Page loading... Please wait.
1|1|64 - अचोऽन्त्यादि टि
॥ तस्मै पाणिनये नम: ॥
1|1|64
SK 79
अचोऽन्त्यादि टि   🔊
सूत्रच्छेद:
अचः - षष्ठ्येकवचनम् , (निर्धारणषष्ठी) अन्त्य-आदि - प्रथमैकवचनम् , टि - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
अन्त्यात् अच: आदि: टि
सूत्रार्थ:
शब्दस्य यः अन्तिमः अच्-वर्णः, तस्मात् आरभ्य शब्दस्य अन्तिमवर्णपर्यन्तम् यः वर्णसमूहः, तस्य "टि" संज्ञा भवति ।
एतत् टि-संज्ञाविधायकम् सूत्रम् अस्ति । प्रत्येकस्य शब्दस्य यः अन्तिमः स्वरः, तस्मात् आरभ्य शब्दस्य अन्तपर्यन्तम् यत् किमपि अस्ति, तस्य "टि" इति संज्ञा भवति । यथा -

1) "रामम्" इत्यत्र "अम्" इत्यस्य टिसंज्ञकः ।
2) "रामस्य" इत्यत्र अन्तिमः वर्णः स्वरः अस्ति, अतः सः एव टिसंज्ञकः । अतः अत्र "अ" इत्यस्य टिसंज्ञा भवति ।
3) "पृच्छ्" इत्यस्य "ऋच्छ्" इति टिसंज्ञकः अंशः ।
4) "मुनिः" इत्यत्र "इः" इति टिसंज्ञकः । विसर्गस्य ग्रहणम् यद्यपि "अच्" प्रत्याहारे क्रियते , तथापि सः स्वतन्त्ररूपेण आगन्तुम् न प्रभवति अतः येन स्वरेण सह तस्य प्रयोगः भवति तस्यैव स्वरस्य ग्रहणम् करणीयम् ।

टिसंज्ञायाः प्रयोगः टेः 6|1|143, वाक्यस्य टेः प्लुतः उदात्तः 8|2|82 , टित आत्मनेपदानां टेरे 3|4|79 आदिषु सूत्रेषु भवति ।
One-line meaning in English
The fragment of a word starting with the last अच् letter in the word, till the end of the word is called टि.
काशिकावृत्तिः
अचः इति निर्धारणे षष्ठी । जातावेकवचनम् । अचां सन्निविष्टानाम् योऽन्त्योऽच् तदादि शब्दरूपं टिसंज्ञं भवति । "अग्निचित्" - इत्-शब्दः, "सोमसुत्" - उत्-शब्दः । "आताम्", "आथाम्" - आम्-शब्दः - पचेते, पचेथे । टिप्रदेशाः टित आत्मनेपदानां टेरे 3|4|79 इत्येवम् आदयः ॥
`अन्त्यादि`इति बहुव्रीहिः अचां मध्ये योऽन्त्योऽच्,स आदिर्यस्य शब्दरूप-स्य तत् तथोक्तम्। ननु चान्त्यशब्दोऽत्राचामित्येतदपेक्षत इत्यसामथ्र्यादादिशब्देन सह समासो न प्राप्नोति, नैष दोषः; अन्त्यशब्दो हि सम्बन्धिशब्दः, सम्ब्नधिशब्दानां नित्यसापेक्षत्वेन गमकत्वात् सापेक्षत्वेऽपि समासो भवति, यथा देवदत्तस्य गुरुकुल-मिति। `निर्धारणे षष्ठी` इति। `यतश्च निर्धारणम्` 2|3|41 इत्यनेन यदि निर्धारणे षष्ठीयम्, एवं हि सति निर्धारणमनेकसन्निपाते भवतीत्यच इत्येकवचनं न स्यात्।बहुत्वद्बहुवचनेन भवितव्यमित्यत आह -- `जातावेकवचनम्` इति। जातेरेकत्वादिति भावः। `अचां सन्निविष्टानां योऽन्त्योच्` इति। कथं पुनरजित्येष विशेषो लभ्यते, यावता नेह द्वितीयमज्ग्रहणम्, नापि प्रकृतम्? एवं मन्यते -- समानजातीयस्यैव लोके निर्धारणं प्रसिद्धम्। तथा हि, कृष्णा गवां सम्पन्नक्षीरतमेति द्वितीयं गोशब्दमन्तरेणापि गौरेव प्रतीयते। तस्मादिहापि यद्यपि द्वितीयमज्ग्रहणं नास्ति, तथापि समानजातीयोऽजेव निर्धार्यमाणोऽवसीयत इति। अन्ते भवोऽन्त्यः, दिगादित्वात् यत्। `तदादि` इति। स आदिर्यस्येति विग्रहः। `इच्छब्दः` इत्यादिनि रूपोदाहरणानि। कार्यं पुनरिच्छब्दस्य टिसंज्ञायामग्निचितमाचष्ट इति णिचि कृते `णाविष्टवत् प्रातिपदिकस्य` (वा।813) इति टिलोप अग्न चयतीति। `आताम्, आथाम्` इति। अनयोस्तु टिसंज्ञाकार्यम्-- `टित आत्मनेपदानां टेरे` 3|4|97 टेरेत्वम्। `पचेते, पचेथे` इति कार्योदाहरणे। अथ वहिमहिङोरिकारस्य कथंटिसंज्ञा, यावता न सोऽस्ति यस्य सोऽन्त्यः, अजादिरिति व्यपदिश्यते? नैष दोषः; `आद्यन्तवदेकस्मिन्` 1|1|20 इतिव्यपदेशिद्भावेनादिः, अन्त्य इति व्यपदेशो भविष्यति।
अन्ते भवोऽन्त्यः दिगादित्वाद्यत्, अन्त्यादिति बहुव्रीहिः । यद्यप्यचामित्येतदपेक्षोऽन्त्यशब्दस्तथापि सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिविरुद्धः समासः निर्धारणे षष्ठीति । यद्येवं निर्द्धारणस्यानेकाश्रयत्वाद् अच इत्येकवचनमुनपपन्नम्, तत्राह-जाताविति । योऽन्त्योऽजिति ।निर्द्धारणस्य सजातीयविषयत्वादजिति लभ्यम् । इच्छब्द इत्यादि रूपोदहरणम् । कार्यं त्वग्निचि तमाचष्टे णिचि "णाविष्ठवत्" इति टिलोपः । पचेते इत्यादि कार्योदाहरणम् ॥
सिद्धान्तकौमुदी
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् ॥ ।शकन्ध्वादिषु पररूपं वाच्यम् (वार्तिकम्) ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः । कुलटा ।सीमन्तः केशवेशे (वार्तिकम्) ॥ सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशुपक्षिणोः । सारङ्गोऽन्यः । आकृतिगणोऽयम् ॥ मर्ताण्डः ॥ ।ओत्वोष्ठयोः समासे वा (वार्तिकम्) ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!