॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|60
SK 53
1|1|60
अदर्शनं लोपः   🔊
SK 53
सूत्रच्छेद:
अदर्शनं - प्रथमैकवचनम् , लोपः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
अदर्शनम् लोप:
सूत्रार्थ:
प्रसक्तस्य अदर्शनम् लोपसंज्ञकः भवति ।
यस्य वर्णस्य दर्शनम् / श्रवणम् / उच्चारणम् / उपलब्धिः न भवति, तस्य वर्णस्य "लोपः" भवति इत्युच्यते ।

"लोप"संज्ञायाः प्रयोगः एतादृशेषु सूत्रेषु क्रियते - लोपः शाकल्यस्य 8|3|19 , लोपो व्योर्वलि 6|1|66, लोपो यि 6|4|118 आदयः ।

ज्ञातव्यम् - "लोपः" इत्युक्ते "विनाशः" इति न । वर्णानाम् विनाशः न भवितुं शक्यते । लोपः इत्युक्ते केवलं अदर्शनम् । यस्य वर्णस्य लोपः भवति, सः यद्यपि न दृश्यते, प्रक्रियायां च भागं न स्वीकरोति, तथापि सः तत्रैव अस्ति । स्थानिवद्भावादीनि कार्याणि कर्तुम् तस्य तत्रैव स्थापनम् आवश्यकम् अस्ति ।
One-line meaning in English
Something that should be present but is not seen / heard is said to have undergone a लोप.
काशिकावृत्तिः
अदर्शनम्, अश्रवणम्, अनुच्चारणम्, अनुपलब्धिः, अभावः, वर्णविनाशः इत्यनर्थान्तरम् । एतैः शब्दैः योऽर्थोऽभिधीयते, तस्य लोपः इति इयं संज्ञा भवति । अर्थस्यैयं संज्ञा, न शब्दस्य । प्रसक्तस्य अदर्शनं लोपसंज्ञं भवति । गोधाया ढ्रक् 4|1|129 - गौधेरः ; पचेरन् ; "जीवेरदानुक्" (उणादिपाठः 1.163) - जीरदानुः । स्त्रिवेर्मनिन् आस्रेमाणम् । यकारवकारयोरदर्शनम् इह उदाहरणम् । अपरस्य अनुबन्धादेः प्रसक्तस्य । लोपप्रदेशाः लोपो व्योर्वलि 6|1|66 इत्येवम् आदयः ॥
`अदर्शनम्` इत्यादि। ननु चादर्शनानुपलब्धिशब्दावनुपलब्धिसामान्यवचनौ। अश्रवणानुपच्चारणशब्दौत्वनुपलब्धिविशेषवचनौ। तथा ह्रश्रवणादिशब्दोच्चारणे शब्दस्यैवानुपलब्धिः प्रतीयते, नानुपलब्धिमात्रम्, न च सामान्यविशेषशब्दानामेकार्थता, तत्किमित्येवमाह-- `अनर्थान्तरम्` इति। एवं मन्यते- सामान्यशब्द अपि प्रकरणवशाद् विशेषे वर्तन्ते। इह च शब्दा व्युत्पाद्यत्वेन प्रकृताः, तस्माद् यद्यप्यदर्शनानुपलब्धिशब्दौ सामान्यवचनौ, तथापीह प्रकरणसामथ्र्याद् विशेषे शब्दानुपलब्धावेववत्र्तेते। इह वृद्धिरित्यादिकाः संज्ञा शब्दानां विहिताः। तद्वदिहाप्यदर्शनमित्यस्यैव शब्दस्य `लोपः` इत्येषा संज्ञा स्यात्। ततश्च लोपप्रदेशेष्वदर्शनशब्दस्यैवोपस्थानात् स एवादेशः स्यादित्यत आह-- `एतैः शब्दैः` इत्यादि। कथं पुरेतल्लभ्यते? एवं मन्यते-- `नवेति विभाषा` 1|1|43 इत्यत इतिकरणोऽर्थनिर्दशार्थोऽनुवत्र्तते। तेन ह्रवधारणं गम्यते, यथा--- `क्रिया हि द्रव्यं विनयति नाद्रव्यम्` इति। विनापीकरणेन शब्द-स्वरूपस्य संज्ञा सिध्यत्येव, यथा-- `तरप्तमपौ घः` 1|1|21 इत्यत्र। तस्मादिति-करणानुवृत्तिसामथ्र्याददर्शनमिति योऽर्थः प्रतीयते, तस्यैवेषा संज्ञा, न शब्दस्य।किञ्च `लोपः` महती संज्ञा क्रियते यथान्वर्थसंज्ञा विज्ञायेत। लोपनं लोपः; अनुपलब्धिरनुच्चारणमित्यर्थः। न चादर्शनमित्येतच्छब्दरूपमेवाभावात्मकम्, किं तर्हि? तदर्थः। तस्मादन्वर्थसंज्ञाविज्ञानादर्थस्यैवैषा संज्ञा। यदि तह्र्रर्थस्यैवैषा संज्ञा, ततोऽतिप्रसङ्गः। सर्वो हि शब्दः स्वविषयादन्यत्र न दृश्यते। ततश्च `त्रपुजतु` इत्यत्र क्विपोऽदर्शनस्य लोपसंज्ञा स्यात्। एवञ्च सति `प्रत्ययलोपे प्रत्यय-लक्षणम्` 1|1|61 इति ह्यस्वस्य पिति कृति तुक्` 6|1|69 इति तुक् प्रसज्यतइत्यत आह-- `प्रसक्तस्य` इत्यादि। तर्हयदर्शनमात्रस्यैषा संज्ञा? न किं तर्हि? शास्त्रादर्थाद्वा कुतश्चित् प्रसक्तस्य यददर्शनं तस्यैव। तदिह न केनचित्प्रकारेण क्विप्प्रसङ्गोऽस्ति, तत्कुतोऽस्तिप्रसङ्गः? कतं पुरेष विशेषो लभ्यते, यावता नेहप्रसक्तग्रहणमस्ति, नापि तत् कृतम्? एवं मन्यते-- `स्थानिवत्` इत्यतः स्थानिग्रहण-मिहाप्यनुवर्तते, स्थानी, प्रसङ्गवन्, प्रसक्तः-- इति पर्याया ह्रेते। तेनायमर्थो लभ्यते-- प्रसक्तस्य यददर्शनं तस्येयं संज्ञेति।`गौधेरः` इति। `गोधाया ढ्रक्` 4|1|129 एयादेशः, `लोपो व्योर्वलि` 6|1|73 इति यकारस्य शास्त्रेण प्रसक्तस्य लोपः। `पचेरन` इत्यत्रापि सीयुटः शारुओण। एवम-न्यत्रापि यथायोगं प्रसक्तता वेदितव्या। `जीरदानुः` `आस्त्रेमाणम्` इति। पूर्वपद् वकारस्य लोपः। `स्त्रिवु गतिशोषणयोः` (धातुपाठः- 1109) यस्य `सर्वधातुभ्यो मनिन्` इति मनिन्प्रत्ययान्तस्य द्वितीयैकवचन उपधादीर्गेणैत्वे चकृते `आरुओमाणम्` इति। `अपरस्यानुबन्धादेः` इति। ककारादेरनुबन्धस्य। आदिशब्देन सीयुट्सकारस्य।
इह दर्शनं ज्ञानमुपलब्धिः । तच्च शब्दानुशासनप्रस्तावाच्छब्दविषयं सच्छ्रवणं भवतीत्याह-अश्रवणमिति । श्रवणं च श्रोतृव्यापारः, तन्निषेधे "लोपो व्योर्वलि" इत्यस्य वकारयकारौ वल्परौ न श्रोतव्यावित्यर्थः स्यात् । ततश्च प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात् । असति श्रवणे उच्चारणमनर्थकमेव स्यादिति श्रवणनिषेधेन तद्धेतुभूतमुच्चारणमेव निषिद्धं भवतीत्याह-अनुच्चारणमिति । "लोपो व्योर्वलि" इत्यस्य कोऽर्थः ? वकारयकारौ वल्परौ नोच्चारयितव्याविति । अनेनापि प्रकारेणास्मिन्विषये तयोरभाव एव व्याख्यापितो भवति, न हि विद्यमानयोरनुच्चारणमुपपद्यत इत्याह-अभाव इति । स्वाभाविक एवाभाव इत्यर्थः । विनाश इति । कार्यशब्ददर्शन एतत् । अनर्थान्तरमिति । शब्दविषयाणामेषामर्थो न भिद्यत इत्यर्थः । श्वं रूपम्" इति वचनाद् अदर्शनशब्दस्यैव संज्ञायां लोपप्रदेशेषु अदर्शनशब्द एवादेशः स्यादित्यत आह--एतैः शब्दैरिति । एतच्च ङवेति विभाषा" इत्यत इतिकरणानुवृतेर्लभ्यते । अथ वा-महती संज्ञा क्रियते, अन्वर्था यथा विज्ञायेत-लोपनं लोप इति । न चादर्शनशब्दो लोपनक्रिया भवति । यद्येवम्, प्रदेशेष्वेवार्थग्रहणमस्तु, किं संज्ञया ? तन्न; असति संज्ञाकरणे श्वं रूपम्" इति वचनात् प्रदेशेषु लोपशब्द एवादेशः स्यात् । सति त्वशब्दसंज्ञेति निषेधान्न स्वरूपग्रहणं भवति । न शब्दस्येति । अर्थसिद्धमप्येतद्विस्पष्टार्थ पुनरुक्तम् । ननु विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति-सतोऽदर्शनस्य संज्ञा, संज्ञया चादर्शनं भाव्यत इति, तन्न; न हि लोपविधानात्प्रगसदेवादर्शनं वचनेन भाव्यते, अनित्यत्वप्रसङ्गात्, किं तर्हि ? सदेवादर्शनं साधुत्वेनान्वारूयायते । यद्येवम्, सर्वस्य स्वविषयादन्यत्र स्वभावतोऽदर्शनमस्तीति लोपसंज्ञा स्यात् । ततश्च दधि, मध्विति णिचोऽदर्शनस्य लोपसंज्ञायां प्रत्ययलक्षणेन वृद्धिः स्यात् । अङ्गस्य वृद्धिः, अङ्गसंज्ञा च विधानप्रतिबद्धा । क्विपस्तर्ह्यदर्शनस्य लोपसंज्ञायां तुक् प्राप्नोति, तत्राह-प्रसक्तस्येति । एवं मन्यते-श्थाने" इति वर्तते; स्थानं च प्रसङ्गः; तेन प्रसङ्गे यददर्शनं तस्य लोपसंज्ञा, न च दधीत्यत्र क्विपः केनचित्प्रसङ्गोऽस्ति । एवमपि ग्रमणीरित्यत्र कर्मधातुकर्तृसन्निधानादस्ति अणः प्रसङ्ग इति तददर्शनस्य संज्ञायां वृद्धिः स्यात् । योऽत्राणः प्रसङ्गः, क्विपा सोऽपाह्रियते । सामान्यशास्त्रं हि विशेषसन्निधौ तद्व्यतिरिक्त एव विषये प्रतीतिं जनयति । तेन शत्सूद्विष" इत्यस्य सन्निधौ "कर्मण्यण्" इत्यनेन नयतेरण् भवतीति बुद्धिरेव न जन्यते ॥
सिद्धान्तकौमुदी
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥
सुद् ध् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसंज्ञासूत्रमाह--अदर्शनं लोपः। शब्दानुशासनप्रस्तावाच्छब्दविषयकश्रवणंमिह दर्शनं विवक्षितम्। दर्शनस्याभावोऽदर्शनम्। अर्थाभावेऽव्ययीभावः। `स्थानेऽन्तरतमः` इत्यतः स्थां इत्यनुवर्तते। स्थानं प्रसङ्ग इत्युक्तम्। शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणं तल्लोपसंज्ञं भवतीत्यर्थः।
अदर्शनं लोपः। अत्र दृशिर्ज्ञानसामान्यवचनः। दर्शनं ज्ञानं। तदिह शब्दानुशासनप्रस्तावाच्छब्दविषयकं सच्छ्रवणं संपद्यते। तच् श्रोतृव्यापारः, तन्निषेधोऽश्रवणम्। नन्वेवं `लोपो व्योर्वली`त्यादौ वकारयकारौ न श्रोतव्याविति श्रोतृव्यापार एव निषिध्येत, प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात्। अत्राहुः-असति च श्रवणे उच्चारणमनर्थकमवेति सामर्थ्याच्छ्रवणनिषेधे तद्धेतुभूतमुच्चारणमपि निषिद्धं भवतीति। प्रसक्तस्येति। इह `स्थाने` इत्यनुवर्तनादेताल्लभ्यते। प्रसक्तस्येति किम् ? दधि मध्वित्यादौ तुगागमो मा भूत्। अस्ति हि तत्र क्विपोऽदर्शनम्, तच्च लोप इति प्रसक्तविशेषणाभावे प्रत्ययलक्षणेन तुक् स्यादेवेति दिक्।
लघुसिद्धान्तकौमुदी
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।
महाभाष्यम्
अदर्शनं लोपः अर्थस्य सञ्ज्ञा कर्तव्या। शब्दस्य मा भूदित। इतरेतराश्रयं च भवति। का इतरेतराश्रयता ? सतोऽदर्शनस्य सञ्ञ्ज्ञया भवितव्यम्। सञ्ञ्ज्ञया चादर्शनं भाष्यते। तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते। लोपसञ्ज्ञायामर्थसतोरुक्तम्। किमुक्तम्? अर्थस्य तावदुक्तम्- इतिकरणोऽर्थनिर्देशार्थे इति। सतोऽप्युक्तम्। सिद्धं तु नित्यशब्दत्वादिति। नित्याः शब्दाः। नित्येषु शब्देषु च सतोऽदर्शनस्य सञ्ज्ञा क्रियते। न हि सञ्ञ्ज्ञया अदर्शनं भाव्यते। सर्वप्रसङ्गस्तु सर्वस्यान्यत्रादृष्टत्वात्। सर्वप्रसङ्गस्तु भवति। सर्वस्यादर्शनस्य लोपसञ्ज्ञा प्राप्नोति। किं कारणम्? सर्वस्यान्यत्रादृष्टत्वात्। सर्वो हि शब्दो यो यस्य प्रयोगविषयः स ततोऽन्यत्र न दृश्यते। त्रपु- जतु इत्यत्राणोऽदर्शनं तत्रादर्शनं लोप इति लोपसञ्ज्ञा प्राप्नोति। तत्र को दोषः। तत्र प्रत्ययलक्षणप्रतिषेधः। तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति। तस्य प्रतिषेधो वक्तव्यः। अचो ञ्ञ्णितीति वृद्धिः प्राप्नोति। नैष दोषः। ञ्ञ्णित्यङ्गस्याचो वृद्धिरुच्यते। यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गं भवति। यस्माच्च प्रत्ययविधिर्न तत् प्रत्यये परतः। यच्च प्रत्यये परत, न तस्मात् प्रत्ययविधिः। क्विपस्तर्ह्यदर्शनम्। तत्रादर्शनं लोप इति लोपसञ्ज्ञा प्राप्नोति। तत्र को दोषः। तत्र प्रत्ययलक्षणप्रतिषेधः। तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः। ह्रस्वस्य पिति कृति तुगित तुक् प्राप्नोति। सिद्धं तु प्रसक्तादर्शनस्य लोपसञ्ञ्ज्ञत्वात्। सिद्धमेतत्। कथम् ? प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीति वक्तव्यम्। यदि प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवति इत्युच्यते, ग्रामणीः ‐ सेनानीः,अत्र वृद्धिः प्राप्नोति। प्रसक्तादर्शनं लोपसंज्ञं भवति षष्ठीनिर्दिष्टस्य। यदि षष्ठीनिर्दिष्टस्येत्युच्यते ‐ चाहलोप एवेत्यवधारणम्। चादिलोपे विभाषा अत्र लोपसञ्ज्ञा न प्राप्नोति। अथ प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीत्युच्यमाने कथमिवैतत् सिध्यति ? को हि शब्दस्य प्रसङ्गः? यत्र गम्यते चार्थो न च प्रयुज्यते। अस्तु तर्हि प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीत्येव। कथं ग्रामणीः -सेनानीः ? योऽत्राणः प्रसङ्गः क्विपासौ बाध्यते।।60।।