Page loading... Please wait.
1|1|71 - आदिरन्त्येन सहेता
॥ तस्मै पाणिनये नमः ॥
1|1|71
SK 2
आदिरन्त्येन सहेता   🔊
सूत्रच्छेदः
आदिः (प्रथमैकवचनम्) , अन्त्येन (तृतीयैकवचनम्) , सह (अव्ययम्) , इता (तृतीयैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
अन्त्येन इता सह आदिः स्वस्य
सूत्रार्थः
अन्तिम-इत्-वर्णेन सह गृहीतः आदिवर्णः, तयोः मध्ये विद्यमानाम् वर्णानाम् , स्वस्य च निर्देशं करोति ।
अनेन सूत्रेण प्रत्याहारस्य निर्माणं कथं भवति इति कथ्यते । अन्तिम-इत्-वर्णेन सह उच्चार्यमाणः आदिवर्णः स्वस्य तथा मध्यगानाम् ग्रहणं करोति इत्यर्थः ।

सूत्रेऽस्मिन् केचन विशेष बिन्दवः ज्ञातव्याः ।

1) किम् नाम आदि? सः वर्णः यस्मात् पूर्वम् किमपि नास्ति, परन्तु यस्मात् परम् (अनन्तरम्) अन्ये वर्णाः भवन्ति, सः आदिवर्णः ।
2) किम् नाम अन्त्यम् ? सः वर्णः यस्मात् परम् किमपि नास्ति, परन्तु यस्मात् पूर्वम् अन्ये वर्णाः भवन्ति, सः अन्त्यवर्णः ।
3) किम् नाम मध्यग? आदिवर्णः तथा अन्त्यवर्णः एतयोर्मध्ये ये वर्णाः आगच्छन्ति, ते सर्वे मध्यगाः । अस्मिन् सूत्रे "मध्यग" इत्यस्य अनुवृत्तिः नास्ति । परन्तु भाष्ये एतत् स्पष्टीकृतम् अस्ति यत् आदिवर्णः तथा अन्त्यवर्णः उभयोः उल्लेखम् कुर्मश्चेत् मध्यगानाम् अपि ग्रहणं भवति ।

एवम्, अनेन सूत्रेण एतदुच्यते यत् "अन्त्यवर्णः यदि इत्-वर्णः अस्ति, यदि च आदिवर्णेन सह तस्य योजनं क्रियते, तर्हि तत् वर्णयुग्मम् आदिवर्णस्य मध्यवर्णानां च निर्देशं करोति । एषः एव प्रत्याहारः ।
यथा -
1) शिवसूत्रेषु इत्संज्ञकेन चकारेण सह आदिवर्णम् अकारम् योजयामश्चेत् "अच्" इति प्रत्याहारः सिद्ध्यति । अनेन प्रकारेण आहत्य चतुश्चत्वारिंशत् प्रत्याहाराः सिद्ध्यन्ति । एतेषाम् आवली अत्र दत्ता अस्ति ।

2) प्रत्ययेषु अपि एतादृशम् प्रत्याहारनिर्माणम् कर्तुं शक्यते । यथा - "सुँ औ जस् अम् औट्" एतेषां पञ्चप्रत्याहाराणां निर्देशः "सुट्" इत्यनेन भवति । अत्र अन्तिमः इत्संज्ञकः यः टकारः तेन सह आदिवर्णस्य सुँ इत्यस्य योजनं कृत्वा अयं प्रत्याहारः सिद्ध्यति । तथैव सुँप्, तिङ्, तङ् एते प्रत्याहाराः अपि सिद्ध्यन्ति ।

प्रश्नः - अस्मिन् सूत्रे "स्वस्य" इत्यस्य अर्थः "आदिवर्णस्य" इति करणीयः वा "अन्त्यवर्णस्य" इति करणीयः?
उत्तरम् - सह युक्तेऽप्रधाने 2|3|19 अनेन सूत्रेण "सह-पदेन युक्तः शब्दः "अप्रधानः" अस्ति इति ज्ञायते । इत्युक्ते, "अन्त्येन सह आदि" इत्यत्र अप्रधानकर्ता अस्ति "अन्त्य", प्रधानकर्ता अस्ति "आदि" । अतः स्वस्य" इत्यनेन "आदिवर्णस्य" इत्येव अर्थः सिद्ध्यति । (यथा - "रामः लक्ष्मणेन सह स्वस्य गृहं गच्छति" अस्मिन् वाक्ये "स्वस्य" इत्युक्ते रामस्य, तथैव, "अन्त्येन सह आदिः स्वस्य संज्ञा भवति" इत्यत्र स्वस्य इत्युक्ते आदिवर्णस्य ।)

ज्ञातव्यम् - प्रत्याहारग्रहणे अन्तिम-इत् वर्णस्य ग्रहणं न क्रियते । तथा च, मध्ये विद्यमानानाम् इत्-वर्णानाम् अपि ग्रहणं न भवति । यदि एवं इत्-वर्णानाम् ग्रहणम् अभविष्यत्, तर्हि "अच्" इत्यनेन "ऋऌक्" इत्यस्य ककारस्य अपि ग्रहणम् अभविष्यत् । एवम् अभविष्यत् चेत् "अच्" प्रत्याहारे ककारस्य अपि समावेशः अभविष्यत् । अनेन "इ + क्" इत्यत्र , तथा च "उ + क्" इत्यत्रापि इको यणचि 6|1|77 इत्यनेन यण्-सन्धिः अपि अभविष्यत् । परन्तु तथा न दृश्यते - "अनुनासिक" , "शिक्षा", "मुक्ति" एतादृशेषु शब्देषु संहितायाम् सत्याम् अपि सन्धिः न भवति । अतः एते शब्दाः एव अस्य प्रमाणम् सन्ति, यत् प्रत्याहारग्रहणे इत्-वर्णानाम् ग्रहणम् न भवति ।
One-line meaning in English
A beginning letter, when combined with an ending इत् letter, stands for itself and for all the letters in between.
काशिकावृत्तिः
आदिरन्त्येन इत्संज्ञकेन सह गृह्यमाणः तन्मध्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य । अण्, अक्, अच्, हल्, सुप्, तिङ् । अन्त्येन इति किम् ? सुट् इति तृतीयैकवचनेन टा इत्यनेन ग्रहणं मा भूत् ॥
स्वरूपविधिपरिहारायारम्भः।इदमपि संज्ञासूत्रम्। अनादिभूत वस्त्वपेक्ष्य तत्पूर्ववस्तुन आदित्वं न भवति, अन्त्यभूतं वस्त्वपेक्ष्य ततः परस्यान्त्यत्वम्। न चेहाद्यन्तयोः परस्परापेक्षे आद्यन्तत्वे युज्येते। एवं हि सति वस्त्वन्तरस्य संज्ञिनो भावादादिरन्त्येन सहितः स्वर्यैव संज्ञा स्यात्। ततश्च `स्वं रूपम्` 1|1|67 इत्येतस्येहानुवृत्तये स्वरितत्वासङ्गो वृता स्यात्। तस्मादाद्यन्तशब्दाभ्यां सामथ्र्यादाद्यन्तव्यतिरेकेण तन्मध्यपाति वस्तु संज्ञित्वेनाक्षिप्तमिति मत्वाह-- `तन्मध्यपतितानाम्` इति। जाताविदं बहुवचनम्; अन्यथा ह्रेङ शब्द ओकारस्य संज्ञा न स्यात्। ननु चाद्यन्तशब्दाभ्यां नियतदेशावयवावभिधीयते, अवयवाश्चावयविनः समुदाय-रूपस्य सम्बन्धिन इति सम्बन्धिशब्दत्वादाद्यन्तशब्दाभ्यां तस्यैव संज्ञित्वेना-क्षेपो युक्तः। अकत एवं वक्तव्यम्-- `तन्मध्यपतितानां समुदायस्य` इति। एवं मन्यते-- यदयम् `तस्मादित्युत्तरस्य` 1|1|66 इत्यादौ वर्णानां समुदाये परतो यकारं यणादेशं कृत्वा निर्देशं करोति, ततो गम्यते-- न वर्णसमुदायः संज्ञीति, किं तर्हि? प्रत्येकं वर्णा एवेति; अन्यथा वर्णसमुदाये संज्ञिनि परतो वर्णमालां यणादेशं कृत्वा निर्देशं कुर्यादिति। असम्भवात् स न कृत इति चेत्, न; वर्णमालात्मन आदेशस्य सम्भवात्। तर्हि समुदाये संज्ञिनि कार्यमेव न सम्भवतीति चेत्, यदि च समुदाये परतः कार्यं न सम्भवति वर्णा एव प्रत्येकं सन्तु संज्ञिनः; तत्र कार्यं सम्भवति, किं समुदायेन? `टा` इत्यनेन ग्रहणं मा भूदिति। ननु च सोऽपि तावतोऽवधेरन्त एव, न;तावतोऽवधेरविवक्षितत्वात्। टकारो ह्रयम् `टाङसिङसामिनात्स्याः` 7|1|12 `द्वितीयाटौस्त्वेनः` 2|4|34 इत्यत्र तृतीयैकवचनस्य विशेषणार्थः, न तु प्रत्याहारार्थः।अथादिग्रहणं किमर्थम्? अन्त्येन सह समुदाय एव संज्ञा मा भूदिति, नैतदस्ति; `आवृत्तिधर्माणो हि संज्ञाशब्दा भवन्ति`। आदिरेव प्रदेशवाक्येष्वावत्र्तते, नसमुदायः; तस्मादन्तरेणाप्यादिग्रहणं सामथ्र्यादादेरेवान्त्यसहितस्य संज्ञात्वंविज्ञायते, न समुदायस्य। एवं तर्हि सामथ्र्यलब्धस्यैवार्थस्य विस्पष्टीकरणार्थमादि-ग्रहणम्।अथ सहग्रहणं किमर्थम्, यावता तृतीययैव सहार्थो गम्यते, यथा-- `वृद्धो यूना` 1|2|65 इत्यत्र? नैतदेवम्; इत्थम्भूतलक्षणेऽपि तृतीयाऽस्ति। तस्यां च सत्यामादिरेवान्त्येनेत्संज्ञकेनोपलक्षितः संज्ञा स्यात्। ततश्च प्रदेशेष्वक इति, इक इति, अचि इति च समुदायाद्विभक्तिर्न स्यात्, निरर्थकत्वेनाप्रातिपदिक्तवात्। `सह` ग्रहणात् तु सहभूता संज्ञेति समुदायस्य संज्ञात्वेनार्थत्त्वात् प्रातिपदिकत्वे सतिविभक्तिर्लभ्यते।इद्ग्रहणं तु `अचि` इत्यत्रानित्संज्ञकेन `चटतव` इत्यनेन चकारेण संज्ञा मा भूदित्येवमर्थम्। अन्त्यत्वं तस्य पूर्ववत्, न समुदायापेक्षया। एवं तर्हि `हलन्त्यम्` 1|3|3 इतीत्संज्ञा प्राप्नोति, तदर्थं `न विभक्तौ तुस्माः` 1|3|4 इत्यत्र नेति योगविभागः कत्र्तव्यः।
इदमपि संज्ञासूत्रम्, आद्यन्तयोर्मध्यापेक्षत्वान्मध्यवर्तिनां संज्ञित्वं विज्ञायते, श्वं रूपम्" इत्यनुवृतेः स्वरूपस्य चेत्याह-मध्यवर्तिनामिति । यद्यप्याद्यन्ताववयवा अवयविनः समुदायरूपस्य सम्बन्धिनौ तथापि तस्य युगपल्लक्ष्ये प्रयोगाभावात्समुदायिनां संज्ञेति दर्शयति-वर्णानामिति । स्वस्य च रूपस्येति । स्वरूपमादेरेव गृह्यन्ते, नान्त्यस्य; अप्राधान्यादिति दध्यत्रेति केवल एव यकारः प्रवर्तते, न णकारेण सहितः । सहग्रहणादाद्यन्तौ समुदितौ संज्ञेति समुदायादेव विभक्तिर्भवति "इको यण्" इति, नादिमात्रात् । टा इत्यनेन ग्रहणं मा भूदिति । तावतोऽवधेरविवक्षितत्वान्नायमन्त्यः "टाङसिङसामिनात्स्यः" "द्वितीयाटौस्वेनः" इति तृतीयैकवचनस्यासौ विशेषणार्थः ॥
सिद्धान्तकौमुदी
अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् ॥ इति हल्संज्ञायाम् ॥ उपदेशेऽन्त्यं हलित्स्यात् ॥ उपदेश आद्योच्चारणम् ॥ ततः अण् अच् इत्यादिसंज्ञासिद्धौ ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥
महाभाष्यम्
आदिरन्त्येन सहेता आदिरन्त्येन सहेतेत्यसम्प्रत्ययः सञ्ज्ञिनोऽनिर्देशात्। आदिरन्त्येन सहेतेति असम्प्रत्ययः। किं कारणम्? सञ्ज्ञिनोऽनिर्देशात्। नहि सञ्ज्ञिनो निर्देश्यन्ते। सिद्धं त्वादिरिता सह तन्मध्यस्येति वचनात्। सिद्धमेतत्। कथम्? आदिरन्त्येन सहेता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानां चेति वक्तव्यम्। सम्बन्धिशब्दैर्वा तुल्यम्। सम्बन्धिशब्दैर्वा तुल्यमेतत्। तद्यथा सम्बन्धिशब्दाः मातरि वर्तितव्यम्। पितरि शुश्रूषितव्यमिति। न चोच्चते ‐ स्वस्यां मातरि, स्वस्मिन् पितरीति। सम्बन्धाञ्च गम्यते या यस्य माता,यो यस्य पितेति। एवमिहापि आदिरन्त्य इति सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद् गन्तव्यम्। यं प्रति य आदिरन्त्य इति च भवति तस्य ग्रहणं भवति स्वस्य च रूपस्येति।।71।।