Page loading... Please wait.
1|1|69 - अणुदित् सवर्णस्य चाप्रत्ययः
॥ तस्मै पाणिनये नम: ॥
1|1|69
SK 14
अणुदित् सवर्णस्य चाप्रत्ययः   🔊
सूत्रच्छेद:
अणुदित् - प्रथमैकवचनम् , सवर्णस्य - षष्ठ्येकवचनम् , च - अव्ययम् , अप्रत्ययः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
अप्रत्यय: अण् उदित् च सवर्णस्य
सूत्रार्थ:
अप्रत्ययः अण् तथा उदित् वर्णः सवर्णानाम् ग्रहणं कुर्वन्ति ।
अविधीयमानः अण्-वर्णः (इत्युक्ते - स्वरः / हकारः / अन्तस्थवर्णः) , तथा कु-चु-टु-तु-पु-एते उदिताः सवर्णग्रहणं कुर्वन्ति ।

किम् नाम सवर्णम् ? तुल्यास्यप्रयत्नं सवर्णम् 1|1|9 - ययोः वर्णयोः मुखस्थित-उच्चारणस्थानम् आभ्यन्तरप्रयत्नश्च समानः अस्ति, तौ वर्णौ परस्परयोः सवर्णौ स्तः । यथा - ( क् , ग्), (अ, आ), (य्, य्ँ) - आदयः ।

किम् नाम अविधीयमानः अण्-वर्णः? "अविधीयमानः" इत्युक्ते सः अण्-वर्णः यः आदेशरूपेण उक्तः नास्ति । उदाहरणद्वयं पश्यामश्चेत् प्रायः स्पष्टं भवेत् -

1) इको यण् अचि 6|1|77 अस्मिन् सूत्रे "इक्", "यण्" तथा "अच्" एते त्रयः प्रत्याहाराः प्रयुक्ताः सन्ति । एतेषु त्रिषु प्रत्याहारेषु अण्-वर्णाः एव सन्ति । परन्तु एतेषु इक्-इत्यत्र स्थिताः अण्-वर्णाः तथा अच्-इत्यत्र स्थिताः अण्-वर्णाः "आदेशरूपेण" प्रोक्ताः न सन्ति । "इकः" इत्यनेन स्थानीनिर्देेशः क्रियते तथा "अचि" इत्यनेन परनिमित्तम् दीयते । "यण्" इत्यनेन प्रोक्ताः वर्णाः तु "आदेशरूपेण" प्रोक्ताः सन्ति । अतः "यण्" इत्यनेन "विधीयमानः अण्-वर्णः निर्दिश्यते", तथा "इक्-इत्यनेन अच्-इत्यनेन च अविधीयमानः अण्-वर्णः निर्दिश्यते" इति ब्रूयते । अस्याम् अवस्थायाम् अणुदित् सवर्णस्य चाप्रत्ययः 1|1|69 इत्यनेन एतत् उच्यते, यत् इक्-प्रत्याहारस्थवर्णैः अच्-प्रत्याहारस्थवर्णैः अत्र सवर्णग्रहणं भवति, परन्तु यण्-प्रत्याहारस्थवर्णैः अत्र सवर्णग्रहणं न भवति ।
कः अस्य अर्थः ? इक्-इत्यस्मिन् प्रत्याहारे ह्रस्व-इकारस्य ग्रहणं भवति । अयं ह्रस्व-इकारः सवर्णग्रहणं करोति, अतः स्वस्य सर्वेषाम् अष्टादश-भेदानाम् निर्देशं करोति । अतः ह्रस्व-इकारात् परः अच्-वर्णः अस्ति चेत् तु यणादेशः भवत्येव, परन्तु दीर्घ-ईकारात् परः अच्-वर्णः अस्ति चेदपि यणादेशः भवति । तथैव अच्-इत्यनेन अपि सवर्णग्रहणं भवति, अतः इकारात् परः अकारः अस्ति चेदपि यणादेशः भवति, आकारः अस्ति चेदपि यणादेशः भवति । परन्तु, यण्-इत्यनेन सवर्णग्रहणं न क्रियते, अतः यण्-इत्यत्र स्थितः यकारः सवर्णस्य (इत्यक्ते, अनुनासिक-यकारस्य (यँकारस्य) ) ग्रहणं न करोति । अतः अत्र यणादेशः केवलं अननुनासिक-यकारस्यैव भवितुं शक्यते, अनुनासिक-यकारस्य न ।

2) एरच् 3|3|56 अनेन सूत्रेण इकारान्तधातोः अच्-प्रत्ययः विधीयते । ("एः" इति "इ" इत्यस्य षष्ठ्यैकवचनम् ।) अत्र "एः" इत्यनेन स्थानी निर्दिश्यते, अतः अत्र इकारः विधीयमानः नास्ति । इत्युक्ते, "इ" इत्यनेन ह्रस्व-इकारस्य दीर्घ-ईकारस्य चापि ग्रहणं भवति । परन्तु "अच्" इत्यनेन अस्मिन् सूत्रे आदेशः विधीयते, अतः अच्-इत्यनेन अत्र सवर्णग्रहणं न भवति । इत्युक्ते, अत्र अकारेण आकारस्य ग्रहणं न भवति । अतः ह्रस्व-इकारान्तधातोः अपि अकारः एव आदेशः भवति, दीर्घ-ईकारान्तधातोः अपि अकारः एव आदेशः भवति - जि → जयः , भी → भयः ।

एवम्, यः अण्-वर्णः विधीयमानः नास्ति, सः सवर्णस्य ग्रहणं करोति । परन्तु यः अण् विधीयमानः अस्ति, सः सवर्णस्य ग्रहणं न करोति ।

अग्रे "उदित्" इति किं तत् पश्यामः । उकारः यस्मिन् इत्संज्ञकः अस्तिः सः उदित् । उत् + इत् = उदित् । अस्मिन् सूत्रे "उदित्" इत्यनेन "कु-चु-टु-तु-पु" एतेषाम् पञ्चानाम् निर्देशः क्रियते । उदित्-वर्णः नित्यम् सर्वणग्रहणं करोति । अतः "कु" इत्यनेन ककारः तु गृह्यते एव, अपितु तेन सह ककारस्य सर्वे सवर्णाः - ख्, ग्, घ्, ङ् - एते अपि गृह्यन्ते । तथैव "चु" इत्यनेन सर्वे चवर्गीयवर्णाः, टु-इत्यनेन सर्वे ट-वर्गीववर्णाः, तु-इत्यनेन सर्वे त-वर्गीय-वर्णाः तथा पु-इत्यनेन सर्वे प-वर्गीववर्णाः गृह्यन्ते । यथा - चोः कुः 8|2|30 अस्मिन् सूत्रे "चु" तथा "कु" एतौ द्वौ उदित्-वर्णौ प्रयुक्तौ स्तः । अत्र उभयोः सवर्णग्रहणं भवति । अतः अस्य सूत्रस्य अर्थः - "चवर्गस्य स्थाने पदान्ते झलि परे वा कवर्गीयवर्णः आदेशरूपेण आगच्छति" इति भवति । यथा - वाच् → वाक् । सुयज् → सुयग् । अत्र चकारस्य ककारः, तथा जकारस्य गकारः अनेन सूत्रेण विधीयते ।

एवम् अनेन सूत्रेण - (1) अविधीयमानः अण्, तथा (2) उदित्-वर्णः - सवर्णग्रहणं कुरुतः ।

ज्ञातव्यम् -
1) अस्मिन् सूत्रे "अप्रत्ययः" अस्य शब्दस्य "प्रत्ययाधिकारस्य प्रत्ययेन सह" कोऽपि सम्बन्धः नास्ति । अत्र "प्रत्ययः" इत्युक्ते "विधीयमानः", इत्युक्ते, आदेशरूपेण प्रोक्तः । अतः "अप्रत्ययः" इत्युक्ते आदेशरूपेण यः प्रोक्त नास्ति, सः ।
2) अण्-प्रत्याहारे केवलं ह्रस्व-अकार-इकार-ऊकार-ऋकार-ऌकाराणाम् समावेशः अस्ति, एतेषां दीर्घ/प्लुत-भेदानां न । अतः केवलं ह्रस्व-अकारः / इकारः / उकारः / ऋकारः / ऌकारः एव सवर्णग्रहणं कुर्वन्ति । तेषां दीर्घप्लुतभेदाः - अविधीयमानाः भवन्तु, विधीयमानाः वा भवन्तु- कदापि सवर्णग्रहणं नैव कुर्वन्ति, यतः एतेषां विषये अस्मिन् सूत्रे किमपि प्रोक्तम् नास्ति । तथैव, ए-ऐ-ओ-औ-एतेषां केवलं दीर्घ-भेदः एव सवर्णग्रहणं करोति, प्लुत-भेदः न ।
3) "अप्रत्ययः" इति केवलम् "अण्" इत्यस्यैव विशेषणरूपेण प्रयुज्यते, उदित्-इत्यस्य न । उदित्-वर्णः अविधीयमानः अस्तु वा विधीयमानः अस्तु, सः नित्यं सवर्णग्रहणं करोति । यथा, चोः कुः 8|2|30 इत्यत्र विधीयमानः "कु" अपि सवर्णग्रहणं करोति, अविधीयमानः "चोः" अपि सवर्णग्रहणं करोति ।
4) केवलं अस्मिन् सूत्रे "अण्" इत्यत्र परम् णकारम् (इत्युक्ते, लण्-इत्यस्य णकारम् ) स्वीकृत्य प्रत्याहारनिर्माणम् कृतम् अस्ति । अन्यत्र सर्वत्र यत्र यत्र "अण्" इति उच्यते, तत्र तत्र "अइउण्" इत्यस्यैव णकारेण प्रत्याहारनिर्माणं भवति ।
One-line meaning in English
An अण् letter which does not give an आदेश, and an उदित letter represent all सवर्ण forms.
काशिकावृत्तिः
परेण णकारेण प्रत्याहारग्रहणम् । अण् गृह्यमाण उदित् च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य, प्रत्ययं वर्जयित्वा । आद् गुणः 6|1|87, अस्य च्वौ 7|4|32, यस्येति च 6|4|148 । स्वरानुनासिक्यकालभिन्नस्य ग्रहणं भवति । उदित् खल्वपि - चुटू 1|3|7, लशक्वतद्धिते 1|3|8 - चवर्गटवर्गयोः कवर्गस्य च ग्रहणम् भवति । अप्रत्ययः इति किम् ? सनाशंसभिक्ष उः 3|2|168, अ साम्प्रतिके 4|3|9 - दीर्घो न भवति ॥
संज्ञासूत्रमिदम्, न परिभाषा। साहि नियमार्था भवति। न चाणुदितां सवर्णाना-मन्येषांच ग्रहणं प्राप्तम्, येन सवर्णानामेव ग्रहणं भवतीति नियमः क्रियते- `परेण णकारेण प्रत्याहारग्रहणम्` इति। तेन ऋकारादयोऽपि सवर्णानां ग्राहकाः सिध्यन्तीत्यभिप्रायः। परेण च णकारेण प्रत्याहारग्रहणम् `अ इ उ ण्` इत्यत्र प्रतिपादितम्। पूर्वसूत्रात् `स्वं रूपम्` इत्येतदिहानुवत्र्तते। तच्चार्थाद्विभक्तिविपरिणामो भवतीतिषष्ठन्तं सम्पद्यते। तेन स्वस्यापि रूपस्याण् गृह्रस्याण उदिच्च ग्राहको भवतीति दर्शयन्नाह-- `स्वस्य च रूपस्य` इति। `आद्गुणः` इत्यादि। यथेह भवति देवेन्द्र इति, तथा खट्वेन्द्र इत्यत्राप्याद्गुणो भवति। `अस्य च्वौ` 7|4|32 यथा पटीभवतीत्यत्रे-त्वं भवति तथा मालीभवतीत्यत्रापि। `यस्येति च` 6|4|148 । यथा दिक्षिरित्यत्र लोपो भवति, तथा चौडिरित्यत्रापि। बाह्वादित्वाच्चूडाशब्ददिञ्। `स्वरानुनासिक्य` इत्यादि। उदात्तः सूत्रे गृह्रमाणः स्वरान्तरभिन्नस्यापि ग्राहको भवति। एवमनुदात्तः स्वरितश्च। तथा सानुनासिको निरनुनासिकस्य, सोऽपि तस्य।`दीर्घो न भवति` इति। यदि `अप्रत्ययः` इति प्रतिषेधो न स्यात् प्रत्ययोऽपि सवर्णानां ग्राहकः स्यात्। ततश्च दीर्घोऽपि स्यात्। ननु चात्यल्पमिदमुच्यते- `अप्रत्ययः` इति, अप्रत्ययादेशटित्किन्मित इति वक्तव्यम्। प्रत्यये प्रत्युदाह्मतम्। आदेशे--- `इदम इश्` 5|3|3 , अस्मात्= इतः, `पञ्चम्यास्तसिल्` 5|3|7 इतितसिल्, अस्मिन् = इह, `इदमो हः` 5|3|11 । अत्र हि सवर्णग्रहणे सति यद्यकृते त्यदाद्यत्व इश्भावस्तदान्तरतम्यात् त्रिमात्र इकारः प्राप्नोति, अथ कृतेऽद्र्धच-तुर्थमात्रः। यदि `अतो गुणे` 6|1|94 पररूपत्वेऽकृतेतदापि; अथ कृते ततोऽद्र्धतृ-तीयमात्रः। अथ वा- अद्र्धचतुर्थमात्रोऽद्र्धतृकतीयमात्रश्च नास्ति ततो द्विमात्र-स्त्रिमात्रश्च स्यात। टित्-- `आर्धधातुकस्येड् वलादेः` 7|2|35 , लविता, सवर्णग्रहणे सति दीर्घोऽपि स्यात्। कित् भुवो वुग् लुङलिटोः` 6|4|88 बभूव, अत्र सानुनासि-कोऽपि स्यात्। सन्ति हि यणः सानुनासिका निरनुनासिकाश्च। मित्-- `चतुरनुडुहोरामुदा-त्तः`, 7|1|98 `अम् सम्बुद्धौ` 7|1|99 , अनड्वन्-- अत्र दीर्घोऽपि स्यात्। तत् तह्र्रेवं वक्तव्यम्? न वक्तव्यम्; चकारोऽत्र क्रियते, सोऽनुक्तप्रतिषेधसमुच्च-यार्थो भविष्यति। तेन येषामादेशादीनां ग्राहकत्वं नेष्यते ते सवर्णानां ग्राहका न भविष्यन्ति।अन्ये त्वाहुः- ``अप्रत्यः` इति नेह संज्ञाग्रहणम्, किं तर्हि? अन्वर्थग्रहणम्। प्रतीयते विधीयते=उत्पाद्यत इति प्रत्ययः। तेनाप्रत्यय इत्यस्यायमर्थो भवति--`भाव्यमानोऽण् सवर्णान् न गृह्णाति (व्या।प35)इति। हशादयोऽपि भाव्यन्ते= उत्पाद्यन्त इति तेऽपि प्रत्ययाः, तेन ते सवर्णानां ग्राहका न भवन्ति` इति। चैश्चकारस्य प्रयोजनं वक्तव्यम्। `स्वं रूपम्` इत्यस्यानुकर्षणं तस्य प्रयोजनमिति चेत्, न; चानुकृष्टत्वादुत्तरत्र तदनुवृत्तिर्न स्यात्। न चैतत्प्रयोजनमुपपद्यते; स्वरितत्वादेवानुवृत्तिसिद्धेः।अथ मतम्-- `प्रथमान्तं स्वमित्येतत्प्रकृतं षष्ठीनिर्दिष्टेन चेहार्थः, तस्माच्चकाररे कृते यत्नात् षष्ठन्तता तस्य यथा स्यादित्येवमर्थश्चकारः` इति, एतदपि नास्ति; अर्थादेव हि विभ्कतिविपरिणामसिद्धेः॥
संज्ञासूत्रमेतत् न परिभाषा; प्रसिद्धार्थविनियोगात् । परेण णकारेणेति । एतच्च "लण्" इत्यत्र प्रतिपादितम् । स्वस्य च रूपस्येति यद्यपि प्रथमान्तं प्रकृतम्, तथापि सवर्णस्य चेति षष्ठ।ल्न्तस्यानन्तरं श्रूयमाणश्चशब्दोऽन्यस्य षष्ठन्तस्याभावात् तस्यैव षष्ठ।ल्न्ततां प्रकल्पयतीति भावः । प्रत्ययं वर्जयित्वेति । तेन तत्रोच्चारितमेव रूपं गृह्यते । "आद् गुणः" इत्यादि । यथेह भवति देवेन्द्र इति, एवं खट्वेन्द्र इत्यादावपि भवति । अस्य च्वो । यथेह भवति शुक्लीभवतीति, एवं मालीभवतीत्यादावपि भवति । यस्येति च । यथेह भवति दाक्षिः प्लाक्षिरिति, एवं चौडिर्बालाकिरित्यादावपि भवति । जूडाबलाकाशब्दौ बाह्वादी । ननु च "अकः" "अचि" इत्यादौ प्रत्याहारग्रहणे कथं मध्यवर्तिरिकारादिभिस्सवर्णग्रहणम्, उच्चारितो हि संज्ञाशब्दः संज्ञिनं प्रत्याययति, न च मध्यवर्तिनामुच्चारणमस्ति । ते ह्यगादिसंज्ञाभिः संज्ञित्वेन प्रत्याय्यन्ते, क्व तर्हि स्यात् ? "अस्य च्वौ" "यस्येति" यत्र संज्ञाया उच्चारणमस्ति । प्रत्याहारे चाद्यो वर्ण उच्चारितत्वात्सवर्णग्रहाहकः । स्यादेतत्-अक्षरसमाम्नाय उच्चारिता इकारादयः सवर्णानां ग्राहका इति । अगादिचोदनासु ईकारादयोऽपि ह्रस्ववत्संज्ञित्वेनैव प्रतीयन्ते त्विकारादिभिः प्रतीतैः प्रत्याय्यन्त इति, न; अपरकालत्वात् । इह वर्णानामुपदेशस्तावद्, उपदेशोतरकाला इत्संज्ञा, इत्संज्ञोतरकालमादिरन्त्येनैतत्प्रवर्तते, ततोऽण् सवर्णस्येति । तदनेनोपदेशादिष्वङ्गेषु निष्पन्नेषु अन्यत्र "अस्य च्वौ" इत्यादौ सवर्णानां ग्रहणं भवति, नाङ्गेषु, नापि स्वात्मनि; अनिष्पन्नत्वात् । यदि त्वस्मिन्नपि सूत्रे सवर्णग्रहणं स्यात्,"आदृगमहनः","आञ्दोरप्" इत्यादौ अकारादयोऽपि सवर्णान् गृह्णीयुः । अतोऽस्मिन् सूत्रेऽक्षरसमाम्नोये चागृहीतसवर्णानां ग्रहणम् । ततश्च तदेव स्थितम् प्रत्याहारेषु मध्यवर्तिभिः सवर्णग्रहणं न स्यादिति, नैष दोषः; उच्चार्यमाणैरेव प्रत्यायकैर्भवितव्यमिति नास्ति नियमः, बुद्ध्युपारूढास्तु प्रत्यायकाः । अस्ति च मध्यवर्तिनां बुद्ध्युपारोहः, ततश्च संज्ञित्वेन प्रत्याय्यमानस्यापि प्रत्यायकत्वं भविष्यति । अत्र ज्ञापकम्--"दीर्घाज्जासि च" इति प्रतिषेधः । स हि कुमार्यावित्यादौ "प्रथमयोः पूर्वसवर्णः" इति दीर्घो मा भूदिति । तत्र चाक इति वर्तते । खट्वे इत्यादौ तु ङादिचि" इत्येव सिद्धः प्रतिषेधः । "दीधीवेवीटाम्""ल्वादिभ्यः" इत्यादयश्च निर्द्देशा एवमेवोपपद्यन्ते,यदि मध्यवर्तिभिरपि सवर्णग्रहणं भवति । स्वरानुनासिकेत्यादिरुदातः सूत्रे गृहीतः स्वरान्तरभिन्नमपि गृह्णाति, एवमनुदातस्वरितौ च । तथा सानुनासिको निरनुनासिकम्, सोऽपि तम् । दीर्घो न भवतीति । असति त्वप्रत्यय इत्यस्मिन् प्रत्ययेनापि सवर्णग्रहणात् दीर्घोऽपि स्यात् । अत्यल्पमिदमुच्यते-"अप्रत्ययः" इति, "अप्रत्ययादेशटित्किंन्मित इति वक्तव्यम्" । प्रत्यये प्रत्युदाहृतं तत्र । आदेशे-"इदम् इश्",इतः; इह विशेष विहितत्वात्त्यदाद्यत्वं बाधित्वा त्रिमात्रिक आदेशः प्राप्नोति । टिति--"आर्द्धधातु कस्येड् वलादेः", पठितेति दीर्घोऽपि स्यात् । "ग्रहोऽलिटि दीर्घः" इत्येततु ग्रहेर्दीर्घ एव, न ह्रस्व इति नियमार्थं स्यात् । "वृतो वा" इत्येतदपि ववरिथेति लिटि दीर्घो मा भूदित्येवमर्थं स्यात् । किति-"भुवो वुग्लुङ्लिटोः" बभूव, अनुनासिकोऽपि स्यात् । मिति-"अम् सम्बुद्धो" हे अनड्वन्, आमपि स्यात्, एवं तर्ह्यप्रत्यय इति नेह संज्ञाग्रहणम्, किं तर्हि ? अन्वर्थग्रहणम्-प्रतीयते विधीयत इति प्रत्ययः, भाव्यमानः सवर्णान्न गृह्णातीत्यर्थः । इशादयोपि भाव्यन्ते । संज्ञाप्रत्ययस्य तु नावश्यकः प्रतिषेधः । येनार्थम्प्रतियन्ति स प्रत्ययः, न हि दीर्घप्लुतयोरर्थस्याभिधानमस्ति । "कुहोः श्चुः" इत्यादौ भाव्यमानस्याप्युदित्वासामर्थ्यादप्रत्यय इति निषेधाभावः । तथा च पठ।ल्ते-"भाव्यमानोऽण् सवर्णान्न गृह्णाति" इति ॥
सिद्धान्तकौमुदी
प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण् उदिच्च सवर्णस्य संज्ञा स्यात् । अत्राण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् । अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवम् लृकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । ऐऔजिति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः संज्ञाः स्युरिति नापादनीयम् । नाज्झलौ (कौमुदी-13) इति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभिः इत्यत्र हो ढः (कौमुदी-324) इति ढत्वं न भवति । अनुनासिकाननुनासिकाभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥
अणुदित् सवर्णस्य चाप्रत्ययः - अणुदित्सवर्णस्य । प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे "त्यदादीनामः" "इदमैश्" इत्यादीनां पर्युदासो न स्यादित्यतो व्याचष्टे — प्रतीयत इति । उत् इत् यस्य सः उदित=कु चु टु तु पु इत्यादिः । चकारात्स्वं रूपमित्यतः स्वमित्यनुवर्तते । तच्च षष्टन्ततया विपरिणम्यते । तदाह-अविधीयमान इत्यादिना । अणिति पूर्वेण परेण वा प्रत्याहार इति संशये निर्धारयति-अत्रेति । अस्मिन्नेव सूत्रे अण् परेण णकारेण, इतरत्र तुअणोऽप्रगृह्रस्ये॑त्यादौ पूर्वेणैवेत्यर्थः । अत्र च आचार्यपारंपर्यौपदेशरूपं व्याख्यानमेव शरणम् । एवं चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिदीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वातेषु परेषु इकारस्य यणादिकं स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम् । अणुदित्सूत्रस्य फलमाह — तदेवमिति । तत्णुदित्सूत्रम् । एवं=वक्ष्यमाणप्रकारेण फलतीत्यर्थः । तिंरशत इति । ऋलृवर्णयोर्मिथः । सवर्णतया ऋकारेण स्वाष्टादशभेदानाम्लृकारीयद्वादशभेदानां च ग्रहणादिति भावः । एवम्लृकारोऽपीति । ऋकारस्यापि लृकारसवर्णत्वादिति भावः । नन्वेकारेण ऐकारप्रपञ्चोऽपि गृह्रते, ऐकारेण एकारप्रपञ्चश्च । तथा ओकारेण औकारप्रपञ्चो गृह्रेत, औकारेण ओकारप्रपञ्चश्च । ततस्च एचश्चतुवशतेः संज्ञा स्युरित्येवं वक्तव्यं नतु द्वादशानामित्यत आह — एदेतोरिति । कुतो न सावण्र्यमित्यत आह — ऐऔजिति । यदि ह्रेदैतोः ओदौतोश्च परस्परं सावण्र्यं स्यात्तर्हि एकारेण ऐकारप्रपञ्चस्य, ओकारेण औकारप्रपञ्चस्य च अकारादिभिदीर्घप्लुतानामिव ग्रहणसम्भवात्ऐऔ॑जिति सूत्रं नारभ्येत । आरभ्यते च (सूत्रकृता) । अत एदैतोरोदौतोश्च न परस्परं सावण्र्यमिति विज्ञायत इत्यर्थः । अच् इच् एच् इत्यादि प्रत्याहारास्तु ङकारेणैव निर्वाह्राः । नच "एचोऽयवायाव" इत्यत्र यथासंख्यार्थमैऔजिति सूत्रमस्त्विति वाच्यम् । तत्र स्थानेऽन्तरतमः॑ इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भावः । वस्तुतस्तुऐऔ॑जिति सूत्राऽभावे "वृद्धिरादैच्"न त्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् "प्लुतावैच् इदुतौ" इत्यादौ एङ्ग्रहणापत्तौ एदोतोरपि ग्रहणे प्रसक्ते तन्निवृत्त्यर्थमैच्प्रत्याहार आवश्यक इति तदर्थमैऔजित्यारम्भणमीयमेव । अत ऐऔजिति सूत्रारम्भस्य चरितार्थत्वादेदैतोरोदौतोश्च मिथऋ सावण्र्याऽभावसाधकत्वकथनमनुपपन्नमेव । एदैतोरोदौतोश्च मिथः सावण्र्याभावस्तु वृद्दिरादैजित्यादौ क्वचिदैज्ग्रहणात् "अदेङ्गुणः" इत्यादौ क्वचिदेङ्ग्रहणाच्च सुनिर्वाहः । अन्यथा सर्वत्र एङ्ग्रहणमेव ऐज्ग्रहणमेव वा कुर्यात् । तावतैव चतुर्णां ग्रहणसम्भवात् । अत ऐच् एङिति प्रत्याहारद्वयग्रहणसामथ्र्यादेदैतोरोदौतोश्च न मिथः सावण्र्यम् । "प्लुतावैच इदुतौ"एचोऽप्रगृस्ये॑ति प्रत्याहारद्वयग्रहणवैयथ्र्याच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । तेनेति । एदैतौरोदौतोश्च मिथस्सावण्र्याभावेनेत्यर्थः । नापादनीयमिति । नाशङ्कनीयमित्यर्थः । एवं च एकारेण सह वर्तत इति सैः, हे सैरित्यत्र "एङ्ह्यस्वात्" इति संबुद्धिलोपो न । ग्लावं ग्लाव इत्यत्र "औतोऽम्शसोः" इत्यात्वं च न । स्यादेतत् । हकारस्य आकारस्य च सवर्णसंज्ञा स्यात् , स्थानप्रयत्नसाम्यात्, अज्झलामेव सावण्र्यनिषेधात्, वार्णसमाम्नायिकानामेन वर्णानामज्झलशब्दवाच्यत्वात्, आकारप्रश्लेषे च प्रमाणाऽभावात् । न चाकारस्याच्त्वात्तेन आकारस्यापि अणौदित्सूत्रेण ग्रहणादाकारहकारयोर्न सावण्र्यमिति वाच्यं, ग्रहणकसूत्रे हि लब्धात्मकमेव सत् "अस्य च्वौ" इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रं न लब्धात्मकम् । तद्धि सवर्णपदघटितं, सवर्णपदार्थावगमोत्तरम#एव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुस्यास्यसूत्रं सामान्यतः त्वर्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्तत्रैव पर्यवसन्नं स्वकार्यक्षमम् । तदुक्तम् — ॒प्रकल्प्यपवादविषयमुत्सर्गोऽभिनिविशते॑ इति । उक्तं च भाष्ये-वर्णानामुपदेशस्तावत्, उपदेशोत्तरकाला इत्संज्ञा, इत्संज्ञोत्तरकाल आदिरन्त्येनेति प्रत्याहारः, प्रत्याहारोत्तरकाला सवर्णसंज्ञा, तदुत्तरकालमणुदित्सूत्रमित्येतेन समुदितेन वाक्येनात्यत्र सवर्णानां ग्रहणं भवती॑ति । अन्यत्र=॒अस्य च्वौ॑ इत्यादावित्यर्थः । अत्र भाष्येप्रत्याहारोत्तरकाला सवर्णसंज्ञे॑त्यनेन नाज्झलाविति निषेधसहितः सावण्र्यविधिर्विवक्षितः , केवलसावण्र्यविधेः प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमाऽसम्भवात् । तथा चाणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकत्वात्तेन नाज्झलावित्यत्र अज्ग्रहणेन सवर्णानां ग्रहणाऽभावात्सावण्र्यविधिनिषेधाभावादकारहकारयोः सावण्र्यं स्यादिति शङ्कते — नाज्झलाविति सावण्र्येत्यादिना । यद्यपीति सम्भावनायाम् । अक्षरसमाम्नायः=चतुर्दशसूत्री । तत्र भवा आक्षरसमाम्नायिकाः ।बह्वचोऽन्तोदात्तात् इति ठञ् । न च नाज्झलविति प्रवृत्तिदशायामणुदित्सूत्रप्रवृत्त्यभावेऽपि तत्र अजित्यनेन लक्षणया दीर्घप्लुतानां ग्रहणमस्तु प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम् । स्ववाच्यवाच्येषु हि प्रत्याहाराणां लक्षणा, न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति । अमुदित्सूत्रस्येदानीमप्रवृत्तेरिति भावः । परिहरति — तथापीति । वार्णसमाम्नायिकानामेव नाज्झलाविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थः । कुत इत्यत आह — तत्रापीति । अपिशब्दो व्युत्क्रमः । तत्र=नाज्झलाविति सूत्रे, आसहितोऽच् आचित्याकारस्यापि सवर्णदीर्घेण प्रश्लिष्टत्वादित्यर्थः ।नन्वस्तु हकारस्य आकारस्य च सावण्र्यं, किं तत्प्रतिषेधार्थेन आकारप्रश्लेषेणेत्यत आह — तेनेति । तेन=हकारस्य आकारस्य च सावण्र्यप्रतिषेधेन, हकारेण आकारस्य ग्रहणाऽभावाद्विआपाभिरित्यत्र "हो ढः" इति हकारस्य विधीयमानं ढत्वं पकारादाकारस्य न भवति । आकारप्रश्लेषाऽभावे तु, तस्य हकारस्य च सावण्र्यसत्वाद्धकारेण आकास्य च ग्रहणात्तस्य ढत्वं स्यादित्यर्थः । अत्र ढत्वस्यासिद्धत्वात्संयोगान्तलोप एवापादनीय #इति नवीनाः ।कालसमयवेलासु तुमुन् इति सूत्रे वेलास्विति लकारादाकारस्य निर्देशो नाज्झलावित्यत्र आकारप्रश्लेषे प्रमाणम् । अन्यथा तत्र ढत्वस्य संयोगान्तलोपस्य वाऽ‌ऽपत्तावाकारो न श्रूयेतेत्यलम् । ननु ग्रहणकसूत्रेऽज्ग्रहणमेव क्रियताम्, अणुदित्सवर्णस्येति किमण्ग्रहणेन, हयवरलानां सवर्णाऽभावेन तेषु ग्रहणकशास्त्रस्य व्यर्थत्वादित्यत आह — अनुनासिकेति । तेनेति । उक्तद्वैविध्येन सवर्णत्वात्-अननुनासिकास्ते यवलाः प्रत्येकं द्वयोद्र्वयोः संज्ञाः । अनुनासिकास्तु यवला अननुनासिकानामपि न संज्ञाः, "भेदको गुणा" इत्याश्रयणात्, वर्णसमाम्नायेऽननुनासिकानामेव तेषां पाठाच्च । एवं च यवलसंग्रहार्थं ग्रहणकसूत्रेऽज्ग्रहणमपह#आय अण्ग्रहणमिति भावः ।
अणुदित् सवर्णस्य चाप्रत्ययः - अविधीयमानोऽणिति । तेन इत इत्यत्रइदम इश् इति त्रिमात्र ईकारो न भवति । उदिच्चेति । इहअविधीयमान॑ इति न संबध्यते, उदित्करणसामथ्र्यात् । तेन विधीयमानोऽप्युदित्सवर्णान्गृह्णात्येव,-॒कुहोश्चुः॑ जगाद जघटे । परेण णकारेणेति । व्याख्यानतो विशेषप्रतिपत्तेः,उपसर्गादृति॑ऋत उत् इत्यादौ तपरकरणाल्लिङ्गाच्च । यदि पूर्वेण स्यात्तर्हि तपरत्वमिहानर्थकं स्यात्, ऋकारस्याऽनण्त्वेन सवर्णाऽग्राहकत्वात् । एवं चतपरत्वाद्दीर्थे न, उप ऋकारीयति॑ इत्यादिवक्ष्यमाणग्रन्थोऽपि सङ्गच्छते । एवम्लृकारोऽपीति ।तिंरशतः संज्ञे॑त्यनुषज्यते । एतच्च न्यायसाम्यादुक्तम् । वस्तुत लृकारस्य ऋकारग्राहकत्वं न कुत्राप्युपलभ्यते । सूत्रारम्भसामथ्र्यादिति । सति तु सावण्र्ये एकारेण ऐकारग्रहणादोकारेण चौकारग्रहणात्ऐऔच् इति सूत्रारम्भो वृथा स्यादिति भावः । नापादनीयमिति । तेन ग्लावं ग्लाव इत्यत्रऔतोम्शसोः॑ इति न प्रवर्तत इति मूल एव स्फुटीभविष्यति । यद्यपीति । ग्रहणकशास्त्रस्याद्याप्यनिष्पत्तेरिति भावः । एतच्चअकः सवर्णे दीर्घः॑ इत्यत्र व्युत्पादयिष्यामः । आक्षरेति । अक्षराणां समाम्नायः=उपदेशसूत्राणि । तत्र भवा आक्षरसमाम्नायिकाः ।बह्वचोऽन्तोदात्ताट्ठञ् इति ठञ् । हो ढ इति ढत्वं न भवतीति । यद्यप्याकारप्रश्लेषाभावे संयोगान्तलोप एव प्राप्नोति नतु ढत्वं, तस्यासिद्धत्वात्, अतोऽत्र संयोगान्तलोपो न भवतीति वक्तुमुचितम्, तथापिकार्यकालं संज्ञापरिभाषम् इति पक्षे त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषायाः प्रवृत्तेरन्तरङ्गे ढत्वे कर्तव्ये बहिरङ्गः संयोगान्तलोपोऽसिद्ध इति मत्वेदमुक्तमित्येके । अन्ये तुसंज्ञापूर्वको विधिरनित्यः॑ इति लोपस्य वारणं कथंचित्कर्तुं शक्यमित्याशयेन ढत्वं नेत्युक्तमित्याहुः । विआपाभिरित्यत्रेत्युपलक्षणम् । विआपाः विआपाभ्यामित्यादावपि न भवति ।हो ढः॑ इत्युपलक्षणम् ।पृथगायु॑रित्यादौझयो हः॑ इत्याकारस्य घकारो नेति दिक् । यदि तुविवृतमूष्मणाम् इत्यत्रईषत्स्पृष्टम् इत्यतईष॑दित्यनुवर्त्त्यस्वराणां चे॑त्यत्र निवर्त्त्यईषद्विवृतमूष्मणां, विवृतं स्वराणा॑मिति प्रयत्नभेदो व्याख्यायते, तदानाज्झलौ॑ इति सूत्रं त्यक्तुं शक्यमित्याकरे स्थितम् । अनुनासिकास्ते इति । ये त्वाक्षरसमाम्नायिका अणस्त एव सवर्णानां संज्ञा भवन्तीति भावः । एवंच रेफो हकारश्च अण्प्रत्यागारान्तर्गतोऽपि न क्सयचित्संज्ञा, तत्सवर्णस्यान्यस्याऽभावादित्यवगन्तव्यम् ।
लघुसिद्धान्तकौमुदी
प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं ऌकारोऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा।
महाभाष्यम्
अणुदित्सवर्णस्य चाप्रत्ययः अप्रत्ययः इति किमर्थम् ? सनाशंसभिक्ष उः अ साम्प्रतिके। अत्यल्पमिदमुत्यते ‐ - अप्रत्यय इति। अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम्। प्रत्यय- उदाहृतम्। आदेशे- इदम् इश्। इतः इह। टिति ‐ लविता लवितुम्। किति ‐ बभूव। मिति- हे अनड्वन्। टितः परिहारः ‐ आचार्यप्रवृत्तिर्ज्ञापयति न टिता सवर्णानां ग्रहणं भवतीति। यदयं ग्रहोऽलिटि दीर्घत्वं शास्ति। नैतदस्ति ज्ञापकम्। नियमार्थमेतत् स्यात्। ग्रहोऽलिटि दीर्घ एवेति। यत्तर्हि वृतो वे ति विभाषां शास्ति। सर्वेषामेष परिहारः- भाव्यमानेन सवर्णानां ग्रहणं नेत्येवं न भविष्यति। प्रत्यये भूयान् परिहारः- अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति। यान् हि प्रत्ययः सवर्णान् गृह्णीयात् न तैरर्थस्याभिधानं स्यात्। अनभिदानान्न भविष्यति। इदं तर्हि प्रयोजनम्। इह केचित् प्रतीयन्ते केचित् प्रत्यात्याय्यन्ते। ह्रस्वाः प्रतीयन्ते, दीर्घाः प्रत्याय्यन्ते। यावच्च ब्रूयात् ‐ -प्रत्याय्यमानेन सवर्णानां ग्रहणं नेति तावदप्रत्यय इति। कं पुनर्दीर्घः सवर्णग्रहणेन गृह्णीयात् ? ह्रस्वम्। यत्नाधिक्यान्न ग्रहीष्यति। प्लुतं तर्हि गृह्णीयात्। अनण्तवान्न ग्रहीष्यति। एवं तर्हि सिद्धे सति यदप्रत्यय इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा भाव्यमानेन सवर्णानां ग्रहणं नेति। किमर्थं पुनरिदमुच्यते ? अण् सवर्णस्येति स्वरानुनासिक्यकालभेदात्। अण् सवर्णस्येत्युच्यते। स्वरभेदादनुनासिकभेदात् कालभेदाच्च अण् सवर्णान्न गृह्णीयात्। इष्यते च ग्रहणं स्यादिति। तच्चान्तरेण यत्नं न सिध्यतोत्येवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति? तत्र प्रत्याहारग्रहणे सवर्णग्रहणमनुपदेशात्। तत्र प्रत्याहारग्रहणे सवर्णानां ग्रहणं न प्राप्नोति। अकः सवर्णेदीर्घ इति। किं कारणम्? अनुपदेशात्। यथाजातीयकानां सञ्ज्ञा कृता तथाजातीयकानां सम्प्रत्यायिका स्यात्। ह्रस्वानां च क्रियते ह्रस्वानामेव सम्प्रत्यायिका स्यात् दीर्घाणां न स्यात्। ननु च ह्रस्वाः प्रतीयमाना दीर्घान् सम्प्रत्याययिष्यन्ति। ह्रस्वसम्प्रत्ययादिति चेदुच्चार्यमाणशब्दसम्प्रत्यायकत्वाच्छब्दस्यावचनम्। ह्रस्वसम्प्रत्ययादिति चेदुच्चार्यमाणः शब्दः सम्प्रत्यायको भवति न सम्प्रतीयमानः। तद्यथा ‐ ऋगित्युक्ते संपाठमात्रं गम्यते। एवं तर्हि वर्णपाठ एवोपदेशः करियष्ते। वर्णपाठ उपदेश इति चेदवरकालत्वात् परिभाषाया अनुपदेशः। वर्णपाठक्रमे उपदेश इति चेद् अवरकालत्वात् परिभाषाया अनुपदेशः। किं परा सूत्रात् क्रियते इत्यतोऽवरकाला? नेत्याह। सर्वथावरकालैव। वर्णानामुपदेशस्तावत्। उपदेशोत्तरकाला ‐ इत्संज्ञा। इत्संज्ञोत्तरकाल आदिरन्त्येन सहेतेति प्रत्याहारः। प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा। सवर्णसंज्ञोत्तरकालमनुदित्सवर्णस्यचाप्रत्यय इति। सैषाऽवरकाला उपदेशोत्तरकाला वर्णानामुत्पत्तौ निमित्तत्वाय प्रकल्पिष्यत इत्येतन्न। तस्मादुपदेशः। कर्तव्यः। तत्रानृवृत्तिनिर्देशे सवर्णग्रहणमनण्त्वात्। तत्रानुवृत्तिनिर्देशे सवर्णानां ग्रहणं न प्राप्नोति। अस्य च्वौ। यस्येति चेति। किं कारणम्? अनण्त्वात्। नह्येतेऽणो येऽनुवृतौ। के तर्हि ? येऽक्षरसमाम्नाये उपदिश्यन्ते। एवं तर्हि अन्ण्त्वादनुवृत्तौ न, अनुपदेशाच्च प्रत्याहारे न। उच्यते चेदमण् सवर्णान् गृह्णातीति तत्र वचनाद् भविष्यति। वचनाद् यत्र तन्नास्ति। नेदं वचनाल्लभ्यम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? य एते प्रत्याहाराणामादितो वर्णास्तैः सवर्णानां ग्रहणं यथा स्यात्। एवं तर्हि। सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणात्। सवर्णेऽण्ग्रहणमपरिभाष्यम्। कुतः? आकृतिग्रहणात्। अवर्णाकृतिरुपदिष्टा सर्वमवर्णकुलं ग्रीहीष्यति। तथेवर्णाकृतिः। ननु चान्या आकृतिरकारस्य। अन्या चाऽऽकारस्य। अन्यात्वाच्च। अनन्याकृतिरकारस्याकारस्य च। अनेकान्तो ह्यनन्यत्त्वकरः। यो ह्यनेकान्तेन भेदो नासावन्यत्त्वं करोति। तद्यथा न यो गोश्च गोश्च भेदः सोऽन्यत्त्वं करोति। यस्तु खलु गोश्चाश्वस्य च भेदः सोऽन्यत्त्वं करोति। अपर आह- सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणादनन्यत्वम्। सवर्णोऽण्ग्रहणमपरिभाष्यम्।आकृतिग्रहणादनन्यत्वंभविष्यति। अनन्याकृतिरकारस्याकारस्य च। अनेकान्तो ह्यनन्यत्वकरः। यो ह्येनकान्तेन भेदो नासावन्यत्वं करोत। तद्यथा न यो गोश्च गोश्च भेदः सोऽन्यत्त्वं करोति। यस्तु खलु गोश्च अश्वस्य च भेदः सोऽन्यत्त्वं करोति। तद्वच्च हल्ग्रहणेषु। एवं च कृत्वा हल्ग्रहणेषु सिद्धं भवति। झलो झलि। अवात्ताम्। अवात्तम्। अवात्त। यत्रैतन्नास्ति- अण् सवर्णान् गृह्णातीति। अनेकान्तो ह्यनन्यत्त्वकर। इत्युक्तार्थम्। द्रुतविलम्बितयोश्चानुपदेशात्। द्रुतविलम्बितयोश्चानुपदेशान् मन्यामहे आकृतिग्रहणात् सिद्धमिति। यदयं कस्यां चिद् वृत्तौ वर्णानुपदिश्य सर्वत्र कृती भवति। अस्ति प्रयोजनमेतत्। किं तर्हीति? वृत्तिपृथक्त्वं तु नोपपद्यते। वृत्तेः पृथक्त्वं नोपपद्यते। तस्मात् तत्र तपरनिर्देशात् सिद्धम्। तस्मात् तत्र तपरनिर्देशः कर्तव्यः। न कर्तव्यः। क्रियते न्यास एव। अतो भिस ऐस् इति।