अस्य सूत्रस्य विषये वार्तिकद्वयम् ज्ञातव्यम् -

1. समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः । इत्युक्ते, समासविधाने प्रत्ययविधाने च तदन्तविधिः न भवति । उदाहरणानि एतादृशानि -
अ) द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः 2|1|24 अनेन सूत्रेण "श्रित/अतीत/पतित/गत" एतादृशेषु सुबन्तपदेषु परेषु द्वितीयातत्पुरुषः समासः विधीयते । यथा, कृष्णं श्रितः = कृष्णश्रितः । अस्मिन् सूत्रे "श्रित/अतीत/पतित/गत" एतानि सर्वाणि विशेषणानि सन्ति, विशेष्यम् च "सुबन्तम् " इति अस्ति । परन्तु अत्र वर्तमानसूत्रेण तदन्तविधिः न भवति, यतः अत्र समासविधानम् क्रियते । अतः "कृष्णं परमश्रितः" अस्य द्वितीयातत्पुरुषसमासः न विधीयते ।
आ) नडादिभ्यः फक् 4|1|99 अनेन सूत्रेण फक्-प्रत्ययः विधीयते । अतः एतत् प्रत्ययविधानम् अस्ति । अत्र "नडादिभ्यः" इति विशेषणम्, "प्रातिपदिकेभ्यः" इति च विशेष्यम् । एवं सत्यपि अत्र तदन्तविधेः प्रयोगः न भवति,, यतः अत्र प्रत्ययविधानम् क्रियते । अतः केवलम् "नड" शब्दस्यैव "फक्" प्रत्ययः भवति, "सूत्रनड" अस्य शब्दस्य अयं प्रत्ययः न भवति ।

2. उगिद्वर्णग्रहणवर्जम् इति वाच्यम् । इत्युक्ते यत्र उगित्-ग्रहणम् वर्णग्रहणम् वा अस्ति, तत्र समासविधौ प्रत्ययविधौ चापि तदन्तग्रहणम् भवत्येव । यथा -
अ) उगितश्च 4|1|6 अनेन सूत्रेण उक्-वर्णः यस्मिन् इत्संज्ञकः अस्ति तस्य शब्दस्य स्त्रीत्वं द्योतयितुम् "ङीष्" प्रत्ययः विधीयते । यथा - भवतुँ + ङीष् = भवती । अस्मिन् सूत्रे "उगित्" इति विशेषणम्, "प्रातिपदिकम्" इति विशेष्यम् । अत्र उगित्-ग्रहणम् कृतम् अस्ति, अतः अनेन वार्तिकेन समासविधौ अपि अत्र तदन्तविधिः भवति । यथा - अतिभवत् + ङीष् = अतिभवती । अत्र यद्यपि उगित्-शब्दः समासविधौ अस्ति, तथापि अनेन वार्तिकेन पूर्ववार्तिकस्य निषेधं कृत्वा मूलसूत्रे यथा उक्तम् तथा तदन्तविधिः जायते ।
आ) अतः इञ् 4|1|95 अनेन सूत्रेण अकारात् परः इञ्-प्रत्ययः विधीयते । अत्र "अतः" इति विशेषणम्, "प्रातिपदिकात्" इति विशेष्यम् । अयं प्रत्ययविधिः अस्ति, अतः वस्तुतः पूर्ववार्तिकेन अत्र तदन्तहग्रहणम् न भवेत् । परन्तु अत्र "अतः" इति वर्णग्रहणम् कृतम् अस्ति (इत्युक्ते, विशेषणम् एकवर्णात्मकम् एव अस्ति) अतः अत्र तदन्तविधिः भवत्येव । अतः अस्य सूत्रस्य अर्थः "अकारस्य अकारान्तस्य च इञ्-प्रत्ययः भवति" इति जायते । यथा - "अ"स्य अपत्यम् "इः" । दशरथस्य अपत्यम् "दाशरथिः" ।
One-line meaning in English
A rule indicated using an adjective can be applied on that adjective, as well as on words which end with that adjective.
काशिकावृत्तिः
येन विशेषणेन विधिर्विधीयते स तदन्तस्य आत्मान् तस्य समुदायस्य ग्राहको भवति , स्वस्य च रूपस्य । एरच् 3|3|56 - इवर्णान्तादच्प्रत्ययो भवति -
चयः, जयः, अयः । ओरावश्यके 3|1|125, उवर्णान्ताद् ण्यद् भवति - अवश्यलाव्यम्, अवश्यपाव्यम् । समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः । द्वितीयान्तं श्रितादिभिः सह समस्यते 2|1|24 कष्टश्रितः । इह मा भूत् - कष्टं परमश्रित इति । प्रत्ययविधौ - नडाऽदिभ्यः फक् 4|1|99 - नडस्य अपत्यं नाडायनः । इह मा भूत् - सूत्रनडस्य अपत्यं सौत्रनाडिः । किम् अविशेषेण ? न इत्याह । उगिद्वर्णग्रहणवर्जम् इति वाच्यम्उगितश्च 4|1|6 इति ङीप्प्रत्ययः तदन्तादपि भवति - भवती, अतिभवती । वर्णग्रहणम् अत इञ् 4|1|95 - दाक्षिः, प्लाक्षिः । यस्मिन् विधिस्तदादावल्ग्रहणे । अल्ग्रहणेषु यस्मिन् विधिस्तदादौ इति वक्तव्यम् । अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इति - श्रियः, भ्रुवः ॥
`स्वं रूपं शब्दस्येत्यस्यायमपवादः`। इदमपि संज्ञासूत्रम्। न तु परिभाषा। न ह्रत्र नियमरूपता परिभाषाधर्मो विद्यते। `येन` इति करमए तृतीया। विधीयते = अपूर्व एव क्रियते इति विधिः कर्मसाधनः; उपसर्गे घोः किः` 3|3|92 इति किप्रत्ययान्तः।तदन्तस्य` इति। सोऽन्तोऽस्येति बहुव्रीहिः। तदित्यनेन स एव करणभूतः शब्दः प्रत्यवमृश्यते। अनतशब्दोऽयमवयववाची, अवयवश्च समुदायस्य भवति। अतश्च तस्यैवेयंसंज्ञा विज्ञायत इत्याह--- `समुदायस्य संज्ञा भवति` इति।`अवश्यलाव्यम्` इति। `अवश्यपाव्यम्` इति। `लूञ् छेदने` (धातुपाठः-1484), `पूञ् पवने` (धातुपाठः-1483) वृद्धौ कृतायाम् `वान्तो यि प्रत्यये` 6|1|76 इत्यावादेशः, मयूरव्यंसकादित्वात् समासः; `लुम्पेदवश्यमः कृत्येः` (काशिका।6.1.149) इति मकारलोपः।अथेह कस्मादेजन्तस् संज्ञा न सम्भवति, `एचोऽयवायावः` 6|1|78 इति? किञ्चस्यात्? `चयनं चायको लवनं लावकः` इत्यत्रानेकाल्त्वादयादयः सर्वादेशाः स्युः, नैष दोषः; `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इत्येच एव भविष्यन्ति, न सर्वस्यतदन्तस्य। अथ वा-- अस्य योगस्यैवं विधो विषय एव न भवति, ततो नायमिह प्रवर्तते। तथा हि येनेति करणे तृतीयेत्युक्तम्, न चाकर्तृकं करणमस्तीति कत्र्ताप्याश्रितः। स पुनरिह सम्बन्धिशब्दत्वादन्तशब्देनावयववाचिना सन्निधापितः समुदायो विज्ञाप्यते। प्रकृतत्वात् स्वरूपं च कर्ता च त्रिभिः प्रकारैः सन्निहितो भवति। क्वचिन्निर्देशात्-- `ईदूदेद्द्विचनम्` 1|1|11 इति, अत्र द्विवचनं कर्तृभूतं निर्दिष्टम्। तथा हीदादिभिः करणैः प्रगृह्रसंज्ञां विदधाति। क्वचित् प्रकरणात्--यथा `एरच्` 3|3|56 इति, अत्र `धातोः` 3|1|91 इत्यधिकाराद्धातुः प्रकरणात् कत्र्ता सन्निहितः। स इकारेण करणेनाचं विदधाति। क्वचिच् सामथ्र्यात्-- यथा `इको झल्` 1|2|9 इति, अत्र धातोरेव सन् विधीयते, नान्यसमादिति सामथ्र्याद्धातुः कर्ता सन्निहितः; सइका करणेन सनः कित्त्वं विदधाति। तदेवम्, `ईदूदेद्द्विवचम्` 1|1|11 इत्यादौ कर्तृकरणयोरुभयोरपि विद्यमानत्वात् सोऽस्य सूत्रस्य विषय इति तत्र तदन्तविधिर्भवति। `एचोऽयवायावः` 6|1|75 इत्यत्र तु न केनचित् कत्र्ता सन्निहितः प्रकारेण, न चाकर्तृकं करणं सम्भवति;तस्मात् कर्तृकरणयोरुभयोरप्यसन्निहितत्वाननायमस्य सूत्रस्य विषय इति न सम्भवति तदन्तविधिः।`वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यायम्-- `द्वितीया श्रित` 2.1.25) इत्यादौ सुपा श्रितादयो विशिष्यन्ते,न श्रितादिभिः सुप्। विशेषणेन चतदन्तविधिः, न विशेष्येण। यस्मादयेनेति करणे तृतीया, करणं च परतन्त्रं परार्थं भवति, न विशेष्यम्, तस्माद्विशिष्टैः श्रितादिभिस्तदन्तविधिर्न भवति। `नडादिभ्यः फक्` इति। अत्रापि प्रकृतेन प्रातिपदिकेन नडादयो विशिष्यन्ते, न नडादिभिः प्रातिपदिकम् अतोऽत्रापि नास्ति तदन्तविधिरिति।`उगिद्वर्णग्रहणवर्जम्` इति। उगिता वर्णेन च प्रातिपदिकं विशिष्यते।विशेषणेन च तदन्तविधिर्भवत्येव।`यस्मिन् विधिः` इत्यादि। तदन्तविधौ प्राप्ते तदादिविधिरुच्यते। यस्मिन्नि-ति सप्तमीनिर्दिष्टे तदादिविधिं दर्शयति। यत्राल्ग्रहणे सप्तमीनिर्दिष्टे पूर्वस्य विधिस्तत्र तदादौ वेदितव्यः। अलादावित्यर्थः। यदि तर्हि तत्रापि तदन्तिविधिः स्यात्, इहैव स्यात्-- श्रियाविति,इह तु न स्यात्-- `श्रियः` इति? तदादिविधौ तु सतीहापि भवति, स्वस्य च रूपस्येति श्रियावित्यत्रापि भवत्येव।
स्वरूपविधिपरिहारायायमारम्भः । इदमपि संज्ञासूत्रम् । येनेति करणे तृतीया । विधीयत इति विधिः, कर्मसाधनः किप्रत्ययः । विधिर्विधीयत इति । वधिशब्देन विधानयोग्यं वस्त्वभिधीयते, तस्य सांप्रतिकक्रियाविशेषद्योतनायाख्यातप्रयोगः । आसने आस्ते, करणेन करोतीतिवत् । तदन्तस्येसि बहुव्रीहिः । तदित्यनेन येनेति निर्दिष्टः शब्दो निर्दिश्यते, तदाह--आत्मान्तस्येति । अन्तशब्दस्यावयववाचित्वातदाक्षिप्तस्य समुदायस्येयंसंज्ञेत्याह --समुदायस्य संज्ञा भवतीति । अवश्यलाव्यमिति । मयूरव्यंसकादित्वात्समासः, "लुम्पेदवश्यमः कृत्ये" इति मलोपः । अथेह कस्मादेजन्तस्य संज्ञा न भवति "एचोऽयवायावः" इति, किं स्यात् ? अनेकाल्त्वादयादयः सर्वादेशाः स्युः; ततश्च चयनलवनादिष्वयनमिति प्राप्नोति, प्रकरणादिवशाच्चाक्षादिवदर्थविशेषावगतिः स्यात्, नैष दोषः; "निर्दिश्यमानस्यादेशा भवन्ति" इत्येवं भविष्यन्ति । अथ वा-यथा एचा तदन्तविधिः, एवमयादिभिरपि भविष्यति । एवमपि"आद् गुणः" इत्यत्र आदित्यवर्णान्तो गृह्यते, अचीति चाजादेरिति खट्वेन्द्र इत्यादाववर्णान्तस्य समुदायस्याजादेश्च गुणप्रसङ्गः । षष्ठ।ल्निर्देशान्निर्दिश्यमानस्येत्यपि नास्ति । एवं तर्हि नैवंविधोऽस्य विषयः । येनेति करणे तृतीयेत्युक्तम्, करणं च परतन्त्रम्; कर्त्रधिष्ठितस्यैव करणत्वात् । न च "एरच्" इत्यादाविकारादीनां पारतन्त्र्यम्, धात्वादीनां च स्वातन्त्र्यं स्वरूपतोऽवभासते । वा स्यादिति । वृक्षादीनामतो विवक्षानिबन्धनं तदुभयमिति । विशेषणत्वेन विवक्षितं परतन्त्रमप्रधानम्, विशेष्यत्वेन विवक्षितं स्वतन्त्रं प्रधानम् । तेन विशेषणं विषेष्यस्य तदन्तस्य संज्ञेत्युक्तं सम्भवति । विशेष्यसन्निधौ च विशेषणं भवति, सन्निधिश्च कुत्रचित्साक्षान्निर्देशेन, यथा-"ईदूदेद्द्विवचनम्" इति द्विवचनस्य । क्वचिदधिकारद्यथा-"एरच्" इति धातोः । क्वचिदाक्षेपाद्, यथा-"इको झल्" इति सना धातोः । "एचोऽयवायावः" इत्यादौ न कथंचिद्विशेष्यसंनिधिरिति नैतत्प्रवर्तते । यदि विशेषणं तदन्तस्य संज्ञा, ततः "उदोष्ठ।ल्पूर्वस्य" इत्यत्र ऋकारस्तदन्तस्य धातोः संज्ञेति ओष्ठ।ल्पूर्वग्रहणं धातोरेव विशेषणं स्याद्, न ञकारस्य; संज्ञायाः संज्ञिप्रत्ययनार्थत्वात् । ततश्चेह स्यात्-सङ्कीर्णमिति; पूर्तमित्यादौ च न स्यात् । एवम् "उतश्च प्रत्ययादसंयोगपूर्वाद् " इत्यत्रासंयोगपूर्वग्रहणमङ्गस्य विशेषणं स्यात्, नोतः, नैष दोषः; इयं हि संज्ञा गुणप्रधानभावापेक्षा ततश्च "उतश्च प्रत्ययाद्" इत्यादौ विशेषणसम्बन्धवेलायां गुणभावास्फुरणातमनुभूय पश्चात् विशेष्येण सम्बन्धे संज्ञा भवति । समासेति । अनेनैतदाह-श्रितादयो पश्चात् विशेष्यास्तद्विशेषणं च सुप् । एवं ङडादिभ्यः फक्" इत्यादौ नडादिविशेष्यं प्रातिपदिकं विशेषणमिति । कष्ट्ंअ परमश्रित इति । श्रितान्तमेतत्सुबन्तं न भवतीति सम्बुद्ध्यन्तं पठितव्यम्, तद्धिप्रत्ययलक्षणेन सुबन्तं भवति श्रितान्तं च श्रूयते । नेत्याहेति । कः पुनराह ? उतरवादी, आचार्यो वा । उगिद्वर्णेति । उगिता वर्णेन च प्रातिपदिकं विशेष्यमित्यर्थः । यस्मिन्विधिरिति तदन्तविध्यपवादस्तदादिविधिः, अतो विशेषणेनैव भवति ॥
सिद्धान्तकौमुदी
विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य ॥ ।समासप्रत्ययविधौ प्रतिषेधः (वार्तिकम्) ॥ ।उगिद्वर्णग्रहणवर्जम् (वार्तिकम्) ॥
यच्छब्दस्वरूपमुपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह-येन विधिः। विधीयत इति विधिः। `उपसर्गे घोः कि`रिति धाधातोर्भावे किप्रत्ययः। येनेति करणे तृतीया। शास्त्राकृद्विधाने कर्ता। धातोरित्यधिकृत्य #एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः। करणं च व्यापारवत्। एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः। ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते। स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्ठ�न्ततया च विपरिणम्यते। एवं च `विशेषणसमर्पकः शब्दस्तदन्तस्य स्वस्य च प्रत्यायक` इति फलति। तदाह--विशेषणमित्यादि। विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य, विशेषण समर्पकशब्दस्य च बोधकः स्यादिति यावत्। ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्ययः स्यात्, इकाररूपाद्धातोश्चेति फलति। यथा-चयः, अयः। केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः।
येन विधिः। `विधि`रित्यत्र `उपसर्गे` घोः किः` इति कर्मणि किः प्रत्ययः। `येने`ति करणे तृतीया, न तु कर्तरि। तस्याः कृद्योगषष्ट�आ बाधात्। नच `उभयप्राप्तौ कर्मणी`ति नियमेन निर्वाहः, कर्मण उक्तत्वेनोभयप्राप्त्यभावात्। तथा चात्र करणे तृतीयैव। करणं च परतन्त्रं, कर्त्रधिष्ठितस्यैव करणत्वात्। एवं चेह तृतीयया पारतन्त्र्यं लक्ष्यते। नच `एर`जित्यादाविकारादीनां पारतन्त्र्यं धात्वादीनां च स्वातन्त्र्यं वास्यादीनामिव तक्षादीनामिव संभवति, किंतु वैवक्षिकम्। तेन विशेषणमप्रधानम्। तच्चात्मान्तरस्य संज्ञेति फलितं, तदेतदाह--विशेषणं तदन्तस्यैति। स्वस्य चेति। `स्व रूप`-मित्यनुवृत्तेरेतल्लभ्यते। `एरच्`। इकारान्तादिकाररूपाच्च धातोरच्। चयः, जयः, अयः। समासप्रत्ययविधावाते। कृष्णं श्रितः कृष्णश्रितः। [`द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः`। द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह समस्यते वा तत्पुरुषः ]। नेह-कृष्णमुपश्रितः। `नडादिभ्यः फक्`। नडस्य गोत्रापत्यं नाडायनः। नेह-[सूत्रनडस्यापत्यं] सौत्रनाडिः। अनुशतिकादित्वादुभयमदवृद्धिः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
येन विधिस्तदन्तस्य इह कस्मान्न भवति। इको यणचि। दध्यत्र, मध्वत्र। अस्तु। अलोन्त्यस्य विधियो भवन्तीत्यन्त्यस्य भविष्यति। नैवं शक्यम्। येऽनेकाल आदेशास्तेषु दोषः स्यात्- एचोऽयवायावः इति। नैष दोषः। यथैव प्रकृतितस्तदन्तविधिर्भवति एवमादेशतोऽपि भविष्यति। तत्रैजन्तस्यायाद्यन्ता आदेशा भविष्यन्ति। यदि चैवं क्वचिद् वैरूप्यं तत्र दोषः स्यात्। ब्रह्योदकम्। ब्रह्येन्द्रः। अपि चानतरङ्गबहिरङ्गे न प्रकल्पेयाताम्। तत्र को दोषः? स्यानः,स्योना। अनतरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणो गुणो बाधिकः प्रसज्येत। ऊनशब्दमाश्रित्य यणादेशो नशब्दमाश्रित्य गुणः। अलविधिश्च न प्रकल्पेत। द्यौः, पन्थाः स इति। तस्मात् ‐ प्रकृते तदन्तिविधिरिति वक्तव्यम्। न वक्तव्यम्। येनेति करण एषा तृतीया। अन्येन चान्यस्य विधिर्भवति। तद्यथा ‐ देवदत्तस्य समाशं शरावैरोदनेन च यज्ञदत्तः प्रतिविधत्ते। तथा संग्रामं हस्त्यश्वरथपदातिभिः। एवमिहाप्यचा धातोर्यतं विधते। अकारेण प्रातिपदिकस्य इञ्ञं विधत्ते। येन विधिस्तदन्तस्येति चेद् ग्रहणोपाधीनां तदन्तोपाधिप्रसङ्गः। येन विधिस्तदन्तस्येति चेद् ग्रहणोपाधीनां तदन्तोपाधिताप्रसङ्गः। ये ग्रहणोपाधयः ते तदन्तोपाधयः स्युः। तत्र को दोषः? उतश्च प्रत्ययादसंयोगपूर्वादिति असंयोगपूर्वग्रहणमुकारान्तविशेषणं स्यात्। तत्र को दोषः? असंयोगपूर्वग्रहणेन इहैव पर्युदासः स्यात्- अक्ष्णुहीति, तक्ष्णुहीति। इह न स्यात्- आप्नुहि शक्नुहि इति। तथा उदोष्ठपूर्वस्येति ओष्ठ्यपूर्वग्रहणमकारान्तविशेषणं स्यात्। तत्र को दोषः? ओष्ठ्यपूर्वग्रहणेन इह प्रसज्येत। संकीर्णे संकीर्णमिति। इह च न स्यात् निपूर्ताः पिण्डा इति। सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वात्। सिद्धमेतत्। कथम्? यथेष्टं विशेषणविशेष्ययोर्योगो भवति। यावता यथेष्टम् इह तावदुतश्च प्रत्ययादसंयोगपूर्वदिति नासंयोगपूर्वग्रहणेन उकारान्तं विशेष्यते। किं तर्हि? उकार एव विशेष्यते। उकारोयोऽसंयोगपूर्वस्तदन्तात् प्रत्ययादिति। तथा उदोष्ठयपूर्वस्येति नौष्ठ्यपूर्वग्रहणेन ऋकार एव विशेष्यते। ऋकारो य ओष्ठ्यपूर्वस्तदन्तस्य धातोरिति। समासप्रत्ययविधौ प्रतिषेधः। समासविधौ प्रत्ययविधौ च प्रतिषेधो वक्तव्यः। समासविधौ तावत्। द्वितीया श्रितादिभिः। कष्टश्रितः। नरकश्रितः। कष्टं परमश्रित इत्यत्र मा भूत्। प्रत्ययविधौ। नडस्यापत्यं नाडायनः। इह न भवति। सूत्रनडस्यापत्यं सौत्रनाडिः। किमविशेषेण ? नेत्याह। उगिद्वर्णग्रहणवर्जम्। उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्वा। उगिद्ग्रहणम् उगितश्च। भवती। अतिभवतौ। महती, अतिमहती। वर्णग्रहणम् ‐ - अत् इञ्ञ्। दाक्षिः, प्लाक्षिः। अस्ति चेदानीं कश्चित् केवलोऽकारः प्रातिपदिकं यदर्था विधिः स्यात्। अस्तीत्याह। अततेर्डः, अः। तस्यापत्यम् अत इञ्ञ् ‐ -इः। अकच् श्नम्वतः सर्वनामाव्ययधातुविधावुपसङ्ख्यानम्। अकज्वतः सर्वनामाव्ययविधौ इनम्वतो धातुविधावुपसङ्ख्यानं कर्तव्यम्। अकज्वतः- सर्वके। विश्वके। अव्ययविधौ- उच्चकैः, नीचकैः। श्नम्वतः- भिनत्ति, छिनत्ति। किं पुनः कारणं न सिध्यति? इह तस्य वा ग्रहणं भवति तदन्तरस्य वा। न चेदं तत्। नापि तद्न्तम्। सिद्धं तु तदन्तान्तवचनात्। सिद्धमेत्त। कथम्? तदन्तान्तवचनात्। तदन्तान्तस्येति वक्तव्यम्। किमिदं तदन्तान्तस्येति? तस्यान्तः तदन्तः। तदन्तोऽन्तो यस्य तदिदं ‐ तदन्तान्तं, तदन्तान्तस्येति। स तर्हि तथा निर्देशः कर्तव्यः। न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः तद्यथा उष्ट्रमुखमिव मुखमस्य ‐ उष्ट्रमुखः। खरमुखः। एवमिहापि तदन्तः अन्तो यस्य ‐ सोऽयं तदन्तः तदन्तस्येति। तदेकदेशविज्ञानाद्वा सिद्धम्। तदेकदेशविज्ञानाद्वा पुनः सिद्धमेतत्। तदेकदेशभूतःतद्ग्रहणेन गृह्यते। तद्यथा ‐ गङ्गा ,यमुना, देवदत्तेति। अनेका नदी गङ्गां यमुनां च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते। देवदत्तास्थो गर्भो देवदत्ताग्रहणेन गृह्यते। विषम उपन्यासः। इह केचिच्छब्दा अक्तपरिमाणानामर्थानां वाचका भवन्ति। य एते सङ्ख्याशब्दाः परिमाणशब्दाश्च। पञ्चसप्तेति। एकेनाप्यपाये न भवन्ति। द्रोणः, खारी आढकमिति नैवाधिके भवन्ति, न न्यूने। केचिद् यावदेव तद् भवति तावदेवाहुः। य एते जातिशब्दा गुणशब्दाश्च। तैलं घृतमिति। खार्यामपि भवति द्रोणेपि। शुक्लो नीलः कृष्ण इति हिमवत्यपि भवति वटकणिकामात्रेऽपि द्रव्ये। इमाश्चापि सञ्ज्ञा अक्तपरिमाणानामर्थानां क्रियन्ते ताः केनाधिकस्य स्युः। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति- तदेकदेशभूतं तद्ग्रहणेन गृह्यते इति। यदयं नेदमदसोरकोरिति सककारयोरिदमदसोः प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम् ? इदमेदसोः कार्यमुच्यमानं कः प्रसङ्गे यत् सककारयोः स्यात्। पश्यति त्वाचार्यस्तदेकदेशभूतं तद्ग्रहणेन गृह्यत इति ततः सककारयोः प्रतिषेधं शास्ति। कानि पुनरस्य योगस्य प्रयोजनानि ? प्रयोजनं सर्वनामाव्ययसञ्ज्ञायाम्। सर्वे परमसर्वे। विश्वे परमविश्वे। उच्चैः, परमोच्चैः। नीचैः, परमनीचैरिति। उपपदविधौ भयाढ्यादिग्रहणं प्रयोजनम्।। भयङ्करः । अभयंकरः। आढ्यंकरणनम्। स्वाढ्यंकरणम् ङीब्दिधावुगिद्ग्रहणम्। प्रयोजनम्। भवती अतिभवती। महती अतिमहती। प्रतिषेधे स्वरत्रादिग्रहणम्। प्रयोजनम्। स्वसा। परमस्वसा। दुहिता। परमदुहिता। अपरिमाणबिस्तादिग्रहणं च प्रतिषेधे प्रयोजनम्। अपरिमाणबिस्तादिग्रहणं च ङीप्प्रतिषेधे प्रयोजनम्। अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्वितलुकीति। द्विबिस्ता, द्विपरमबिस्ता। त्रिबिस्ता, त्रिपरमबिस्ता। द्वयाचित, द्विपरमाचित। दिति। दितिग्रहणं च प्रयोजनम्। दितेरपत्यं दैत्यः। अदितेरपत्यमादित्यः। दित्यदित्यादित्येत्यदिग्रहणं न कर्तव्यं भवति। रोण्या अण्। रोण्या अण् ग्रहणं च प्रयोजनम्। आजकरोणः। सौहिकरोणः। तस्य च। तस्य चेति वक्तव्यम्। रौणः। किं पुनः कारणं न सिध्यति? न तदन्ताच्च तदन्तविधिना सिद्धं केवलाच्च व्यपदेशिवद्भावेन। व्यपदेशिवद्भावोऽप्रातिपदिकेन। किं पुनः कारणं व्यपदेशिवद्भावोऽप्रातिपदिकेन? इह सूत्रान्ताट्ठग् भवति। दशान्ताड्डो भवतीति केवलादुत्पत्तिर्मा भूदिति। नैतदस्ति ज्ञापकम्। सिद्धमत्र तदन्ताच्च तदन्तविधिना केवलाच्च व्यपदेशिवद्भावेन। सोऽयमेवं सिद्धे सति यदन्तग्रहणं करोति तज्ज्ञापयत्याचार्यः ‐ सूत्रान्तादेव दशान्तादेवेति नात्र तदन्तादुत्पत्तिः प्राप्नोति। इदानीमेव ह्युक्तं समासप्रत्ययविधौ प्रतिषेध इति। सा तर्ह्येषा परिभाषा कर्तव्या। न कर्तव्या। आचार्यप्रवृत्तिर्ज्ञापयति भवत्येषा परिभाषा ‐ - व्यपदेशिवद्भावोऽप्रातिपदिकेनेति। यदयं पूर्वादिनिः सपूर्वाच्च इत्याह। नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? सपूर्वादिनिं वक्ष्यामीति। यत्तर्हि योगविभागं करोति। इतरथा पूर्वात् सपूर्वादिनिः इत्येव ब्रूयात्। किं पुनरयमस्यैव शेषस्तस्य चेति? नेत्याह। यच्चानुक्रान्तं यच्चानुक्रंस्यते सर्वस्यैव शेषस्तस्य चेति। रथसीताहलेभ्यो यद्विधौ प्रयोजनम्। रथसीताहलेभ्यो यद्विधौ प्रयोजनम्। रथ्यः। परमरथ्यः। सीत्यं परमसीत्यम्। हल्या परमहल्या। सुसर्वार्धदिक् शब्देभ्यो जनपदस्य। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य प्रयोजनम्। सु- सुपाञ्ञ्चालकः, सुमागधकः। सर्व- सर्वपाञ्ञ्चालकः, सर्वमागधकः। अर्ध- अर्धपाञ्ञ्चालकः। अर्धमागधकः। दिक्शब्द- पूर्वपाञ्ञ्चालकः। अपरपाञ्ञ्चालकः। पूर्वमागधकः। अपरमागधकः। ऋतोर्वृद्धिमद्विधाववयवानाम्। ऋतोर्वृद्धिमद्विधाववयवानां प्रयोजनम्। पूर्वशारदम्। अपरशारदम्। पूर्वनैदाघम्। अपरनैदाघम्। ठञ्ञ्विधौ सङ्ख्यायाः। ठञ्ञ्विधौ सङ्ख्यायाः प्रयोजनम्। द्विषाष्टिकम्। पञ्ञ्चाषाष्टिकम्। धर्मान्नञ्ञः। धर्मान्नञ्ञः प्रयोजनम्। धर्मे चरति धार्मिकः। अधर्मे चरति आधर्मिकः। अधर्माच्चेति न वक्तव्यं भवति। पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च। पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वक्तव्यम्। पदाधिकारे किं प्रयोजनम् ? प्रयोजनमिष्टकेषीकामालानां चिततूलभारिषु। इष्टकेषूकामालानां चिततूलभारिषु प्रयोजनम्। इष्टकचितं चिन्वीति। पक्वेष्टकचितं तिन्वीत। इषीकतूलेन। मुञ्ञ्जेषीकतूलेन। मालभारिणी कन्या। उत्पलमालभरिणी कन्या। अङ्गाधिकारे किं प्रयोजनम् ? प्रयोजनं महदप्स्वसृनप्तॄणां दीर्घविधौ। महान्। परममहान्। अप्- आपः तिष्टन्ति स्वापस्तिष्ठन्ति। स्वसृ- स्वसा स्वसारौ स्वसारः। परमस्वसा। परमस्वसारौ। परमस्वसारः। नप्तृ- नप्ता, नप्तारौ, नप्तारः। एवं परमनप्ता, परमनप्तारौ, परमनप्तारः। पदयुष्मदस्मदस्थ्याद्यानडुहो नुम्। पद्भावः प्रयोजनम्। द्विपदः पश्य। अस्ति चेदानीं कश्चित् केवलः पाच्छब्दो यदर्थे विधिः स्यात्। नास्तीत्याह। एवं तर्हि अङ्गाधिकारे प्रयोजनं नास्तीति कृत्वा पदाधिकारस्य प्रयोजनमुक्तम्। हिमकाषिहतिषु च। यथा पत्काषिणौ, पत्काषिणः। एवं परमपत्काषिणौ। परमपत्काषिणः। यदि पदाधिकारे पादस्य तदन्तविधिरभवति। पादस्य पदाज्यातिगोपहतेषु यथेह भवति ‐ पादेनोपहतं ‐ पदोपहतम्। अत्रापि स्यात्दिग्धपादेनोपहतं ‐ दिग्धपदोपहतम् इति। एवं तर्ह्याधिकार एव प्रयोजनम्। ननु चोक्तं न केवलः पाच्छब्द इति। अयमस्ति ‐ पादयतेरप्रत्ययः ‐ पात्। पदः। पदा। पदे। युष्मद्, अस्मद्। यूयम्, वयम्। परमयूयम्। परमवयम्। अस्थादि। अस्थना दध्ना सक्थना। परमास्थना। परमदध्ना। परमसक्थ्ना। अनडुहो नुम्। अनड्वान्। परमानड्वान्। द्युपथिमथिपुंगोसखिचतुरनडुत्त्रिग्रहणम्। प्रयोजनम्। द्यौः, सुद्यौः। पन्थाः, सुपन्थाः। मन्थाः, परममन्थाः। पुमान्। परमपुमान्। गौः। सुगौः। सखा। सखायौ। सखायः। सुसखा। सपसखायौ। सपसखायः। परमसखा। परमसखायौ। परमखायः। चत्वारः। परमचत्वारः। अनड्वाहः। परमानड्वाहः। त्रयाणां परमत्रयाणाम्। त्यदादिविधिभस्त्रादिस्त्रीग्रहणं च। प्रयोजनम्। सः। अतिसः। भस्त्रका। भस्त्रिका। बहुभस्त्रिका। बहुभस्त्रिका। निर्भस्त्रका। निर्भस्त्रिका। स्त्रीग्रहणं च प्रयोजनम्। स्त्रियौ, स्त्रियः। राजस्त्रियौ, राजस्त्रियः। वर्णग्रहणं च सर्वत्र। प्रयोजनम्। क्व सर्वत्र? अङ्गाधिकारे चान्यत्र च। अन्यत्रोदाहृतम्। अङ्गाधिकारे अतो दीर्घो यञ्ञि ,सुपि च। इहैव स्यात् ‐ आभ्याम्। घटाभ्याम् इत्यत्र न स्यात्। प्रत्ययग्रहणं चापञ्चम्याः। प्रत्ययग्रहणं च अपञ्चम्याः प्रयोजनम्। यञ्ञिञ्ञोः फग् भवति। गार्ग्यायणः। वात्स्यायनः। परमवात्स्यायनः। दाक्षायणः। परमदाक्षायणः। अपञ्चम्या इति किमर्थम् ? दृषत्तीर्णा। परिषत्तीर्णा। अलैवानर्थकेन। अलैवानर्थकेन तदन्तविधिर्भवति नाम्येनानर्थकेनेति वक्तव्यम्। किं प्रयोजनम् ? हन्ग्रहणे प्लीहन् ग्रहणं मा भूत्। उद्ग्रहणे गर्मुद्ग्रहणम्। स्त्रीग्रहणे शास्त्रीग्रहणम्। संग्रहणे पायसंग्रहणम् करोतीति मा भूत्। किमर्थमिदमुच्यते। न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य चेत्यव सिद्धम्। न चेदं तत्, नापि तदुत्तरपदम्। तन्न वक्तव्यं भवति। किं पुनरत्र ज्यायः ? तदन्तविधिरेव ज्यायान्। इदमपि सिद्धं भवति। परमातिमहान्। एतद्धि नैव तत्। नापि तदुत्तरपदम्। अनिनस्मन्ग्रहणानि च। अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तद्न्तविधिं प्रयोजयन्ति। अन्- राज्ञा इत्यर्थवता, साम्नेत्यनर्थकेन। इन्- दण्डीत्यर्थवता, वाग्ग्मीत्यनर्थकेन। अस्- सुपयाः इत्यर्थवता, सुस्त्रोताः इत्यनर्थकेन। मन्- सुशर्मा इत्यर्थवता, सुप्रथिमा इतायनर्थकेन। यस्मिन् विधिस्तदादावल्ग्रहणे। यस्मिन् विधिस्तदादाविति वक्तव्यम्। किं प्रयोजनम् ? अचि श्नुधातुभ्रुवां य्वोरियङुवङाविति इहैव स्यात्- श्रियौ। भ्रुवौ। श्रियो भ्रुवः इत्यत्र न स्यात्।